________________
अजन्तपुलिंगप्रकरणम् । सम्बन्धियलोपल्याऽसिद्धत्वेन स्थानिवत्त्वनिषेधमन्तराऽप्युक्तदोषो न स्यादिति वाच्यम् । उक्तपरिभाषाया भनित्यत्वेन दोषस्य दुरुद्धरत्वोदित्यत आह-कौ लुप्तं न स्थानिवदिति । लुप्तमिति नपुंसके भावे क्तः लोप इत्यर्थः । गोमत्यतेः क्विपि गोमानिति भा. व्यक्तिरेतदपि क्वचित्स्वीकर्त्तव्यम् । सार्वत्रिकन्तु को बिधिं प्रति न स्थानिवदित्येवेति दिक ___ ननु ‘ख्यत्यादिति सुत्रे प्रयोगस्थस्य विकृतस्याऽनुकरणेनाऽविशेषाद्धस्व-दीर्घयोरुभ. योर्ग्रहणमित्याशयेनाह-दीर्घस्यापि ग्रहणाख्यत्यादित्युत्वमिति ।
लुनिरित्यादेः ल्वादिभ्यश्च पचो व: 'शुषः कः' 'प्रस्त्योऽन्यतरस्यामित्येतैः सूत्रै विहितेषु नत्व-वत्व-कत्व-मत्वेष ततः क्यचि 'अल्लोपे यलोपेच सिद्धिः ।।
ननु व्युत्पत्तिपक्षे तृन्नन्तत्वात्तृजन्तत्वाद्वा दीघे सिद्धे नत्रादिग्रहणं व्यर्थमित्यत आह-सूत्रे नप्त्रादिग्रहणं नियमार्थमिति । तथा चार्य नियमः, उणादिनिष्पन्नानां तृन्तृच्प्रत्ययान्तानां संज्ञाशब्दानां दीर्घश्चेन्नप्त्रादीनामेवेति, तेनाऽन्येषामुणादिनिष्पन्नानां संज्ञाशब्दानां पितृमातृप्रभृतीनां नेति, नेष्टादीनामप्युणादिनिष्पन्नत्वादिरूपहेतोः सत्त्वेन दीर्घसिद्धिः । अव्युत्पत्तिपक्षे तु नप्त्रादिग्रहणस्य विध्यर्थत्वमेव, अत्र पक्षे पितृ मातृप्रभृती. नामत्र सूत्रे पाठाऽभावादेव दीर्घशानिराशः । ननु उद्गातृशब्दस्यौणादिकतृप्रत्ययान्तत्वे. ऽपि नियमेन व्यावृत्या दीर्थो न स्यादित्याशय समाधत्ते-भाष्यप्रयोगादिति । उ. गातार इति समर्थसूत्रस्थभाष्यप्रयोगादित्यर्थः, एवञ्चोगातृशब्दस्योणादिषु निष्पत्तिरप्रा. माणिकेति भावः । केचित्तु उद्गातृशब्दस्यौणादिकत्वमङ्गीकृत्य भाष्यप्रयोगबलेनैव दीर्घमभिलष्यन्तीति तन्न, भाष्यकृताऽन्यप्रयोगस्योदाहरणत्वेन दानेऽप्यस्य भाष्यप्रयोगत्वाभावादिति दिक् ॥ ___ ननु क्रोष्टु आमिति स्थितौ नुट्-तृज्वदावयोः प्राप्तयोः 'विप्रतिषेधे परं कार्यमिति सूत्रवलेन तृजेव स्यात् । न च तृजपेक्षया नुटो नित्यत्वादेष एव स्यादिति वाच्यम् । कृते तृज्वगावे ( सन्निपात ) परिभाषया नुटोऽप्राप्त्या तस्य नित्यत्वाऽभावात् । एवञ्च परत्वात्पाक्षिकतृजापत्तिर्दुर्वा रैवेत्याशयेनाऽऽशङ्कते-परत्वात्तज्वद्भावे प्राप्त इति । समाधत्ते-(नुमचिरेति) नुम-चिर-तृज्वद्रावान्बाधित्वा पूर्वविप्रतिषेधेन नुडेव भवतीति त. दर्थः । नुटा नुमादिबाधस्य फलानि वारीणाम् , तिसृणाम् , क्रोष्ट्र नामित्यादौ नुम्रभावतृज्वदावाऽभावरूपाणि बोध्यानि । न च 'अचिर ऋतः' इत्यस्यापवादत्वेन बाध्यतामा. न्यचिन्ताऽश्रयणे स्वविषये प्राप्तस्य सर्वस्याऽपि बाधकत्वम् अत एव गुणदीर्घोत्वानामएबाद इति संगच्छते । एवञ्च विशेषाऽपदेशेन नुटोऽपि बाधादुत्सर्गाऽपवादयोरसमानबलवत्वेन विप्रतिषेधविचारोऽसंगत इति वाच्यम् । एतदंशे 'न तिसृ' इति ज्ञापकबलेन नुट न तु विप्रतिषेधेनेति तृवत्सूत्रे भाष्योक्तेः । एवन्तर्हि नुम् तृज्वदूभ्यामित्येव सुवचमिति भावः। ___ ननु दीर्घ ऋकारान्तदीर्घटकारान्तयोः प्रायः प्रयोगाऽभावादनुकरण शब्दं निरूपयतिकृ तृ इत्यनयोरनुकरणे विति । 'यत्तदेतेभ्यः परिमाणे इतिसूत्रे एतेभ्य इत्यत्र त्यदाद्यत्वकरणादनुकरणस्य प्रकृतिवत्त्वमित्येतत्सिदमाह-प्रकृतिवदनुकरणमिति । अनुकरणस्य शब्दमात्रोच्चारणे तात्पर्य्यविषयत्वादनुकार्यशब्दस्वरूपमावोवकत्वम् । प्रकृत्याऽनुकार्येण तुल्यं वर्तते इति तदर्थः । तत्रैवैकशेषाऽदर्शनात्क्षिय इत्यादौ धात्वनुकरणे
Aho ! Shrutgyanam