________________
६
फक्किकारत्नमञ्जूषायाम्-- ननु स्त्रियामित्यस्य सामीप्यादङ्ग-त्रिचतुरोश्च विशेषणत्वसम्भवस्तबाङ्गाविशेषणत्वे स्त्रियां वर्तमानं यत् त्रिशब्दान्तं चतुःशब्दान्तञ्चाङ्गं तदवयवयोनिर्दिश्यमानयोः त्रि-चतुश्शब्दयोस्तिस-चतस्नादेश इत्यर्थे प्रियास्त्रयस्त्रीणि वा यस्येति विग्रहे प्रियत्रिरित्यत्र त्रिशब्दा. न्ताङ्गस्य स्त्रियां वर्तमानत्वेन तिस्रादेशापत्तिः, त्रिचतुरोविशेषणत्वे तूक्तविग्रहे तयोः स्त्रियां वर्तमानत्वाभावान्नोक्तापत्तिः । प्रमाणञ्चात्र (श्रुताऽनुमितयोः श्रुतसम्बन्धो बलवानि)ति न्याय एवेत्याशयेनाह-स्त्रियामित्यस्य त्रिचतुरोविशेषणत्वान्नेहेति ॥
ननु प्रियास्तिस्रो यस्य तत्कुलमिति विग्रहे त्रिशब्दस्य स्त्रियां विद्यमानत्वेन तिस्रादेशे प्रियत्रीति रूपन्न स्यादित्यत आह-स्वमोलु का लुप्तत्वेनेति । अयम्भावः, प्रि. यत्रिशब्दात्परस्य सोः स्वमोर्नपुंसकादिति लुकि तस्य न लुमताऽङ्गस्येति निषेधात्प्र. त्ययलक्षणाऽभावेन विभक्तिपरत्वाऽभावान्न तिलादेश इति, उक्तनिषेधसुत्रस्याऽनित्यत्वे तु प्रत्ययलक्षणेन विभक्तिपरत्वात्तिस्रादेशे प्रियतिनिति रूपं संभवत्येव, एतदनित्यत्वे प्रमाणन्तु 'इकोऽचि विभक्तावि' त्यत्राऽचिग्रहणमेव, तथा हि, अजादिभिन्न विभक्तिपरतो नुमोऽ भावाय सूत्रे तद्ग्रहणं परञ्च भ्यां-भ्यसादिषु सत्यपि नुमि 'नलोपः प्रातिपदिकान्तस्येति नलोपे विकृतरूपाऽभावाव्यर्थमचिग्रहणं ज्ञापयति न लुमताऽङ्गस्येति सूत्रमनित्यमिति । न च 'न डि-सद्धम्बुयोरिति निषेधेन सम्बुद्धौ नलोपाऽसम्भवात्तत्र नुमापत्तिव्यावृत्यर्थमचीत्यस्याऽऽवश्यकत्वमिति बाच्यम् । सम्बुद्धे का लुप्तत्वेन विभक्तिपरकत्वाऽभावादेव तत्र नुमोऽप्रवृत्तः । न च तत्राऽपि प्रत्ययलक्षणेन विभक्तिपरत्वसम्भवात्प्राप्तनुम्च्यावृत्यर्थ तदावश्यकमिति वाच्यम् । न लुमताऽङ्गस्येत्यस्याऽनित्यत्व विना प्रत्ययलक्षणाऽप्रवृत्त । नवोत्तरार्थत्वेन ज्ञापकत्वन्तस्य न स्यादिति वाच्यम् । तथा सति लाघवात्तस्यैव कर्तव्ये इह करणे वैयर्थ्यस्य स्पष्टत्वेन ज्ञापकत्वस्य युक्तत्वात् । एवञ्चास्योक्तनिषेधशास्त्रस्यानित्यत्व. ज्ञापनात्सम्बुद्वौ नुम्व्यावृत्यर्थमावश्यकत्वेन स्वांशे चारितार्थ्यमिति भावः । न चानित्यत्वस्य सम्बुद्धिगुणमात्रविषयकत्वे कथं प्रकृते निर्वाह इति वाच्यम् । लक्ष्याऽनुरोधात्क चिदन्यत्रापि तदभ्युपगमेनेष्टसिद्धेः । अत एव कैयटेनाऽपि मूलोक्तरूपद्वयमङ्गीकृतमिति दिक् ।
रादेशात्पूर्वविप्रतिषेधेन नुमिति । प्रियतिसृणी प्रियतिसृणीति भाष्योदाहरण. मेवाऽत्र प्रमाणम् । अथ वा 'न तिसृ चतस्त्रि'ति ज्ञापकात्सामान्यतो नाऽऽगमविषये रादेश. प्रवृत्तिः, अत एव प्रियतिसृणामित्यत्र नट, अन्यथा, रादेशे ह्रस्वान्तत्वाऽभावात्स न स्यादि ति भावः ।।
ननु द्विशब्दादौविभक्तिसमभिव्याहारे द्वि औ इति स्थितौ 'त्यदादीनामः' इत्यत्वे टापि औङ आपः' इति श्यादेशे गुणे द्वे इति सिद्धयति, अत्र ( सन्निपात ) परिभाषया विभक्तिसन्निपातेन जायमानस्याऽत्वस्य टापद्वारा विभक्तिविधाते निमित्तत्वाऽभावेन टापोऽअऽवृत्या नेष्टरूपस्य सिद्धिरिति चेन्न । 'न यासयोरिति निर्देशेनोक्तपरिभाषाया अप्र. वृत्तः । नचाऽन्तरङ्गपरिभाषयाऽन्तरङ्गटाप्दृष्टया बहिरङ्गाऽसिद्धत्वाहाब न स्यादिति वाच्यम् । अस्या अप्युक्तनिर्देशेनैवानित्यत्वात् । न च ( अङ्गवृत्त) परिभाषया टा नेति वाच्यम् । 'द्वयोरेकस्य निर्धारणे' इत्यत्रैत्वनिर्देशेन तदनित्यत्वेनाप्रवृत्तेः । एवञ्च बाध.
Aho! Shrutgyanam