Book Title: Fakkika Ratna Manjusha
Author(s): Kanaklal Thakur
Publisher: Harikrishna Nibandh Bhawan Benaras

View full book text
Previous | Next

Page 192
________________ फक्किकारत्नमञ्जूषा | शब्दस्य स्वप्रकृतिके लक्षणा, तथा च खट्वाप्रकृतिकं द्वितीयान्तं क्तान्नप्रकृतिकसमर्थ सुबन्तेन सह समस्यते सति निन्दाया गम्यमानत्वे इति सूत्रार्थः । खट्वारूढ इत्युद्दाहरणम् । खट्वामारूढ इति विग्रहः । स जाल्म इत्युच्यते । असमीक्ष्यकारीति तदर्थः । " जाल्मोsसमीक्ष्यकारी स्याकुण्ठो मन्दः क्रियासु यः । ४६ इत्यमरोक्तेः– समाप्तवेदव्रतेन पुरुषेण खलु खट्वाऽऽरोढव्या ब्रह्मचारिणैव भूमौ शयितव्यम् । अनेनैव खट्वाऽऽरूह्यते चेदयमेव जाल्म इत्युच्यते । अस्य शब्दस्य रूढत्वा-दकृतेऽपि खट्वाऽऽरोहणे निन्दितानुष्ठानपरस्य सर्वस्याऽपि खट्वारूढत्वं बोध्यम् । अत एवाह - नित्यसमासोऽयमिति - वाक्येन निन्दाऽप्रतीतेरिति भावः ॥ तृतीया तत्कृतार्थेन गुणवचनेन - सौत्रत्वात्तत्कृतेति लुप्ततृतीयान्तम् । तृतीयान्तपरामर्शितच्छब्देन तृतीयान्तार्थो लक्ष्यते । गुणवचनस्य शब्दत्वात् तृतीयान्ताऽर्थकृतेत्यस्याऽर्थद्वारा गुणवचनविशेषणत्वं तृतीयान्तार्थकृतो यो गुणस्तद्वचनेनेति, एतत्फ लि तार्थमाह - तृतीयान्तं तृतीयान्तार्थकृतगुणवचनेनेत्यादि - ननु गुणवचनेनेत्यत्र वचनग्रहणं व्यथं गुणशब्दस्य धर्ममात्रपरत्वेन तेन समासाऽसम्भवेन तद्वाचिन एव ग्रहणादिति चेन्न । गुणमुक्तवानिति व्युत्पत्या गुणवाचित्वविशिष्टद्रव्यवाचिन एव ग्रहणार्थं व चनग्रहणस्य सार्थक्यात् । तेन घृतेन पाटवमित्यादौ न समासः । तत्र गुणशब्दस्य धर्ममात्रपरत्वादेव खण्डशब्दस्य क्रियावचनत्वेऽपि न कोऽपि दोषः । अस्य सूत्रस्य कृतश - ब्दार्थद्वारकसामर्थ्यं एव प्रवृत्तिर्न तु साक्षात्परम्पराऽन्वये । अन्यथोत्तरसूत्रेण निपुणलक्षणशब्दाभ्यां समासविधानं व्यथं स्यात् । न च सदृशशब्दस्याप्युक्तार्थे ज्ञापकत्वसम्भवान्कथमुभयोरेवोपादानमिति वाच्यम् । सदृशशब्दस्यानावश्यकत्वस्य प्रदिपादयिष्यमा - णत्वात् । गुणवचनेनेत्यत्र गुणशब्दस्य तत्कृतेत्येतत्सापेक्षत्वेऽपि सौत्रत्वात्समासो बोध्यः । सूत्रे तत्कृतेत्यस्यानुपादानेऽक्ष्णा काण इत्यत्राऽपि समासापत्तिः, तदुपादाने तु अक्ष्णा काणत्वस्याकरणात्किन्तु कर्मादिनैव तत्करणात्काणशब्दस्य तृतीयान्तार्थ कृतगुणवचनत्वाऽभावाऽन्नोक्ताऽऽपत्तिः । गुणवचनेनेत्यख्याऽभावे गोसम्बन्धिदध्यादिभोजने देवदत्तादेवपावृत्वात्तृतीयान्तार्थकृतत्वेन गोभिर्वपावानित्यादौ समासाऽऽपत्तिः । तत्सत्ये तु देवदत्ता - गुणवचनत्वाऽभावान्नोक्त्तापत्तिरिति दिक् ॥ पूर्वसद्गशसमोनार्थकलह - ननु ( तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्यामि)त्यनेन सदृशशब्दयोगे षष्ट्या अपि विधानात्सदृशशब्देन षष्ठीसमाससिद्धावत्र सूत्रे सहग्रहणं व्यर्थम् । नचोक्तसूत्रविहितषष्ठ्याः प्रदिपदविधानपष्ठीत्वात् ( प्रतिपदविधाना षष्ठी न समस्यते) इति निषेधवचनस्य जागरूकत्वादुक्तसमासाऽप्राप्त्या समासार्थन्तत्र सदृशग्र - हणमावश्यकमिति वाच्यम् । उक्तसूत्रषष्ट्या न प्रतिपदविधानत्वमित्यस्य प्रतिपादयिष्यमाणत्वात् । न च (तत्पुरुषे तुल्यार्थ तृतीया) इत्यनेन पूर्वपदप्रकृतिस्वरसिद्ध्यर्थं सदृशग्रहणमस्त्विति वाच्यम् । ( सदृशप्रतिरूपयोः सादृश्ये) इत्यनेनैवोक्तस्वरसिद्धेः । तत्र हि सदृश इत्यादौ पष्ट्या अलुकि पूर्वपदप्रकृतिस्वरार्थं सदृशग्रहणमावश्यकम् । न च मनसा सदृश इत्यत्र समासार्थमस्तु सदृशग्रहणमिति वाच्यम् । तस्य संज्ञात्वाभावेन तदर्थमपि तस्याऽनावश्यकत्वात् । एवञ्च प्रयोजनाभावाद्वयर्थमेव सदृशग्रहणमिति चेन्न । भोजनेन सादृश्यवानित्यर्थे भोजनसदृश इत्यत्र समसार्थन्तस्याऽऽवश्यकत्वात् । नचा Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280