________________
फक्किकारत्नमञ्जूषा । णलौकिकोपसर्जनत्ववत एव पूर्वनिपात इति कल्पनेन प्रकृते भवनक्रियाविशेषणत्वेन पूर्वशब्दस्यैवोपसर्जनसंज्ञया पूर्वप्रयोगप्राप्तौ निर्देशोऽपपत्त्या तदर्थम्मूलोक्तस्याऽऽवश्यकत्वेन तत्संगतेरित्याह-भूतपूर्वे चरडिति निर्देशाभूतशब्दस्यैव पूर्वनिपात इति
ननु निपातेनाऽधिनाऽधिकरणरूपार्थस्योक्तत्वेन ( उक्तार्थानामप्रयोगः ) इति न्या. येन तदर्थकसप्तम्या अभावेन समासाऽभावादधिहरीति प्रयोगो न स्यादिति आह-निपातेनाऽभिहितेऽप्यधिकरणे वचनसामर्थ्यात्सप्तमीति । उक्तरीत्या सप्तम्या अभा. भेन समासाऽप्राप्त्या विभक्त्यर्थे समाससंज्ञाविघायकवचनस्यासंगतिरिति तदनुरोधादुक्ते. ऽप्यधिकरणरूपार्थे सप्तम्या समास इति भावः। न च तिकृत्तद्धितेतिपरिगणनादधिनोक्त. त्वेऽपि सप्तमीस्यादेव वचनसामर्थ्यात्सप्तम्याः कल्पनं न युक्तमिति वाच्यम् । तस्य भाष्ये प्रत्याख्यातत्वात् । नचाऽन्यसुबन्तेनाऽपि समासेऽधिहरीति प्रयोगसिद्धिस्स्यादेव वचनसामर्थ्यादिति प्रयासो न विशेषफलजनक इति वाच्यम् । प्रत्यासत्त्या यद्विभक्त्यर्थ. वाचकाऽव्ययेन सुबन्तस्य समासस्तद्विभक्तरार्थवाचकसुबन्तस्यैव ग्रहणेनाऽन्यभिक्त्यर्थवाचकसुबन्तेन समासस्याऽनिष्टत्वादिति दिक ॥
ननु समया ग्राममित्यादौ आराद्वनादित्यादौ च समासो दुर्वार इति पूर्वपक्षं समाधते-आराद्वनादित्यत्र तु नाऽव्यायीभाव इति । यद्युक्तस्थलेषु समासः स्यात्तदा (अभितः परितः) इति वात्तिकेन 'अन्यारादिति सूत्रेण च द्वितीयापञ्चम्योविधानस्य सर्वथा वैययं स्यादिति ताभ्यां तयोविधानसामयेन तदभावकल्पनमिति भावः । न च मध्यार्थकसमयाशब्दयोगे दूरार्थकाऽऽराच्छब्दयोगे च द्वितीयापञ्चम्योश्चारितायेंन सामर्थ्यासमासाऽभावकल्पनमयुक्तमिति वाच्यम् । 'दृरान्तिकाथरि त्यनेन षष्टीपञ्चम्योः प्राप्तौ षष्ठ्य - पवादतया पञ्चम्या विधानेनाऽन्तिकार्थकाऽऽराच्छब्दयोगे षष्ट्यपवादत्वेन पञ्चमी विधानस्य निरवकाशतया तत्सामर्थ्यादव्ययीभावाऽभावकल्पनस्य युक्तत्वात् । द्वितीयाविधानसामदिव्ययीभावाऽभावकल्पनं तु न युक्तमुक्तस्थले द्वितीयाविधानस्य चरितार्थत्वात् ॥
दुर्यवनमिति--ननु अर्थाऽभावाऽर्थकस्याऽपि दुरः सत्त्वादर्थाऽभावेन वात्र समाससिद्धौ व्यध्यर्थं समासविधानं विफलमिति चेन्न । येन समस्यते तदीयाऽर्थाभावे समासाऽभ्युपगमेन प्रकृते यवनऋद्धरेवाभावसत्त्वेन यवनानामभावाऽभावात् तत्र समासाऽसिद्धयर्थं व्यद्धयर्थं समासविधानस्य साफल्यात् ॥
निर्मक्षिकमिति--मक्षिकाणामभाव इति विग्रहः । संसर्गाऽभावेऽयं समासो नत्वन्योन्याभावेऽपि । नचाऽत्र किं विनिगमकमिति वाच्यम् । अर्थग्रहणसामर्थ्यात्समस्यमानपदजन्यप्रतीतिविशेषविरुद्धाऽभावस्यैव ग्रहणेनाऽन्योन्याभावस्य तु प्रतियोगिताऽवच्छेदकेनैव विरोधेन तस्य च प्रकारत्वेऽपि विशेष्यत्वाऽभावेनाऽस्यैव तत्र गमकत्वात् ॥
अतिहिममिति--हिमस्याऽत्यय इति विग्रहः । अत्ययाऽर्थेऽव्ययीभावः । परञ्चास्य सूत्रे ग्रहणं विफलमर्थाभावेनैव गतार्थत्वात् । अभावश्चात्र संसर्गाऽभाव एव, नत्वन्योऽन्याऽभावः । अन्यथा घटः पटोनेत्यत्राऽतिप्रसङ्ग स्यात् ॥
शब्दप्रादुर्भाव-इत्यस्य शब्दविषयप्रकाशार्थेनाऽव्ययेन समास इत्यर्थः । अस्योदाहरणम्, इतिहरीति । अत्र हरिशब्दस्य स्वस्वरूपपरत्वं, तादृशषष्ठ्यन्तहरिशब्देन शब्दप्रकशार्थकस्येतिशब्दस्य समासः ।।
Aho ! Shrutgyanam