________________
श्रजन्तस्त्रीलिङ्गप्रकरणम् ।
काभावादुक्तरीत्या रूपसिद्धिरित्याशयेनाह - द्वेरत्वे सत्याबिति ।
विभक्तौ लिङ्गविशिष्टाऽग्रहणमिति । बिभक्तिनिमित्तके कायें कर्त्तव्ये लिङ्गबोधकप्रत्यय विशिष्टस्य ग्रहणन्नेति तदर्थः । अत्र ( १ ) घटघटी ग्रहणेन लिङ्गविशिष्टपरिभाषा - नित्यत्वमेव मूलमिति भावः ॥
६३
न ह्रस्ववाक्येऽप्यस्त्रीत्यस्य सम्बन्धात् त्रिशब्दावयवभिन्न स्वेवर्णान्तस्य नदी संज्ञेत्यर्थ कथमतित्रियै इत्यत्र नदीसंज्ञाप्राप्तिरित्याशयेनाह - स्त्रीति त्विति । अत्र हेतुमाह - तत्सम्बद्धस्यैवाऽनुवृत्तेरिति । इयवस्थानिसम्बद्धस्यैवाऽनुवृत्तेरित्यर्थः । अस्त्रीत्यत्र न प्रसज्यप्रतिषेधो वाक्यभेदाद्यापत्तेः । ननु इयङुवङ्स्थानावित्यनेनाऽपि हस्वस्य निषेधः कुतो नेत्याशङ्कय समाधत्ते - दीर्घस्यैवाऽयं निषेधो न तु ह्रस्वस्येति । तत्र ह्रस्वपदाऽभावादिति भावः ॥
प्रधीशब्दस्येति । वृत्तिकारादीनाम्मते प्रधीशब्दस्य नदीसंज्ञाविधौ पदान्तरं विनापि खियां वर्तमानत्वं नित्यस्त्रीत्वम् । अत एव, आध्यै प्रध्यै ब्राह्मण्यै इति (२) भायं सङ्गच्छते । अन्यथा कैयटोक्तनित्यखोत्वाभावात्तदसङ्गतं स्यात् । अतः स्त्रीविषयावेव
यू नित्यमिति भाष्ये एवकारो भिन्नक्रमः, नित्यमेवेत्यस्य पदान्तरं विनापीत्यर्थः । उकभाष्यप्रयोगे न बहुब्रीहिः कबापत्तेः, किन्तु आध्यायति प्रकृष्टं ध्यायतीति व्युत्पत्तिः, अस्याञ्च व्युत्पत्तौ लिङ्गान्तराऽनभिधायकत्वाऽसम्भवेन नित्यस्त्रीत्वाऽभावादुक्तभाष्यप्रयोगानुपपत्तिः, एवञ्चोक्तव्युत्पत्तिकस्य प्रधीशब्दस्य लक्ष्मीशब्दवदेव रूपम्, वृत्तिकाराद्युनित्यस्त्रीत्वादिति भावः । वस्तुतस्तूक्तभाष्यप्रयोगे बहुब्रोहिरेव कन्तु न वृत्तेः प्राग् यस्य नदीत्वं तदुत्तरपदकादेव कपो विधानात् ऋत्साहचर्यात । ततश्च नित्यपदस्य स्वारसिकाऽर्थत्यागेऽतिविप्रकृष्टाऽर्थपरत्वे प्रमाणाऽभावेन लिङ्गान्तराऽनभिधायकत्वं नित्यस्त्रीत्वमित्येव युक्तमिति कैयटमतम् । अस्मिन मते नित्यस्त्रीत्वाऽभावेन पुंबदेव रूपमित्यलम् ॥
ननु भ्रूशब्दस्योवस्थानित्वेन समुदायस्याऽपि तत्स्थानित्वात् 'नेयवङिति निषेधेन नदीत्वाप्राप्त्या सम्बोधने हस्वत्वन्न स्यादित्यभिप्रायेणाऽऽशङ्कते - कथं तहि, हे सुभ्रु इति । समाधत्ते - प्रमाद एवेति । अनवधानरूप एव प्रमादः । स च काव्येपुष्टिकरत्वेन गुण एवेति बहवः (३) ( नघटितमनित्यमि ) ति परिभाषया निषेधशास्त्राऽनित्यत्वबोधनान्नात्र कश्चिद्दोष इति केचित् ॥
ननु 'रषाभ्यां नोणः समानपदे' इत्यतो णकारानुवृत्यैव सिद्धौ एकाजुत्तरपदेश इत्यत्र णग्रहणं व्यर्थम् । न च 'वा भाव - करणयोरि' त्यस्माद्वाग्रहणाऽननुवृत्यर्थमस्तु तदिति वाच्यम् । आरम्भसामर्थ्यादेव नित्यत्वसिद्धेः । अन्यथा 'प्रातिपदिकान्तनुम्त्रिभक्तिषु चे'त्ये
(१) (शक्ति-लाङ्गलाs-ङ्कुश तोमर-यष्टि-घट घटीग्रहणेषूपसंख्यानमि ) ति वार्त्तिके घटशउदादेव लिङ्गविशिष्टपरिभाषया घटीशब्दस्यापि ग्रहणसिद्धौ पृथक्कृतं घटीग्रहणमेवोक्तपरिभाIsनित्यत्वसाधकमिति निष्कर्ष: ।
पाड
(२)*भाष्यमिति । आध्यै प्रध्यै ब्राह्मण्यै, इत्यत्र नदीसंज्ञा निषेधमाशंक्य यत्र नदीकाश्रयेऽङ्गे बाघकाsबाधितेयङादिस्थितिस्तत्रैव निषेध इति समाधानपरभाष्यमित्यर्थः ॥ (३) *नञ्घटितमिति । एषा च परिभाषा भाष्ये न दृश्यते ।
Aho! Shrutgyanam