________________
फक्विकारत्नमञ्जूषायाम्ऽऽशङ्कय समाधत्ते-एकादेशस्य पूर्वाऽन्तवत्त्वेन ग्रहणादिति । एकादेशपूर्वस्थानि. घटितसमुदायवृत्तिसर्वनामत्वस्यैकादेशविशिष्टेऽतिदेशेनाऽऽबन्तस्य सर्वेत्यस्य सर्वनामत्वा. मुलभ एव सडिति भाबः । एवं सर्वस्यामित्यत्राऽपि बोध्यम् । नचोक्तरीत्याऽऽवन्तस्य सर्वनामत्वेऽप्येकादेशनिष्पन्नस्याऽऽप्त्वाभावादाबन्तत्वमेव न स्यात् । अत एव, खट्वे. त्यादौ परादिवद्भावेनाऽऽस्त्वमाश्रित्याऽऽवन्तत्वाद्धल्ड्याबिति सोर्लोपः प्रकृते उभयत आ. श्रयणेऽन्तादिवत्वाऽभावात्परादिवद्भावेनाऽऽबन्तत्वमानेतुमशक्यमिति वाच्यम् । उभयत आश्रयणे नान्तादिवदित्यस्य सिद्धान्तिभाष्यसम्मतत्वाभावात्परादिवद्भावेनाप्त्वाश्रयणादाबन्तत्वस्य सुलभतया सर्व सूपपन्नमित्यलम् ।।
ननु तत्तच्छब्दाऽनुवादेन विहितत्वरूपप्रतिपदोक्तत्वस्य समासे सत्वाच्छीघ्रोपस्थिति कत्वेन तस्यैव ग्रहणं, द्वितीयस्य तु बिलम्बोपस्थितिकत्वादग्रहणं न स्यादित्याह-'दिङ नामाऽन्यन्तराले इति (२)प्रतिपदोक्कदिकसमासस्य ग्रहणान्नेहेति ।।
योत्तरेति । यत्तच्छब्दाभ्यामुद्देश्य-विधेयत्वप्रतीत्या योत्तरात्वप्रकारकज्ञानबिशेष्या सा प्रसिद्ध पूर्वा यस्या इति तदर्थः । तथा च, गुणवाचकत्वादुत्तराशब्दस्य पूर्वनिपातो बोध्यः ।। . ननु उक्तप्रदिपदोक्तसमासस्य बदुबीहीत्वादेव बहबीहिलाभे सूत्रे तद्ग्रहणं व्यर्थमि. त्याशङ्कायामाह-बहुब्रीहिग्रहणं स्पष्टार्थमिति ॥
ननु 'अम्बार्थनघोह स्वः' इति सूत्रभाष्येऽम्बाथं द्वयक्षरं यदीति पाठेन द्वयकाऽम्चा. र्थकस्यैव हस्व इति नियममाश्रित्य ( डलकवतां ह्रस्वो नेस्यस्य प्रत्याख्यातत्वात्फलभे. दाऽभावाय सामान्यतोऽपि वार्तिकमसंयुक्तविषयकम् , अन्यथा, वार्तिकसत्त्वेऽक्केऽल्ले प्रत्याख्याने अक्क, अल्ल, इति फलभेदः स्पष्ट एवेत्याशयेनाह-असंयुक्ता ये डलका. स्तद्वतां हस्वो नेति । द्वयक्षरं यदीत्यस्याऽऽङ्गत्वाद्वयक्षराम्वार्थकान्तस्याऽपि हस्व इत्यर्थे जगदम्वेत्यादौ न हस्वाऽनापत्तिरिति दिक् ॥
यत्केचिदाहुद्लोक्तरीत्या जरसादेशात्प्राक् विभक्त्यादेशस्येष्टत्वेनाऽऽदौ श्यादेशं वि. धायेनातोरिकारदीर्वोच्चारणसामर्थ्याज्जरसि कर्त्तव्ये सन्निपातपरिभाषाया अप्रवृत्त्या जर. सादेशे जरसीतिरूपमिति तद्विरुद्धम् , उक्तपरिभाषाऽनित्यत्वज्ञापकप्रत्याख्यानपरभाष्या. दिति तेषामुक्तिनिर्मूलिकैवेति भावः ।। ___ ननु जरसादेश-विभक्त्यादेशयोर्युगपत्प्राप्तौ परत्वाज्जरसि तस्य स्थानिवद्भावेनाssब. न्तत्वमाश्रित्य 'औङ आप:' इत्यादिमूलोक्तपञ्चसूत्रीविहितैस्तैस्तैः काय्यैर्भवितव्यन्तथा नस्-निश-पृत्स्वपीतीत्थं सन्दिह्याह-यद्यपि जरसादेशस्येति । अत्राल्विधौ स्थानिवद्भावाप्रवृत्त्याऽऽबन्तत्वाऽभावान्नोक्तकार्याणि भवन्तीति । नचाप्त्वमलमात्रवृत्ति नह्याबन्तत्वन्तथेति प्रकृतेऽतिदेशादन्त्यस्याऽऽश्रयणे उक्तनिषेधाऽप्रवृत्या स्थानिवत्वस्य दुर्बारत्वादुक्तदोषस्तदवस्थ एवेति वाच्यम् । सकलापवटितसूत्रेषु आ आविति प्रश्लेषादा. रूपस्यैवाऽऽपो ग्रहणादिहाऽतिदेशेनाऽऽरूपत्वाऽऽलाभेनाऽक्षतेरिति भावः । हल्ङ्यादिसूत्रेड
(१) *प्रतिपदोक्तदिक्समासस्य ग्रहणादिति । लक्षण-प्रतिपदोक्तयोः प्रतिपदोक्तस्रैव ग्रहणमिति परिभाषयेति भावः ।
Aho! Shrutgyanam