________________
फक्किकारस्नमञ्जूषायाम्व सिद्धौ तस्य स्पष्टमेव वैयथ्यं स्यादित्याशय समाधत्ते-प्रारम्भसामर्थ्यादेव नित्यत्वसिद्धौ णग्रहणं स्पष्टार्थयिति ॥ ___'न तिसृचतनिति नामि दीर्घत्वप्रतिषेधज्ञापकेन डोबभावोपपत्तौ स्वस्रादिगणे तिसृ.चतम्रोः पाठो विफल एवेति 'कृन्मेजन्त' इत्यत्र कैयटः । इत्यजन्ताः स्त्रीलिङ्गाः ॥
अथाऽजन्तनपुंसकलिङ्गप्रकरणम् । ननु 'मतोऽमित्यत्र लाघवाय मित्येव छेद इति चेन्न । तथा सति ज्ञानमित्यत्र '. पि चेति दीर्घापत्तेः । न च (सन्निपात) परिभाषयैव तत्र दीर्घव्यावृत्तिद्वितीयकवचने च 'आदेः परस्येति आदेरादेशेऽन्त्यमकारस्य संयोगान्तलोपे रूपमिष्टं सिद्धयत्येति वाच्यम् । सत्येवं हे ज्ञानेत्यादौ सम्बुद्धिलोपाऽनापत्तः । प्रत्ययलोपेन मकारनिमित्तकप्रकृतिप्रत्ययसनिपातविघातस्य जायमानत्वात् । परन संयोगान्तस्य झल एव लोप इति व्याख्यानेन लोपाऽनापत्तेः । अतो नाऽत्र मितिच्छेदः किन्त्वमित्येव, अमिति छेदस्य सूत्रकाराऽभि. प्रायविषयत्वादेव, ज्ञानेत्यादौ मलोपाऽर्थ हेकतरदित्यत्र सम्बुद्धयलोपाथंञ्चाङ्गाक्षेप-व्यधि. करणान्वय-हल्पदानुवृत्तय आस्थिता भाष्ये न तु मिति छेद उक्त इति भाष्यविरुद्ध कल्पना नाभ्युपगन्तव्येति दिक् ॥ ___ ननु हे ज्ञान सु इति स्थितौ परत्वात्सम्बुद्धिलोपं बाधित्वा सोरमादेशे 'अमि पूर्व' इति पूर्वरूपत्वे च जाते सम्बुद्धेह स्वाऽन्ताङ्गात्परत्वाऽभावेन लोपो न स्यादिति चेन्न । पूर्वाऽन्तबद्भावेनैकादेशविशिष्टेऽङ्गत्वसत्त्वात् । न चैवमपि पूर्वरूपत्वेनाऽमोऽकारस्याऽपहारा. सम्बुद्धरङ्गात्परत्वाऽसम्भवेन लोपो न स्यादिति वाच्यम् । अमोऽकारस्याऽपहारेऽप्युक्तरीत्या तद्विशिष्टेऽङ्गात्वसत्त्वाध्रस्वान्ताङ्गात्परो यः सम्बुद्धयवयवो हलित्यर्थकरणेन सम्बुरिङ्गात्परत्वाऽभावेऽपि तदवयवस्य हलो मकारस्य तथात्वेन लोपस्य सुलभत्वादित्याशये. नाऽऽह-एहस्वादिति हल्मात्रलोप इति ॥ ___ ननु अडादेशस्थानेऽदादेशेन दादेशेनाऽपि वा हेकतरदित्यस्योपपत्तौ डित्करणम्व्यर्थमित्याशंक्य समाधत्ते-टेलप्तत्वादिति । अयम्भावः, अदादेशे 'प्रथमयोरिति पूर्वसददीर्घाऽऽपत्तिः, दादेशे तु हस्वात्परत्वेन 'एड-हस्वादिति सम्बुद्धिलोपापत्तिश्च स्यादिति डित्करणमावश्यकं कृते तु तस्मिन्प्रकृत्यकारस्य लोपे न दीर्घ-लोपयोरापत्तिरिति दिक ॥
ननु अजरशब्दात्सप्रत्यये तस्याऽमादेशेऽजर अमिते स्थितावजादिपरत्वाजरसादेशः स्यादिति सन्देहे समाधानमाह-सन्निपातपरिभाषया न जरसिति । आकारान्तसनिपातेन जायमानस्याऽमादेशस्य जरसाऽऽदेशद्वारोक्तसन्निपातविघातकत्वन्नोचितमुपजीव्य. विरोधात् जरसादेशेन स्पष्ट एव सन्निपातविधात इति भावः ॥ ___ ननु अजरशब्दाजसि तस्य श्यादेशेऽजर इ इति स्थितौ नुम्-जरसादेशयोः प्राप्ती कतरस्य प्रवृत्तिरिति सन्देहस्य जायमानत्वादाह-परत्वाजसि कृते झलन्तस्वा
नमिति । 'विप्रतिषेधः सूत्रे परेशब्दस्येष्टवाचित्वमिष्टकार्यत्वञ्च पूर्वविप्रतिषेधेन विभ क्त्यादेशस्यैवेत्येतत्सर्व निर्जरशब्दे प्रागुपपादितमेवेत्यलमत्र तदुपपादनेनेति दिक् ॥
वस्तुतस्तु प्रभृतिग्रयणं प्रकारार्थमिति । अयम्भावः, 'पदन्न' इति सूत्रे प्रभृतिग्रहणं प्रकारार्थम् , प्रकारश्च भेदसादृश्यम् , सादृश्यञ्च, तद्भिन्नत्वे सति तद्गत.
Aho ! Shrutgyanam