________________
४४
फक्किकारलमञ्जूषा ।
(१) साधयन्ती सखि सुभगं क्षणे क्षणे दूनासि मम कृते । सद्भाव स्नेहकरणीयसदृशं तावद्विरचितन्त्वया ॥
इति लक्षणामूलव्यञ्जनास्थल इव लक्ष्यार्थव्यङ्ग्यार्थयोरुभयोः शब्दजन्यबोधविषयत्वं सुवचम् । उपमानोपमेययोरभेदान्वयस्य सत्त्वादेव तयोः समानविभक्तिकत्वम् । एवञ्च पूर्वपदार्थत्वेनाप्रसक्त्या सूत्रेऽसादृश्य इति व्यर्थमिति वाच्यम् । सूत्रे प्रकारार्थकस्यैव यथाशब्दस्य ग्रहणेन तत्सामर्थ्याद्विमुनि व्याकरणमित्यादौ पूर्वपदार्थाऽप्राधान्येऽपि मासवत्तत्रापि समासस्य निर्बाधेनाऽसादृश्ये इत्यस्याऽऽवश्यकत्वात् । कृतेऽसादृश्यग्रहणे टु प्रकारवचनभिन्नस्याऽव्युत्पन्नस्यैव यथाशब्दस्याऽत्र सूत्रे ग्रहणेनोदाहरणसिद्धौ न कोऽपि बाधक इति । नचोदाहरणभूतयथाशक्ति यथाबलमित्यादौ प्रकारार्थकथालन्तस्यैव यथाशब्दस्य ग्रहणमस्तु, तोदृशस्य यथाशब्दस्य सादृश्येऽपि वृत्तेदर्शनात्सादृश्य सम्पत्तीत्यनेनैव समासः स्यात् पूर्वसूत्रे (अव्ययं विभक्ती) त्यादौ यथाग्रहणमस्तु सूत्रमिदञ्च मास्त्यिति वाच्यम् । 'यथाऽसादृश्ये' इत्येतत्सूत्रारम्भसामर्थ्यात्सादृश्ये पदार्थानतिवृत्तिबोधकस्य यथाशब्दस्याप्रयोगेण सादृश्यसम्पत्तीत्यनेन समासाऽप्राप्त्या तदर्थमस्य सूत्रस्याssवश्यकत्वात् । अव्युत्पन्नप्रकारार्थकयथाशब्दसत्वे इदमेव सूत्रं मानं बोध्यमित्यलम् ॥
विभाषा - अधिकारसूत्रमिदम् । ननु एकार्थीभावे समासस्य व्यपेक्षायां वाक्यस्य च सिद्धौ सूत्रमिदं व्यर्थम् । नचैकार्थीभाव एव समासविकल्पार्थमिदमावश्यकमिति वाच्यम् । नह्येकार्थीभावे संज्ञाया अभाव इत्यर्थकस्य ( न च संज्ञाया भावाऽभावाविष्येते) इति भाष्यस्य विरोधदुर्वास्तया एकार्थीभाव एव वैकल्पिकसमासस्याऽनिष्टत्वात् । एवं एकार्थीभावाभावेन समासाऽप्राप्त्या समासनिषेधसुत्राणि ( नित्यं क्रीडाजी विकयोरि) त्यत्र नित्यग्रहणञ्च नावश्यकानीति चेन्न । लक्षणैकचक्षुष्कान् प्रति क्वैकार्थीभावो नित्यः क पाक्षिकः क्व नाऽस्तीत्यर्थबोधनाथं विभाषेति सूत्रस्याऽऽवश्यकत्वात् ॥
एतत्सामर्थ्यात्प्राचीनानां । नित्यसमासत्वमिति -अयम्भावः, प्रागेव विभापाधिकारस्य कर्त्तुमुचितत्वादत्रैतत्करणसामर्थ्यादितः पूर्वेषां नित्यत्वमेवेत्यवगम्यते । नचैवं (सुप्पे ) त्यस्यापीतः पूर्वत्वान्नित्यत्वाऽपत्तिरिति वाच्यम् । तथा सत्यनेनैव सिद्धेsव्ययं विभक्तीत्यादिना समासविधानस्य वैयर्थ्यापत्तेः । नचाऽव्ययमित्यादिना समासा - विधानेऽव्ययस्य समासशास्त्रप्रथमानिर्दिष्टस्योपसर्जनसंज्ञा विधायकेन (प्रथमानिद्दिष्टमिति शास्त्रेणाऽव्ययस्य नियमेनोपसर्जनसंज्ञा विधानाऽनुपपच्याऽधिहरीत्यादावध्यादेरपि परप्रयोगाssपत्तिरिति वाच्यम् । समासव्याण्यसंज्ञाविधायके प्रथमानिर्दिष्टमुपसर्जनमिति प्रथमानिर्दिष्टमित्यस्यार्थ करणेनाऽध्यादेः परप्रयोगाऽऽपत्त्यभावादव्ययमित्यस्य वैयथ्येन तत्सामर्थ्यात् सुपेत्यस्य न नित्यत्वमिति दिक् ॥
इत्यव्ययीभावसमासप्रकरणम् ।
(१) अत्र नायकसमीपे प्रेषिता या दूती सा तन्नायकोपभोगेन निवृत्तेच्छा भूत्वा पुनर्नाविकासमीपे आगत्य स नाऽऽयातीत्युक्त्वा विरता तत उपभोगचिन्हेन तं वृत्तान्तं ज्ञात्वा तां दूती. प्रति नायिकाया उक्तिरियम् । मम प्राणप्रियं रमयन्त्या त्वया शत्रुत्वमाचरितमिति लक्ष्यते ।
Aho! Shrutgyanam