________________
फक्किका रत्नमञ्जूषायाम् -
विभक्तिकरणाच्च वैकल्पिकत्वमित्यत आह- वैकल्पिकाऽतिदेशादिति । (१) अनुकरणस्याऽनुकार्य्यशब्दरूपार्थेनार्थवत्त्वात्प्रातिपदिकत्वेन ततः सुबुत्पत्तिः सुलभा । नचैवं 'भू सत्तायामित्यादावपि विभक्त्यापत्तिरिति वाच्यम् । एतन्निदेशादेव क्वचिदनुकरणाद्विभक्त्यनुत्पत्तेरपि स्वीकारात् । 'झलां जश् झसी' त्यादौ जयत्वाभाववद्ग वित्ययमादेत्यत्र वान्तस्यैवानुकरणादनुकार्य स्वरूपस्याबिकृतत्वाय न बलोप इत्यलम् ॥
ननु इन सह वर्तते इति विग्रहे 'तेन सहेति तुल्ययोगे' इति बहुब्रीहौ 'वोपसर्जनस्ये'त्यनेन सहस्य सभावे 'आद्गुण:' इति गुणे से इति सिद्ध्यति 'अत्रैकादेशस्य पूर्वान्तवादव्ययत्वेन सुपो लुक् दुर्वार इति चेन्न । अव्ययमिति महासंज्ञाया अन्वर्थत्वादुपसर्जनेऽव्ययत्वाऽभावेनाऽदोषात् । न चैवमपि सह इ इति स्थितावन्तरङ्गत्वाद्गुणे एकादेशस्य परादिवद्भावे सहशब्दाभावात्पूर्वान्तवद्भावे तु सहशब्दस्योत्तरपदत्वाऽभावादुभयत आश्रयणेऽन्तादिवद्भावस्याऽनिष्टत्वाच्च सहशब्दस्य सादेश एव न स्यात्किञ्च सादेशात्प्रागन्तरङ्गत्वाद्गुणे ततः सादेशेऽदन्तत्वस्यैव सम्भवादेकारान्तत्वाऽभावेन नोक्कापत्तिलेशोऽपीति वाच्यम् । 'नेन्द्रस्य परस्येत्युत्तरपदवृद्धिप्रतिषेधेन प्राक् पूर्वोत्तरपदनिमित्तकं कार्य्यं तत एकादेश इति सामान्याऽपेक्षज्ञापनादेकादेशात्प्राक् सादेशे तदुत्तरमेकादेशे पूर्वप्रदर्शिताऽऽपत्तेस्तादवस्थ्यात् । एवञ्च प्रागुक्तसमाधानेनैव दोषव्यावृत्तिरित्यवसेयम् ।।
ननु से शब्दाज्जसि से असिति स्थितावेकारस्य पूर्वान्तवद्भावेन पदान्तत्वादयादेशं बाधित्वा 'एड: पदान्तादति' इति पूर्वरूपाऽऽपत्तिरिति चेन्न । अस्य 'थासः से' 'ईशः से' अत्रत्य सेशब्दाऽनुकरणत्वादेकारस्य पदान्तत्वाऽभावेनोक्तापत्तेरभावादिति भावः ।।
પૃ
ag ओकारान्तान्तद्धितस्य शसोऽसम्भवात्प एव तस्य सम्भव इत्याशयेनाह - शसा (२) साहचर्य्यादिति । कैयटस्तु तद्धितस्यापि सः सत्वात्तेनाऽपि साहचर्य. ग्रहणस्य कर्त्तुं शक्यत्वेन शसा साहचर्य्यादमः सुप एव ग्रहणे किं विनिगमकमिति सन्दिह्याचीत्यधिकारादजादिशसः सूप एव सम्भवो न तु तद्धितस्येति तदाशयमभिहितवान्, तेन, अचिनवम्, असृनवमित्यादावमिपरे नात्वापत्तिर्दोषः । चिनोतेः, सुनोतेश्व लडि, मध्ये oot marrस्थानिकस्य मिपः 'तस्थस्थमिपामित्यमादेशे उवडि चोक्तप्रयोगद्वयोपपत्तिरिति भावः ।।
ननु गो अमिति स्थितावमः सर्वनामस्थानत्वेन 'गोतो निदिति द्विद्भावे, आत्वात्प्राक्परत्वादवृद्धिः स्यादिति चेन्न । अनत्रकाशेनाऽऽत्वेन वृद्धेर्बाधादित्यत आह-१ - श्रोतो
( १ ) *अनुकरणस्येति ।। अनुकार्थ्यानुकरणयोर्भेदेऽनुकरणेन बोधार्थं शक्तः स्वीकर्त्तव्य. त्वाच्छक्तिमत्त्वरूपार्थवत्त्वेनैव सर्वमुपपन्नम् । अत एव 'भुवो बुगि' त्यादेः सङ्गतिः । तयोरभेदे तु, अनुकार्यनिरूपितशक्त्यैवाऽनुकरणेनाऽपि बोधो भवतीत्यनुकरणस्य शक्तिमत्त्वरूपार्थवत्त्वाऽभावेनाऽप्रातिपदिकत्वान्न विभक्त्युत्पत्तिः, अत एव भृ सत्तायामित्यादि सङ्गतमिति तदाशयः ॥
(२) * साहचर्यादिति । सहचरितासहचरितयोमध्ये सहचरितस्यैव ग्रहणमिति परिभाषयेत्यर्थः ।
Aho! Shrutgyanam