________________
फक्किकारत्नमञ्जूषा। लुप्शब्देन लुप्संज्ञया लुप्तप्रत्ययार्थो लक्ष्यते तदाह-नक्षत्रे प्रकृत्यर्थे यो लुप्संशये. त्यादि-मूलेनाऽऽवाहयेद्देवीमिति । नक्षत्रवाचकान्मूलशब्दात् 'नक्षत्रेण युक्तः कालः' इत्यनेनाऽण तस्य 'लुबविशेषे' इति लुप् । मूलनक्षत्रयुक्तचन्द्रकालाऽधिकरणकदेवीकर्मक. वाहनमिति बोधः । 'सप्तम्यधिकरणे चेत्यतो मण्डूकप्लुत्याऽनुवृत्तस्याऽधिकरणस्याऽग्रहणे. ऽस्य सूत्रस्य सर्वविभक्त्यपवादत्वेनेतराऽनपेक्षत्वरूपाऽन्तरङ्गत्वात्प्रातिपदिकार्थ एव पष्टीसप्तम्योर्विधाने अद्य पुष्य इति प्रयोगो न सिद्धयेदिति तदर्थन्तदावश्यकमिति । नक्षत्र इत्यस्याऽसत्त्वे पञ्चालेषु तिष्ठन्ति अत्र पञ्चालशब्दादुभयविभक्त्यापत्तिरतस्तत् । तत्र 'जनपदे लुबिति लुप् ॥
सप्तमीपञ्चम्यौ कारकमध्ये- 'कालाऽध्वनोरत्यन्तसंयोगे' इत्यस्मात्कालाऽध्वनोरित्यनयोरनुवृत्तिः । तौ च पञ्चम्या विपरिणम्येते। कारकशब्दोऽत्र शक्तिपरः । मध्यशब्दस्याऽवधिद्वयसापेक्षत्वादूद्विवचनान्तेन कारकशब्देन समासः, कारकयोर्मध्ये इति विग्रहः । शक्तिद्वयस्य शक्तित्वेनैव बोधो न तु द्वित्वेन । ननु कर्तृरूपकारकस्यैकत्वाद्भेद. निबन्धनमध्यव्यपदेशो न स्यादिति चेन्न । कर्तृत्वादिशक्तरेव कारकरूपत्वात्तस्याश्च कालभेदेन भेदादुक्तव्यपदेशोपपत्तेरित्याह-शक्तिद्वयमध्ये यो कालाऽध्वानावित्यादिअघध्यवधिमतोः साजात्यनियमात्कालाऽध्वनोः कारकमध्येऽसम्भवाच्छक्तिशब्देन शक्त्या. श्रयकालग्रहणं बोध्यम् । षष्ट्या बाधकोऽयं योगः स्वाऽनन्तरकालवृत्तित्वादिकं विभक्त्यर्थः । ___ यस्य चेश्वरवचनमित्यत्र प्रमाणाऽभावाल्लक्ष्याऽनुरोधेन व्याख्यानाञ्च निरूपितत्वस्य वृत्तित्वस्य वा पष्टयर्थत्वेन यन्निरूपितेश्वरत्वं गम्यते यनिष्ठेश्वरत्वं च गम्यते ततःसप्तमीत्यर्थ इत्याह-स्वस्वामिभ्यां पर्यायेण सप्तमीति-क्रमेणोदाहरणम् । अधि भुवि रामः, अधिरामे भूः । इत्यधिकरण कारकप्रकरणम् ॥
इति कारकप्रकरणम् ।
अथ समासप्रकरणम् । ननु कारकान्तेन सुसंज्ञोद्देश्यसम्बन्धिन्याः संज्ञायास्तत्प्रयुक्तकार्यस्य च निरूपणाऽनन्तरं प्रसङ्गतस्समासनिरूपणमारभते-समर्थः पदविधिरिति-विधीयते इति विधिः कर्मसाधनः । तस्य षष्ठयन्तेन पदशब्देन समासः । पदस्य विधिः पदविधिरिति । समर्थपदस्य समर्थाश्रितोऽर्थः। तथा च, पदसम्बन्धीविधिः समर्थाश्रितो भवतीत्यर्थः । सामथ्यं द्विविधम्-व्यपेक्षारूपम् , एकार्थीभावरूपञ्च अत्रैकार्थीभावरूपमेव सामर्थ्य न तु व्यपेक्षारूपं व्याख्यानात् समासादिवृत्तिषु तस्याऽसम्भवाच्च । एकार्थीभावश्च (संसृष्टाऽर्थ समर्थमिति भाष्यात् विशेष्यविशेषणभावाऽवगाोकोपस्थितिजनकत्वरूपः ।
शाब्दिकनये-समुदायशक्त्यङ्गीकारादस्ति कृत्तद्धितैकशेषसमाससनाद्यन्तधातुरूपपञ्चवृत्तिष्वेकार्थीभावरूपसामर्थ्यम् । अत एव राजपुरुष इत्यादिसमासे न पदार्थैकदेशे राज्ञि ऋद्धादिविशेषणाऽन्वयः (पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेशेने )ति व्युत्पत्तः । एतत्फलितार्थकथनमेव ( सविशेषणानां वृत्तिर्न वृत्तस्य विशेषणयोगो ने )ति बोध्यम् । नयोक्तरीत्या पदार्थैकदेशे विशेषणाऽन्वयस्याऽभावप्रतिपादनाद्देवदत्तस्य गुरुकुलम् , ऋद्ध.
Aho ! Shrutgyanam