________________
अधिकरणकारकप्रकरणम् । षष्ठी चानादरे--अनादर इति विषयसप्तमी । यस्य च भावेनेत्याद्यनुवर्तते । तथा च, अनादरस्य गम्यमानत्वे सति यक्रियाप्रयोज्यक्रियान्तरं लक्ष्यते ततः षष्ठी सप्तमी चेत्यर्थस्तत्फलितमाह-अनादराधिक्य इति । लक्ष्यलक्षणभावोऽत्र षष्ट्यर्थः। प्रपूर्वकस्य व्रजतेरनादरविशिष्टं प्रव्रजनमर्थः । तत्र षष्ठी तात्पर्य ग्राहयति । प्रत्यासत्या पुत्रादिविषयकाऽनादर एव गृह्यते इति भावः ॥ ___ यतश्च निद्धारणम्-ननु यस्मात्समुदायान्निर्धारणं पृथक्करणं तादृशसमुदायघटकावृत्तिधर्मवत्त्वबोधनम् यत्र, तत्र तादृशसमुदायवाचकात्प्रातिपदिकात्षष्टीसप्तम्यौ स्त इत्यर्थेन शब्दस्य समुदायवाचकत्वाऽभावान्नराणां क्षत्रियः शूर इत्यादौ षष्ठयुपपत्तिर्न स्यादित्यत आह-जातिगुणक्रियासंज्ञाभिरिति । विशिष्टस्येत्यध्याहारः तथा च, जातिगुणक्रियाविशिष्टस्यैकदेशस्य यतः स्वघटितसमुदायात्स्वेतरसमुदायघटकावृत्तिधर्मकरणकं पृथक्करणं तद्वाचकात्प्रातिपदिकात्षष्टीसप्तम्यावित्यर्थी निगलितः। सूत्रे यत इत्यस्याऽभावे यस्य जात्यादिविशिष्टस्य स्वेतरावृत्तिधर्मवत्त्वबोधनं तत एव षष्ट्यापत्तिः । क्षत्रियत्वजातिविशिष्टस्य क्षत्रियस्य स्वेतरब्राह्मणाद्यवृत्तिशूरत्वधर्मबोधनमिति क्षत्रि. यशब्दादेव तदापत्तिः तव्यावृत्त्यर्थं यत इत्यावश्यकमिति भावः । ननु क्षत्रियशब्दात्प्रथमाया एव प्राप्तौ तस्मादुक्तापत्तेरसम्भवेन कथं यत इत्यस्याऽसत्वे ततस्तदापत्तिप्रदर्शनं युक्तमिति वाच्यम् । षष्ट्यपवादत्ववत्प्रथमाऽपवादत्वस्याऽपि सम्भवात् । स्वघटितसमुदायावधिकस्वेतरसमुदायघटकावृत्ति धर्मकरणकं पृथक्करणरूपनिर्धारणविषयत्वरूपोऽवयवाऽवयविभावरूपश्च सम्बन्धो विभक्त्यर्थः । नृणां नृषु वा द्विजः श्रेष्ठ इत्याद्युदाहरणानि । नृसमुदायावधिकद्विजेतरनरावृत्तिश्रेष्ठत्वकरणकपृथक्करणरूपनिर्धारणविषयो द्विजः श्रेष्ठ इत्येवं रीत्या बोधः । निर्धारणविषये उद्भूताऽवयभेदविवक्षया बहुवचनमेव न तु तिरोहिताऽवयवभेदविवक्षयैकवचनं 'कारके' इत्यत्र भाष्ये कारकेविति ब्यादित्युक्त्या तस्याऽसाधुत्वबोधनात् । नचैवं 'मिदचोऽन्त्यात्परः' इत्यत्रैकवचनं निर्धारणेऽसङ्गतमिति वाच्यम् । तत्र सौत्रत्वादेकवचनोपपत्तेः । नचैवमपि द्वन्द्वः सामासिकस्य चेति गीतावाक्यस्य का गतिरिति वाच्यम् । समाससमूहमध्ये समूहेऽर्थे 'अचित्तेति ठक एव तत्र गतित्वादिति दिक् ॥
पञ्चमी विभक्ते--अत्र यतश्च निर्धारणमित्यनुवर्तते । विभागश्चात्र भेदः । तत्र निर्धारणे सर्वत्र यथा कथञ्चिदूभेदस्य सत्त्वाद्विभक्तग्रहणसामथ्येन यत्र भेद एव तत्रैवाऽस्य प्रवृत्तिनतु केनाऽप्युपात्तरूपेण भेदसत्त्वे, इति नियमादाह-यत्र निर्धार्यमाणस्य भेद एवेति । निर्धारणविषयत्वरूपोऽत्र पञ्चम्यर्थः । माथुराः पाटलिपुत्रकेभ्य आढ्यतरा इत्यतः पाटलिपुत्रकाऽवधिकनिर्धारणविषया माथुरा आढ्यतरा इतिबोधः । एवञ्च पूर्वोक्तनिर्धा. रणनिरूपकवाचकस्य तदाश्रयवाचकस्य उक्तनिर्धारणप्रयोजकधर्मवाचकस्य च यत्रोपादानमुच्चारितेन शब्देन प्रतीतिस्तत्रैवैतत्सूत्रविहितपञ्चम्यन्तस्य साधुत्वम् । ननु पुरुषोत्तम इत्यत्र पुरुषाणामुत्तम इत्यर्थप्रतीत्या 'यतश्च निर्धारणमित्यनेन षष्ठीविधानात् 'न निर्धारणे' इति समासनिषेधः स्यादिति चेन्न । सम्बन्धसामान्ये षष्ठया समासोपपत्तेरित्यलम् ॥
नक्षत्रे च लुपि-लुप्शब्दस्याऽभावबोधकत्वात्तत्र नक्षत्रवाचकस्य वृत्तिनस्यादिति
Aho! Shrutgyanam