________________
अजन्तस्त्रीलिङ्गप्रकरणम् । प्येवमाऽऽरूपस्याऽऽप ईरूपस्य डोत्यस्य प्रश्लेषेण ग्रहणादतिखट्वो निष्कौशाम्बिरित्यादेः सिद्धिम्मत्वा दीर्घग्रहणं प्रत्याख्यातम् । न च प्रश्लेषेणाऽऽरूपस्याऽऽपो ग्रहणेऽप्यतिखटवा. येत्यत्र श्रयमाणाऽकारेऽतिदेशेनाऽऽप्त्वमानीय याडा भाव्यमिति वाच्यम् । 'याडाप' इति सूत्रस्याऽऽपः सामानाधिकरण्याऽनुराधेनाऽधिकृतमङ्गस्येति पई पञ्चम्यन्ततया विपरिणम्य उपसर्जनस्त्रीप्रत्यये तदादिनियमेन प्रत्ययग्रहणपरिभाषया तदादिपदमुपस्थाप्य, आबन्तत. दाद्यभिन्नादङ्गात्परस्य डितो याट स्यादित्यर्थे यदाबन्ततदादि खट्वेति न तदङ्ग यदङ्गम. तिखट्वेति न तदाबन्ततदादिरिति सूत्राऽप्राप्त्या याटोऽप्राप्तेरिति भावः । प्रत्ययग्रहणपरि. भाषयाऽऽबन्तस्य ग्रहणे तेनाऽङ्गाविशेषणाद्वितीयतदन्तविधानाञ्चाबन्तान्तं पदङ्गमित्यर्थेs तिखट्वायेत्यत्र तदवस्थैव याडापत्तिरिति वाच्यम् । अङ्गस्य विशेषणत्वेनाऽङ्गाभिनं यदाबन्ततदादि ततः परस्येत्यर्थस्यैव सम्भवेनोक्तापत्तेरयोगात् । न च स्त्रीप्रत्ययमाने शास्त्रीयोपसर्जनत्वाभावात्कथमत्र तदादिविधिरिति वाच्यम् । शास्त्रीयोपसर्जनत्वाऽभावेपि लौकि कोपसर्जनत्वस्य सत्त्वात् अस्यैव च ग्रहणास्पूर्वोक्तस्य तस्य स्त्रीप्रत्ययमात्रेऽसम्भवात् । न च स्त्रीप्रत्ययान्ते शास्त्रीयोपसर्जनत्वमस्तीति वाच्यम् । तत्र तत्सत्वेऽपि तेन प्रत्ययग्रहणपरिभाषया तदादिनियमाऽप्रसक्तः । लौकिकोपसर्जनत्वञ्च स्वान्तपातशक्तिनिरूपकाs र्थनिष्ठविशेष्यतानिरूपितप्रकारतानिरूपितस्त्रीत्वनिष्ठाऽवच्छेदकताप्रयोजकत्वम् , इत्थमेतत्स. मन्वयप्रकारः, तथा हि, स्वपदेन स्त्रीप्रत्ययस्य ग्रहणं तदन्तमतिखट्वेति तत्पर्याप्ता शक्तिः स्त्रीत्वविशिष्टखट्वाकर्मकाऽतिक्रमणकर्तृत्वावच्छिन्न निरूपिता तन्निरूपको ऽर्थः स्त्रीत्वविशिष्ट. खट्वाकर्मकाऽतिक्रमणकर्तृत्वरूपस्तनिष्ठविशेष्यतानिरूपितप्रकारता अतिखट्वनिष्ठा तन्नि. रूषितस्त्रीत्वनिष्ठाऽवच्छेदकताप्रयोजकत्वं स्त्रीप्रत्ययस्यास्तीति लक्षणसमन्वयः । (१)नव्यास्तु-आकारस्य लाक्षणिकत्वेन खट्वायै इत्यादौ न याडिति स्पष्टम्भाष्ये । न च सूत्रस्य निशायै इत्यादौ चारितार्थेन खट्वाय इत्यत्र याट् न स्यादिति वाच्यम् । लक्षणप्रवृत्तं विना यस्य रूपस्य न संभवस्तस्यैव लाक्षणिकस्य लक्षणप्रतिपदोक्तपरिभाषाविषयत्वादिति वदन्तीत्यलम् ॥
गुण-दी?-त्वानामपवाद इति । अयम्भावः, अस्ति हि शास्त्रे पक्षद्वयम् बा. ध्यविशेषचिन्ता बाध्यसामान्यचिन्ता, चेति, तत्र मद्विषये ये ये प्राप्तास्तेषामन्यतमो बाध्य इत्याद्यपक्षस्वरूपम् , मद्विषये यद्यत्प्राप्तं तत्सर्व बाध्यमिति द्वितीयपक्षस्वरूपम् । प्रकृते द्वितीयपक्षाऽऽश्रयणे तस्य (२) ( मध्येऽपवादाः ) इति न्यायेन दीर्घोत्वयोरेवाऽपवादत्वं स्यान्न तु गुणस्येति नास्येहाऽऽश्रयणम् , अस्य च पक्षद्वयस्य जाति-व्यक्तिपक्षवल्लक्ष्याऽनुरोधा द्वयवस्था । न च रादेशस्य प्रियतित्यादौ सावकाशत्वादपवादत्वं कथमिति वाच्यम् । यणागतार्थत्वात् । एवञ्च रादेशेन तिस्रस्तिष्ठन्तीत्यत्र 'जसि चेति गुणस्य, तिस्त्रः पश्यन्तीत्यत्र 'प्रथमयोरिति पूर्वसवर्णदीर्घस्य, प्रियतिस्रः स्वमित्यत्र 'ऋत उदित्युत्वस्य बाधहत्यलम् ॥
(१) *नव्यास्त्विति । शेखरकाराः।
(२) *मध्येऽपबादा इति । मध्येऽपवादाः पूर्वान्विधीन्बाधन्ते नोत्तरान् इति तत्स्वरूपम्। मध्यवर्तिनोऽपवादाः पूर्वोपस्थितान् विधीनेव वाधन्ते न तु पश्चादुपस्थितान् विधीनित्यर्थः । पूर्वोपस्थितबाधेन नैराकांक्ष्यमस्या वीजम् ।
६ फ० र०
Aho ! Shrutgyanam