________________
समासप्रकरणम् ।
अनुविष्णु-विष्णोः पश्चादिति विग्रहः । अन अचः परस्मिन्निति सूत्रस्थात् (ततः पश्चात्स्नंस्यते ध्वंस्यते चे)ति भाष्यप्रयोगात् । अनेकमन्यपदाथें इति सूत्रस्य ( सर्वपश्वादि ) ति भाष्यप्रयोगाच्च न पश्चाच्छब्दस्य समासः किन्तु तदर्थकाऽनुशब्द स्यैव एतद्भाष्यप्रयोगादेतत्सूत्रे तत्तदर्थबोधकपदघटकतया गृहीताऽव्ययेन तत्तदर्थेन नायं समासः। अत एव 'यथा सादृश्ये' इतिसूत्रस्थभाष्ये सादृश्यसम्पत्तीति प्राप्नोतीत्युक्तम् । यथाशब्देन तूत्तरसूत्रारम्भसामर्थ्यात्समासो भवत्येवेत्यलम् । नचास्य समासे का क्षति. रिति वाच्यम् । तथासति तस्य पूर्वनिपातापत्तेः ।
ननु अविग्रहो नित्यसमासोऽस्वपदविग्रहो वेति नित्यसमासलक्षणसत्त्वे वाक्थं दुर्लभमित्यत आह-प्रतिशब्दस्य वीप्सायामित्यादि । इति प्राञ्चः । वस्तुतस्तु, प्रतिस्थानमित्यादौ पत्वाऽभावसम्पादनेन चरितार्थत्वात्सामर्थ्यविरहेण तत्सामर्थ्याद्वाक्यस्याऽसाधुत्वमिति, (अर्थमर्थम्प्रतिप्रत्यर्थमिति सरूपसूत्रस्थभाष्यप्रयोगाद्यदा द्विर्वचनं तदा प्रतिशब्दस्य वृत्तित्वाऽभावेन समासेन वीप्साया उक्तत्वान्न द्विर्वचनमित्यलम् ॥
___ ननु समृद्धिसम्पत्त्योः पर्यायत्वादन्यतरग्रहणं न कार्यमित्याशक्य समाधत्तेऋद्धराधिक्यं समृद्धिरिति ।
यथाऽसादृश्य-असादृश्य इतिछेदः, असादृश्येऽर्थे विद्यमानो यथाशब्दः समथेन मुबन्तेन सह समस्यते इति तदर्थः । यथा हरिस्तथा हर इत्यत्र न समासः, यथाशब्दस्य सादृश्यार्थकत्वेनासादृश्येऽविद्यमानत्वात् । तत्र हरेरुपमानत्वस्य यथाशब्दो द्योतकः । ननु यथाहरिरित्यत्र यथाशब्दस्याऽसादृश्याऽर्थकत्वाऽभावेन समासाऽभावः समुचित एव, तथा. हरिरित्यत्र तथाशब्दस्य सादृश्यार्थकत्वात्पूर्वसूत्रेण समासो दुर्वार इति चेन्न । सदृश इत्युक्त्या नियमतः प्रतियोग्याकांक्षादर्शनात्सादृश्यप्रतियोगिवाचकसमर्थसुबन्तेनैव तद्वोधकाऽव्ययस्य समास इति कल्पनेनोक्तापत्तेस्तत्राऽयोगात् । यथाशब्दः समर्थसुबन्तेन सह समस्यते सादृश्ये द्योत्ये नेति, 'यथासादृश्ये' इत्यस्याऽर्थः । यथाशक्ति, यथाबलमित्याद्यस्योदाहरणम् । अत एव, असादृश्ये इतिकिमर्थ यथा देवदत्तस्तथा यज्ञदत्त इत्युक्तं न तु सूत्रमेव किमर्थमित्युक्तम् । ननु यथार्थत्वेनैव सिद्धौ सूत्रमिदम्व्यर्थमिति चेन्न । सूत्रगृद्वीताऽव्ययेन तेनाऽसमासेन सूत्रस्याऽऽवश्यकत्वात् । सूत्रगृहीताऽव्ययेन तेनाऽसमासेन सूत्रस्याऽपि ज्ञापकत्वात् । न च प्रकारवचने विहितेन थाल्प्रत्ययेन निष्पन्नस्य यथा शब्दस्य सर्वथा सादृश्यद्योतकत्वात्सूत्रोदाहरणाऽसम्भवेन सूत्रं व्यर्थमिति वाच्यम् । अव्युत्पन्नस्य वीप्सायोग्यतापदार्थानतिवृत्तिबोधकस्यैव यथाशब्दस्याऽत्र सूत्रे ग्रहणेनोक्त. युक्त्योपपन्नस्य तस्याऽग्रहणादुदाहरणसम्भवेन सूत्रस्याऽऽवश्यकत्वात् । उदाहरणे यथा. शक्ति, यथाबलमित्यादावुक्तार्थक एव यथा शब्द इति तत्र समासाथ सूत्रमावश्यकमेवेति बोध्यम् । न च यथाशब्दस्य व्यञ्जनयोपमानत्वप्रतिपादकत्वमिति निखिलाऽभियुक्तोक्त्या यद्विशेषवान् हरिस्तद्विशेषवान् हर इत्युक्तबोधाऽनन्तरं व्यञ्जनयोपस्थापितार्थस्य शाब्दबोधविषयत्वं भवत्येवेति, उपमानदेवदत्ताऽभिन्न उपमेयो यज्ञदत्त इति बोधः साधा. रणधर्मस्तु गृहीतविशेषधर्म एव ।
Aho! Shrutgyanam