________________
फक्किकारत्नमञ्जूषा |
शब्दस्य स्वप्रकृतिके लक्षणा, तथा च खट्वाप्रकृतिकं द्वितीयान्तं क्तान्नप्रकृतिकसमर्थ सुबन्तेन सह समस्यते सति निन्दाया गम्यमानत्वे इति सूत्रार्थः । खट्वारूढ इत्युद्दाहरणम् । खट्वामारूढ इति विग्रहः । स जाल्म इत्युच्यते । असमीक्ष्यकारीति तदर्थः । " जाल्मोsसमीक्ष्यकारी स्याकुण्ठो मन्दः क्रियासु यः ।
४६
इत्यमरोक्तेः– समाप्तवेदव्रतेन पुरुषेण खलु खट्वाऽऽरोढव्या ब्रह्मचारिणैव भूमौ शयितव्यम् । अनेनैव खट्वाऽऽरूह्यते चेदयमेव जाल्म इत्युच्यते । अस्य शब्दस्य रूढत्वा-दकृतेऽपि खट्वाऽऽरोहणे निन्दितानुष्ठानपरस्य सर्वस्याऽपि खट्वारूढत्वं बोध्यम् । अत एवाह - नित्यसमासोऽयमिति - वाक्येन निन्दाऽप्रतीतेरिति भावः ॥
तृतीया तत्कृतार्थेन गुणवचनेन - सौत्रत्वात्तत्कृतेति लुप्ततृतीयान्तम् । तृतीयान्तपरामर्शितच्छब्देन तृतीयान्तार्थो लक्ष्यते । गुणवचनस्य शब्दत्वात् तृतीयान्ताऽर्थकृतेत्यस्याऽर्थद्वारा गुणवचनविशेषणत्वं तृतीयान्तार्थकृतो यो गुणस्तद्वचनेनेति, एतत्फ लि तार्थमाह - तृतीयान्तं तृतीयान्तार्थकृतगुणवचनेनेत्यादि - ननु गुणवचनेनेत्यत्र वचनग्रहणं व्यथं गुणशब्दस्य धर्ममात्रपरत्वेन तेन समासाऽसम्भवेन तद्वाचिन एव ग्रहणादिति चेन्न । गुणमुक्तवानिति व्युत्पत्या गुणवाचित्वविशिष्टद्रव्यवाचिन एव ग्रहणार्थं व चनग्रहणस्य सार्थक्यात् । तेन घृतेन पाटवमित्यादौ न समासः । तत्र गुणशब्दस्य धर्ममात्रपरत्वादेव खण्डशब्दस्य क्रियावचनत्वेऽपि न कोऽपि दोषः । अस्य सूत्रस्य कृतश - ब्दार्थद्वारकसामर्थ्यं एव प्रवृत्तिर्न तु साक्षात्परम्पराऽन्वये । अन्यथोत्तरसूत्रेण निपुणलक्षणशब्दाभ्यां समासविधानं व्यथं स्यात् । न च सदृशशब्दस्याप्युक्तार्थे ज्ञापकत्वसम्भवान्कथमुभयोरेवोपादानमिति वाच्यम् । सदृशशब्दस्यानावश्यकत्वस्य प्रदिपादयिष्यमा - णत्वात् । गुणवचनेनेत्यत्र गुणशब्दस्य तत्कृतेत्येतत्सापेक्षत्वेऽपि सौत्रत्वात्समासो बोध्यः । सूत्रे तत्कृतेत्यस्यानुपादानेऽक्ष्णा काण इत्यत्राऽपि समासापत्तिः, तदुपादाने तु अक्ष्णा काणत्वस्याकरणात्किन्तु कर्मादिनैव तत्करणात्काणशब्दस्य तृतीयान्तार्थ कृतगुणवचनत्वाऽभावाऽन्नोक्ताऽऽपत्तिः । गुणवचनेनेत्यख्याऽभावे गोसम्बन्धिदध्यादिभोजने देवदत्तादेवपावृत्वात्तृतीयान्तार्थकृतत्वेन गोभिर्वपावानित्यादौ समासाऽऽपत्तिः । तत्सत्ये तु देवदत्ता - गुणवचनत्वाऽभावान्नोक्त्तापत्तिरिति दिक् ॥
पूर्वसद्गशसमोनार्थकलह - ननु ( तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्यामि)त्यनेन सदृशशब्दयोगे षष्ट्या अपि विधानात्सदृशशब्देन षष्ठीसमाससिद्धावत्र सूत्रे सहग्रहणं व्यर्थम् । नचोक्तसूत्रविहितषष्ठ्याः प्रदिपदविधानपष्ठीत्वात् ( प्रतिपदविधाना षष्ठी न समस्यते) इति निषेधवचनस्य जागरूकत्वादुक्तसमासाऽप्राप्त्या समासार्थन्तत्र सदृशग्र - हणमावश्यकमिति वाच्यम् । उक्तसूत्रषष्ट्या न प्रतिपदविधानत्वमित्यस्य प्रतिपादयिष्यमाणत्वात् । न च (तत्पुरुषे तुल्यार्थ तृतीया) इत्यनेन पूर्वपदप्रकृतिस्वरसिद्ध्यर्थं सदृशग्रहणमस्त्विति वाच्यम् । ( सदृशप्रतिरूपयोः सादृश्ये) इत्यनेनैवोक्तस्वरसिद्धेः । तत्र हि सदृश इत्यादौ पष्ट्या अलुकि पूर्वपदप्रकृतिस्वरार्थं सदृशग्रहणमावश्यकम् । न च मनसा सदृश इत्यत्र समासार्थमस्तु सदृशग्रहणमिति वाच्यम् । तस्य संज्ञात्वाभावेन तदर्थमपि तस्याऽनावश्यकत्वात् । एवञ्च प्रयोजनाभावाद्वयर्थमेव सदृशग्रहणमिति चेन्न । भोजनेन सादृश्यवानित्यर्थे भोजनसदृश इत्यत्र समसार्थन्तस्याऽऽवश्यकत्वात् । नचा
Aho! Shrutgyanam