Book Title: Fakkika Ratna Manjusha
Author(s): Kanaklal Thakur
Publisher: Harikrishna Nibandh Bhawan Benaras

View full book text
Previous | Next

Page 175
________________ अपादानकारकप्रकरणम् । व्यापारोऽपायशब्दार्थः । तथा च, विभागजनकव्यापारे ध्रुवं स्थिरं उक्तव्यापाराऽनाश्रयमिति यावत । यत्तदुपादानसंज्ञकं भवतीति सूत्रार्थः । भाष्ये माथुराः पाटलिपुत्रकेभ्य आ - रा इत्यादौ बुद्धिपरिकल्पितमपादानमाश्रित्यैव पञ्चमी साधनेन बुद्धिपरिकल्पित सम्बधपूर्वको बुद्धिपरिकल्पितोऽपि विभागो गृह्यते न केवलो वास्तवसम्बन्धपूर्वको वास्तव ति बोध्यम् । तथा च प्रकृतधातूपात्तविभागजनकव्यापारानाश्रयत्वे सति प्रकृतधास्वर्थ विभागाश्रयत्वमपादानत्वमिति फलितम् । सूत्रे ध्रुवग्रहणाभावे पचत्यादियोगे कर्तृसंज्ञायाश्चारितार्थ्येन, अपायविषये यत्कारकं तदपादानमित्यर्थ सम्भवेनापादानसंज्ञायाः कर्तृ संज्ञापवादत्वेन कर्त्तुरपादानत्वाऽऽपत्तिरिति तद्व्यावृत्यर्थं ध्रुवग्रहणमित्यवसेयम् । उक्तञ्च हरिणा अपाये यदुदासीनं चलं वा यदि वाऽचलम् । ध्रुवमेव तदावेशात्तदपादानमुच्यते ॥ इति कैयटादयः २९ शेखरकृतस्तु — उक्तरीत्या ध्रुवपदस्य निश्चलार्थकत्वेन त्रस्तादश्वात्पतति ( १ )धावasarत्पततीत्यादौ त्रासधावनाऽऽश्रयत्वेनाऽनिश्चलत्वाद्ध्रुवत्वाऽभावेनाऽश्वस्याऽपादानत्वं न स्यादिति पूर्वपक्षं विधायात्राऽध्रौव्यमविवक्षितं यतः सतोऽप्यविवक्षा भवतीति समाहितम्भाष्ये । अत्र पतधात्वर्थव्यापाराऽऽश्रयत्वरूपत्वदुक्ताऽध्रुवत्वस्याऽसत्त्वेन सतोऽधौव्यस्याऽविवक्षेति भाष्योक्तिरसङ्गतिमापद्येत । सिद्धान्तेऽपि त्वदुक्तध्रुवपदार्थकथनस्यैवौचित्येन भाष्योक्तस्याऽसङ्गतिः । लोकसिद्ध निश्रलाऽतिरिक्तेऽर्थे ध्रुवपदस्य शक्तिकल्पने गौरवञ्च । नचान्यविधध्रुवत्वाऽभ्युपगमे अतदावेशादिति हरिकारिकाया असङ्गतिरिति वाच्यम् । तत्रातदावेशादित्यस्य तदावेशाऽविवक्षणादित्यर्थेन तत्सङ्गतेः । अतोऽपाये गतिविशेषे सति यत् ध्रुवमवधिभावोपगमाश्रयत्वे सति अवधिभावोपगमातिरिक्तस्याऽधत्वोपयोगि व्यापारस्याऽनाऽऽश्रयं तदपादानमिति सूत्रार्थः । त्रासादेरवधित्वोपयोगित्वाऽऽश्रयणादश्वस्याऽपादानत्वं न स्यादिति पूर्वपक्ष: । वृक्षात्पर्ण पततीत्यादौ श्रासादेरसत्त्वान्न तस्याऽवधित्वोपयोगित्वमिति समाधानम् । वृक्षस्य पर्ण पततीत्यादौ वृक्षस्य पर्णद्वारा पातजनकत्वेन प्राप्ताऽपादानत्वव्यावृत्त्यर्थं ध्रुवमपाये इति । सत्येवं अपायपदं कारके इत्यस्य क्रियाजनकत्वेन विवक्षित इत्यर्थे तात्पर्य ग्राहकं बोध्यम् । ननु मेषपदोपात्तयोरेव परस्परशब्दार्थत्वात्तयोरवधिभावोपगमातिरिक्तव्यापाराऽनाश्रयत्वाऽभावेन परस्परान्मेषा - वपसरत इत्यत्राऽपादानत्वाऽनुपपत्तिरिति चेन्न । वाचकशब्दरूपोपाधिगतभेदस्य वाच्यार्थे आरोपात्तयोरप्यर्थयोर्भेदेन तदुपपत्तेः । त्रासाऽश्रयाऽभिन्नाऽश्वाऽपादानिका देवदत्तकर्तृवृ त्तिपतनक्रियेति प्रथमवाक्याद्बोधः । धावनकर्त्रभिन्नाश्वापादानिका देवदत्तकर्तृवृत्तिः पतनक्रियेति बोधः । कुड्यापादानकपातकर्त्रभिन्नाऽश्वाऽपादानिका देवदत्तकर्तृवृत्तिपातक्रियेति तृतीयतो बोधः । अन्यतरमेषाऽपादानिकान्यतरमेषकर्तृकाऽपसरणक्रियेति चतुर्थतो बोधः । ननु विभागाश्रयस्याऽपादानत्वविधानाद्वयधधात्वर्थे विभागस्य प्रवेशात्तद्योगे धनुषा वि"ध्यतीत्यत्राऽपादानत्वं दुर्वारमिति चेन्न । व्यधधातोर्निःसरच्छरजन्यवेधार्थत्वेन तद्योगे - ( १ ) आदिपदेन कुड्यात्पततोऽश्वात्पततीत्यपि बोध्यम् । Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280