________________
तत्पुरुषसमासप्रकरणम् ।
अथ तत्पुरुषसमासप्रकरणम् । ननु (तत्पुरुष) इत्यधिकारसूत्राऽनन्तरं (संख्यापूर्वो द्विगुश्चे)तिसूत्रकरणाच्चकारबलेन द्विगुतत्पुरुषयोःसमावेशः स्यात् । न च चकारस्योक्तसंज्ञाद्वयपर्यायार्थत्वेन समुच्चया. र्थत्वाऽभावात् कथमुभयोः समावेशः स्यादिति वाच्यम् । (संख्यापूर्वो द्विगुरि)ति योगं विभज्य पूर्वेण (तद्धितार्थोत्तरपदसमाहारे चे)त्यत्रोक्तस्य संख्यापूर्वस्य तत्पुरुषसंज्ञाविधानसामार्थ्यादेव पर्यायत्वसिद्धौ चकारस्य संज्ञाद्वयसमावेशार्थत्वाक्षतेः । एवञ्च द्विगुश्चेति सूत्रमनावश्यकमेवेत्याह-इदं सूत्रं त्यक्तुं शक्यमिति । द्विगुश्चेति सूत्रमित्यर्थः ।
ननु द्विगोस्तत्पुरुषत्वे किम्फलमित्यत आह-समासान्तः प्रयोजनं पञ्चराजमिति । पञ्चानां राज्ञां समाहार इति विग्रह (राजाहः सखिभ्यष्टच) इति टच् । न च (अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः) इत्यनेन टजन्तोत्तरपदस्य द्विगोः पञ्चराजस्य स्त्री. त्वबोधनेन टित्वान्डीप दुर्वार इति वाच्यम् । टचः समासस्यैवाऽन्ताऽवयवत्वं न तूत्तरपदस्येति उत्तरपदस्याऽकारान्तत्वाऽभावादुक्तवात्तिकेन स्त्रीत्वाऽबोधनेन ङीपोप्राप्तेः । न च समासाथै यदुत्तरपदं तदन्तस्यैव समासान्तत्वमित्यर्थके समासार्थोत्तरपदान्ताः समासान्ता इति पक्षे द्विगोरकारान्तोत्तरपदत्वेन स्त्रीत्वादुक्तदोषस्तदवस्थ एवेति वाच्यम् । अत्र पक्षे पात्रादित्वान्नेत्यनेनैव दोषोद्धारादित्यलम् । पञ्चराजीति काशिकायामुदाहृतं न युक्तमिति हरदत्तः । केचित्त पात्रादित्वान्डीबभावकल्पने विनिगमकाऽभावात्काशिकोकोदाहणं युक्तमेवेत्याहुरिति दिक् ॥
द्वितीया श्रितातीतपतितेति-द्वितीयाया प्रत्ययत्वेन प्रत्ययग्रहणपरिभाषया तदन्तविधिः । श्रितादीनां सुबन्तत्वाऽसम्भवेन स्वप्रकृतिके लक्षणा । तथा च द्वितीयान्तं श्रितादिप्रकृतिकैरित्यर्थः सम्पन्नः । न च सम्बोधने श्रितादीनां सुबन्तत्वासम्भवेन तेषां स्वप्रकृतिके लक्षणा नाऽऽवश्यिकेति वाच्यम् । (येन विधिरि)ति सूत्रस्थभाष्यप्रामाण्येन सम्बुद्धिस्त्रीलिङ्गप्रथमान्तभिन्नेऽपि समासस्येष्टत्वेन श्रितादीनां लक्षणाया आवश्यकत्वात् । श्रितादीनां समर्थविशेषणत्वात्प्राप्तस्य तदन्तविधेः (समासप्रत्ययविधौ प्रतिषेधः) इत्य. नेन निषेधात्कष्टं परमश्रित इत्यादौ न समासापत्तिः । तदन्तविधौ तु श्रिताद्यन्तसमर्थप्रकृतिकरित्यर्थे तत्रोक्तापत्तिर्दुरैवेति दिक् ॥
स्वयं तेन-ननु अत्र सूत्रे आत्मनेत्यर्थकस्य स्वयमित्यव्यस्य कर्तृत्वनिष्ठविशेष्यतानिरूपितबोधजनकत्वेन कर्मत्वविशेष्यकबोधजनकत्वाऽभावान्न द्वितीयायाः सम्बन्धः किन्तु तृतीयाया एवेत्याह-द्वितीया तु नेह सम्बध्यते अयोग्यत्वादिति-असम्भवादिति तदर्थः । तस्य प्रत्ययत्वात्प्रत्ययग्रहणपरिभाषया तदन्तविधौ स्वयमित्यव्ययं कान्तप्रकृतिकसमर्थसुबन्तेन सह समस्यते इति सूत्रस्यार्थः । स्वायंकृतिरित्युदाहरणम् । समासे स्वयंकृतशब्दादिजि आयचो वृद्धौ रूपं सिद्धयतीति समासस्योक्तप्रयोगोपपत्तिरैकेश्वर्यमपि फलम्बोध्यम् । तदभावे तु कृत इत्यस्यैव षष्टयन्तत्वेन तत एवोक्तप्रत्यये ऋकारस्य वृद्धौ रपरत्वे स्वयंकार्तिरित्यापत्तिरिति दिक् ॥
खट्वा क्षेपे-द्वितीया श्रितेत्यतो द्वितीयायाः स्वयं क्तेनेत्यतः क्तेनेत्यस्य चानुवृत्तिः, तयोश्च प्रत्ययत्वात्प्रत्ययग्रह परिभाषया तदन्तविधिः । क्षेपो निन्दा । खट्वा
Aho! Shrutgyanam