________________
अजन्तपुल्लिङ्गप्रकरणम् । णिदिति वाच्यमिति । गोतो णिदित्यत्र गकारस्याऽविवक्षितत्वेन लब्धमिदम् , तेन चित्रगुरित्यत्र नातदोषः, अङ्गाऽधिकारे तदन्तविधेः सत्त्वेन गोशब्दान्तात्परस्य सर्वनाम स्थानस्य णिहद्भाव इत्यथें प्रकृते स्थानिवत्वाद्गोशब्दान्तत्वेन दोषः स्पष्ट एव, उक्तवच. नाऽङ्गीकारे तु चित्रगुरित्यादावोकारान्तत्वाऽभावादल्विधौ स्थानिवत्त्वनिषेधाच न दोष इति प्राञ्चः ।
नव्यास्तु-'गोतो णिदिति सूत्रे भाष्ये गकारस्य प्रत्याख्यानादुक्तवचनस्याऽस. म्भवः । नचैवं चित्रगुरित्यादौ दोषस्य तादवस्थ्यमिति वाच्यम् । गोः पूर्वणित्वाऽऽत्वस्व. रेषु स्थानिवत्वप्रतिषेधेन गोशब्दाऽभावेनैवाऽदोषात् । न च हे चित्रगो इत्यादौ दोष एवेति वाच्यम् । (१)(लक्षणप्रतिपदोक्त) परिभाषयैवाऽत्रत्यदोषस्य व्यावृत्तः। नचोक्तसूत्रघटक. गकारस्य विवक्षितत्वेन गोशब्दात्परस्य सर्वनामस्थानस्यैव णिद्वद्भावविधानेन प्रकृतेऽतथा. त्वेन सुद्यौरिति न स्यादिति वाच्यम् । (द्योः सर्वनामस्थाने णित्वं वक्तव्यमिति औ. तोऽम्शसोरिति सूत्रभाष्योक्तवार्तिकेनैव निर्वाहादित्याहुरिति दिक् ।।। __ ननु उक्तरीत्या लब्धे ( ओतो णिदिति वचने) विहितविशेषणाऽभ्युपगमे ओकारा. न्ताद्विहितस्य सर्वनामस्थानस्य णिद्वद्भाव इति व्याख्यानान्नाऽलक्ष्यदोष इत्यत आहतेनेह न हे भानो इति । नन्वत्र 'सम्बुद्धौ शाकल्यस्येति सूत्रारम्भसामर्थ्यान णिवद्धा. वापत्तिरित्यत आइ-हे भानव इति । इत्यजन्ताः पुल्लिंङ्गाः ।।
अथाऽजन्तस्त्रीलिङ्गप्रकरणम् । ननु सम्बुद्धौ प्रतिपदोक्तत्वेन शीघ्रोपस्थितिकत्वाद्धल्यादिलोपात्प्रागेवैत्वे तत्र दीर्घाऽऽकारप्रश्लेषेण स्थानिवत्त्वाऽप्राप्त्या तेन लोपाऽप्राप्तावनेनैव लोपसम्भव इत्यत आहएङ-हस्वादिति । न च (२)(सन्निपात)परिभाषावलात्सम्बुद्धिन्निमित्तीकृत्य जायमान. स्यैत्वस्य सम्बुद्धिलोपनिमित्तकत्वाऽभावेन लोपो न स्यादिति वाच्यम् । तस्या (३)भनित्यत्वेनाऽत्राऽप्रवृत्त्या सम्बुद्धिलोपे बाधाऽभावादिति भावः ।।
ननु रमाय इत्यादौ यत्केनचिदुक्तं 'आटश्चेति वृद्धि रिति तन्न याट्-स्याटोष्टकारस्व समुदायाऽनुबन्धत्वाट्टकारेत्संज्ञकाऽऽशब्दाऽभावादुक्तसूत्रप्रवृत्त्यसम्भवादित्यत आह-'व. द्धिरेचि' रमायै इति।
ननु आवन्तस्य गणे पाठाऽभाबादसर्वनामत्वेन सर्वासामित्यादौ मुण न स्यादित्या.
(१) *लक्षणप्रतिपदोक्तति । लक्षण प्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणमिति तत्स्व. रूपम् । लाक्षणिक प्रतिपदोक्तशब्दयोर्मध्ये तत्तच्छब्दानुवादविहितरूपप्रदोक्तस्यैव ग्रहणं शीघोपस्थितिकत्वानतु लाक्षणिकस्य, तस्य लक्षणानुसन्धानपूर्वकत्वेन विलम्बोपस्थितिकत्वात् शीघ्रोपस्थितिकत्वं विलम्बोपस्थितिकत्वञ्चैतत्परिभाषावीजम् । 'भुवश्व महान्याहतेरिति सूत्रे महाव्याहृतिग्रहणादनित्या चेयम् ।।
(२) *सन्निपातेति । सनिपातलक्षणो बिधिरनिमित्तं तद्विघातस्येति स्वरूपम् । उप. जीव्यविरोधो न न्याय्य इति न्यायमूलैषा।
(३) *अनित्यत्वेनेति । अनित्यत्वे प्रमाणञ्च, कष्टीय क्रमणे, न यासयोरित्यादिनिदेश एवेति बोध्यम् ।
Aho ! Shrutgyanam