________________
फक्किकारत्नमञ्जूषा |
तदर्थः । तेनाऽधीती व्याकरणे इत्यत्र सप्तमी । कृतपूर्वी कटमित्यत्र न सप्तमी क्तान्तस्येन्द्रकृतित्वाऽभावात् । अत्र न क्तः किन्तु भावे, अन्यथा क्तप्रत्ययेन कर्मण उक्तत्वात्तत्र सप्तम्यनापत्तेः । अधिपूर्वकादिङा भावे के तत 'इष्टादिभ्यश्चेति कर्तरीनौ गुणभूतक्रियया सम्बध्यमानव्याकरणरूपकर्मणि सप्तम्योक्तप्रयोगोपपत्तिरिति बोध्यम् । अत्र कर्मपदेन का - लाऽतिरिक्तस्यैव ग्रहणान्मासमधीतीत्यादौ न मासशब्दात्सप्तमीत्यलम् ॥
I
साध्वसाधुप्रयोगे च - वार्त्तिकमिदं शेषषष्ट्यपवादभूतं बोध्यम् । ननु 'साधु निपुणाभ्यामित्येव सिद्धेऽत्र साधुग्रहणं व्यर्थमिति चेन्न । अर्चाऽविवक्षणे तत्त्वकथनमात्रेऽपि साधुर्भृत्यो राज्ञेत्यादौ सप्तम्यर्थन्तस्याऽऽवश्यकत्वात् । नवोक्तसूत्र एवं साधुग्रहणं मास्त्विति वाच्यम् | अर्चाविवक्षणे प्रतिप्रयोगे सप्तमीनिवृत्त्यर्थम् तस्याऽऽवश्यकत्वात् ॥ निमित्तात्कर्मयोगे - - प्रत्यासच्या स्वाऽन्वयिक्रियाकर्मणा योगे सति निमित्तत्वाचकात्प्रातिपदिकात्सप्तमीत्यर्थः ।
३८
चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् | केशेषु चमरीं हन्ति सोम्नि पुष्कलको हतः ।
द्वीपिचर्मणोरण्डकोषमृगयोश्च समवायसम्बन्धः । दन्तकुञ्जरयोः केशचमर्योश्च संयोग
सम्बन्धः
। देवदत्तकर्तृवृत्तिच हेतुकद्वीपिनिष्ठप्राणवियोगानुकूलव्यापार इत्यादिक्रमेण बोधः । नचाऽनेन निमित्तवाचकात्सप्तमीविधानात्मुक्ताफलाय करिणं रघुवीर हन्तीति रघुवंशप्रयोगोऽनुपपन्नः, निमित्तवाचकान्मुक्ताफलशब्दात्सप्तम्या दुर्वारत्वादिति वाच्यम् । मुक्ताफलं लब्धुमित्यर्थे ' क्रियार्थोपपदस्य कर्मणि स्थानिनः' इति चतुर्थ्या एव प्राप्तेरिति ॥
यस्य च भावेन भावलक्षणम् - भावः क्रिया सा लक्ष्यते येन तद्भावलक्षणम् । यस्येत्यत्र वृत्तित्वं षष्ठ्यर्थः । भावेनेत्यत्र प्रयोज्यत्वं तृतीयाऽर्थः । तथा च यद्वृत्तिक्रियाप्रयोज्यक्रियान्तरं लक्ष्यते ततोऽर्थाज्ज्ञापकक्रियाश्रयवाचकात्प्रातिपदिकात्सप्तमीत्यर्थः । तेन गोषु दुह्यमानास गत इत्यत्र द्वाभ्यां गोपददुह्यमानपदाभ्यां सप्तमीसिद्धिः । ज्ञापकक्रियाश्रयवाचकः कर्त्ता कर्म च तत्र ब्राह्मणेष्वधीयानेषु गत इतिकर्तर्युदाहरणम् । कर्मणि तु प्रागेवोदाहृतम् । अत्र काचित्क्रिया स्वाऽऽधारकालेनाsन्यां क्रियां बोधयति, यथा प्रकृते, काचित्तु स्वाऽऽधारकालाऽव्यवहितपूर्वकालेन गोषु दुग्धावित्यादौ । एतत्सूत्रविहितसप्तम्या ज्ञापकत्वमर्थः । इदं सूत्रं स्वप्रवृत्तौ शब्दबोध्यमेव लक्ष्यलक्षणभावमपेक्षते न तु तस्य भूयोऽवयवदर्शनम् । ननु सुत्रेण ज्ञापकक्रियावाचकात्सप्तमीविधानेन राहूपरागे स्नायादित्यन्त्र ज्ञापकक्रियावाचकपदाऽभावात्सप्तमी न स्यादिति चेन्न । तत्र राहूपरागपदेन तदाश्रयकालस्य ग्रहणेनाऽधिकरणसप्तम्या एव प्राप्तेः । विवाहे नान्दी मुखं कुर्य्यादित्यन्न विवाहपदेन तत्प्राक्कालस्य ग्रहणादधिकरणसप्तम्येवेति दिक् ॥
श्रहणां कर्तृत्वेऽनर्हाणामकर्तृत्वे तद्वैपरीत्ये च यस्यां क्रियायां ये उचितास्तेषां कर्तृत्वे विवक्षिते, तथा यस्यां क्रियायां येषां कर्तृत्वस्य अनौचित्यं तेषां अकर्तृत्वविवक्षणे तथा तद्वैपरीत्ये येषां कर्तृत्वस्यौचित्यन्तेपामकर्तृत्वे येषान्तदनुचितन्तेषां कर्तृत्वे विवक्षित सप्तमी वाच्येति वार्तिकार्थः । एषामुदाहरणानां मूले एव स्पष्टतया नात्र लिखितानि ॥
Aho! Shrutgyanam