________________
समासप्रकरणम् ।
४१
स्य राजमातङ्गा इत्यादेः प्रयोगस्याऽप्रामाण्यापत्तिरिति वाच्यम् । गमकत्वात्तत्र विशेपणाsन्वयस्य युक्ततया तस्य प्रामाण्योपपत्तेः । न च महादेव इत्यत्राssत्वं न स्यात्समासे समुदाये शक्त्या तस्यैवाऽर्थवत्वेन तदेकदेशस्याऽनर्थकत्वेन सूत्राप्राप्तेरिति वाच्यम् । सूत्रा ऽऽरम्भसामर्थ्याद्भूत पूर्वगतेराश्रयणाच्च सूत्रप्रवृत्तेरित्यलम् ॥
वैयाकरणैः - समासे समुदाये एव शक्तिः स्वीक्रियते नत्ववयवे तथाहि, रथन्तरं, सप्तपर्णः, शुश्रूषेत्यादाववयवार्थ प्रतीत्यभावात्समासादिपञ्चस विशिष्ट एव शक्तिः । अत एव व्यपेक्षापक्षस्योद्भावनं कृत्वा [ अथाऽस्मिन् व्यपेक्षारूपसामध्यें योऽसावेकार्थीभावकृतो विशेषः स वक्तव्य ] इत्युक्तम्भाष्ये । अत एव च, धवखदिरौ । निष्कौशाम्बिः । गोरथः । घृतघटः । गुडधानाः । केशचूडः । सुवर्णालङ्गारः । द्विदशाः । सप्तपर्णः । इत्यादौ साहित्य-क्रान्त-युक्त - पूर्ण - मिश्र - संघात विकार - सुच्प्रत्ययलोप- वीप्साद्यर्था न वचनरूपेण वाच्या भवन्ति अन्यथा तत्तदर्थं वचनं कर्त्तव्यमेव ।
यत्तु तार्किकमीमांसकादयः - राजपुरुष इत्यादौ राजपदादेः सम्बन्धिनी लक्षणयैव राजसम्बन्धवदभिन्नः पुरुष इति बोधः स्यादेव समासे न स्वीकार्या शक्तिः । अत एव राज्ञः पदार्थैकदेशत्वेन तत्र ऋद्धादिविशेषणाऽन्वयो न [ पदार्थः पदार्थेनान्वेती ]त्युक्तेः ( सविशेषणानां वृत्तिर्ने) त्युक्तेश्च । धवखदिरावित्यादौ न साहित्याद्यर्थप्रत्यायकवचनकर्त्तव्यतापत्तिः लक्षणयैवोक्तार्थत्वात् ( उक्तार्थानामि ) ति न्यायेन तदप्रयोगात् । लक्षणया राजसम्बन्ध्यभिन्न इति बोधनेच्छायां समासस्य, राजसम्बन्धवानिति बोधनेच्छायां वि. ग्रहस्य च प्रयोगनियमसम्भवे 'विभाषे 'ति सुत्रस्याऽपि नाऽऽवश्यकत्वम् । न चोक्तस्थलेषूक्तप्रकारेण विशिष्टशक्त्यनभ्युपगमेऽप्यवयवशक्त्यैव निर्वाद्दिऽपि पङ्कजशब्दात्पङ्कजनिकर्तृरूपार्थलाभार्थं समुदायशक्तिरावश्यिकेति वाच्यम् । उक्तार्थस्य योगादेव लाभादित्याद्याहुः ।
तन्न, विशिष्टशत्यनङ्गीकारे विशिष्टस्याऽर्थवत्वाऽभावेन प्रातिपदिकत्वाऽनापत्तेः । अत एव अर्थवत्सूत्रभाष्ये अर्थवदिति किम् । अर्थवतां समुदायोऽनर्थकः, दश दाडिमानि पड. पूपाः, कुण्डमजाजिनमिति प्रत्युदाहृतम् । एवञ्च त्वन्मते राजपुरुषपदयोः प्रत्येकमर्थवत्त्वेsपि समुदायस्य तत्त्वाभावात्प्रातिपदिकत्वं न स्यात् । नचोत्तरसूत्रे समासग्रहणात्सुलभैव संज्ञेति वाच्यम् । समासग्रहणस्य नियमार्थत्वस्य भाष्यकृतैवोक्तत्वात् । अन्यथा सिद्धिं विना नियमत्वाऽसम्भवात् । समासग्रहणस्य नियमार्थत्वादेव राज्ञः पुरुषः, देवदत्तः पचतीत्यादिवाक्यस्य मूलकेनोपदंशमित्यादेश्व न प्रातिपदिकसंज्ञा । किञ्च विशि ष्टशक्त्यस्वीकारे शक्यसम्बन्धरूपलक्षणाया अप्यसम्भवाल्लाक्षणिकार्थवत्त्वस्याऽप्यभावेन सर्वथा प्रातिपदिकत्वाभावस्य निश्चितत्वेन स्वाद्यनुत्पत्तौ ( अपदं न प्रयुञ्जीते ) ति भाष्यात्समस्तप्रयोग विलयाऽऽपत्तिरित्यलम् ॥
ननु पूर्व भूत इति विग्रहे 'सुपा' इत्यनेन समासे समासत्वात्प्रातिपदिकसंज्ञायाम् 'सुपो धातुप्रातिपदिकयोरित्यनेन प्रातिपदिकाऽवयवस्य सुपोलुकि पूर्वभूत इत्यत्रोभयोः पूर्वभूतशब्दयोरुक्तसमाससंज्ञाविधायकशास्त्रवटकप्रथमान्यपदबोध्यत्वादुपसर्जनसंज्ञाप्राप्तौ द्वयोस्तस्यां सत्यां पर्यायेण पूर्वप्रयोगापच्या निर्देशोपपत्तौ निर्देशादित्यादिमूलोक्तस्याऽसङ्गत्यापत्तिरिति चेन्न । उपसर्जनेतिमहा संज्ञाकरणसामर्थ्याच्छास्त्रीयोपसर्जनत्वसमानाऽधिकर
Aho! Shrutgyanam