Book Title: Fakkika Ratna Manjusha
Author(s): Kanaklal Thakur
Publisher: Harikrishna Nibandh Bhawan Benaras

View full book text
Previous | Next

Page 188
________________ फक्किकारत्नमञ्जूषा । णलौकिकोपसर्जनत्ववत एव पूर्वनिपात इति कल्पनेन प्रकृते भवनक्रियाविशेषणत्वेन पूर्वशब्दस्यैवोपसर्जनसंज्ञया पूर्वप्रयोगप्राप्तौ निर्देशोऽपपत्त्या तदर्थम्मूलोक्तस्याऽऽवश्यकत्वेन तत्संगतेरित्याह-भूतपूर्वे चरडिति निर्देशाभूतशब्दस्यैव पूर्वनिपात इति ननु निपातेनाऽधिनाऽधिकरणरूपार्थस्योक्तत्वेन ( उक्तार्थानामप्रयोगः ) इति न्या. येन तदर्थकसप्तम्या अभावेन समासाऽभावादधिहरीति प्रयोगो न स्यादिति आह-निपातेनाऽभिहितेऽप्यधिकरणे वचनसामर्थ्यात्सप्तमीति । उक्तरीत्या सप्तम्या अभा. भेन समासाऽप्राप्त्या विभक्त्यर्थे समाससंज्ञाविघायकवचनस्यासंगतिरिति तदनुरोधादुक्ते. ऽप्यधिकरणरूपार्थे सप्तम्या समास इति भावः। न च तिकृत्तद्धितेतिपरिगणनादधिनोक्त. त्वेऽपि सप्तमीस्यादेव वचनसामर्थ्यात्सप्तम्याः कल्पनं न युक्तमिति वाच्यम् । तस्य भाष्ये प्रत्याख्यातत्वात् । नचाऽन्यसुबन्तेनाऽपि समासेऽधिहरीति प्रयोगसिद्धिस्स्यादेव वचनसामर्थ्यादिति प्रयासो न विशेषफलजनक इति वाच्यम् । प्रत्यासत्त्या यद्विभक्त्यर्थ. वाचकाऽव्ययेन सुबन्तस्य समासस्तद्विभक्तरार्थवाचकसुबन्तस्यैव ग्रहणेनाऽन्यभिक्त्यर्थवाचकसुबन्तेन समासस्याऽनिष्टत्वादिति दिक ॥ ननु समया ग्राममित्यादौ आराद्वनादित्यादौ च समासो दुर्वार इति पूर्वपक्षं समाधते-आराद्वनादित्यत्र तु नाऽव्यायीभाव इति । यद्युक्तस्थलेषु समासः स्यात्तदा (अभितः परितः) इति वात्तिकेन 'अन्यारादिति सूत्रेण च द्वितीयापञ्चम्योविधानस्य सर्वथा वैययं स्यादिति ताभ्यां तयोविधानसामयेन तदभावकल्पनमिति भावः । न च मध्यार्थकसमयाशब्दयोगे दूरार्थकाऽऽराच्छब्दयोगे च द्वितीयापञ्चम्योश्चारितायेंन सामर्थ्यासमासाऽभावकल्पनमयुक्तमिति वाच्यम् । 'दृरान्तिकाथरि त्यनेन षष्टीपञ्चम्योः प्राप्तौ षष्ठ्य - पवादतया पञ्चम्या विधानेनाऽन्तिकार्थकाऽऽराच्छब्दयोगे षष्ट्यपवादत्वेन पञ्चमी विधानस्य निरवकाशतया तत्सामर्थ्यादव्ययीभावाऽभावकल्पनस्य युक्तत्वात् । द्वितीयाविधानसामदिव्ययीभावाऽभावकल्पनं तु न युक्तमुक्तस्थले द्वितीयाविधानस्य चरितार्थत्वात् ॥ दुर्यवनमिति--ननु अर्थाऽभावाऽर्थकस्याऽपि दुरः सत्त्वादर्थाऽभावेन वात्र समाससिद्धौ व्यध्यर्थं समासविधानं विफलमिति चेन्न । येन समस्यते तदीयाऽर्थाभावे समासाऽभ्युपगमेन प्रकृते यवनऋद्धरेवाभावसत्त्वेन यवनानामभावाऽभावात् तत्र समासाऽसिद्धयर्थं व्यद्धयर्थं समासविधानस्य साफल्यात् ॥ निर्मक्षिकमिति--मक्षिकाणामभाव इति विग्रहः । संसर्गाऽभावेऽयं समासो नत्वन्योन्याभावेऽपि । नचाऽत्र किं विनिगमकमिति वाच्यम् । अर्थग्रहणसामर्थ्यात्समस्यमानपदजन्यप्रतीतिविशेषविरुद्धाऽभावस्यैव ग्रहणेनाऽन्योन्याभावस्य तु प्रतियोगिताऽवच्छेदकेनैव विरोधेन तस्य च प्रकारत्वेऽपि विशेष्यत्वाऽभावेनाऽस्यैव तत्र गमकत्वात् ॥ अतिहिममिति--हिमस्याऽत्यय इति विग्रहः । अत्ययाऽर्थेऽव्ययीभावः । परञ्चास्य सूत्रे ग्रहणं विफलमर्थाभावेनैव गतार्थत्वात् । अभावश्चात्र संसर्गाऽभाव एव, नत्वन्योऽन्याऽभावः । अन्यथा घटः पटोनेत्यत्राऽतिप्रसङ्ग स्यात् ॥ शब्दप्रादुर्भाव-इत्यस्य शब्दविषयप्रकाशार्थेनाऽव्ययेन समास इत्यर्थः । अस्योदाहरणम्, इतिहरीति । अत्र हरिशब्दस्य स्वस्वरूपपरत्वं, तादृशषष्ठ्यन्तहरिशब्देन शब्दप्रकशार्थकस्येतिशब्दस्य समासः ।। Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280