________________
अधिकरणकारकप्रकरणम् ।
अथाधिकरणकारकप्रकरणम् । आधारोऽधिकरणम्- 'कारके' इत्यधिकारात्क्रियाजनकेऽस्य प्रवृत्तिः । आधारश्चोपस्थितत्वात्क्रियाया एव, तत्राऽऽधारपदेन न साक्षात्क्रियाऽऽधारस्य ग्रहणं किन्तु पर.. म्परया तदाधारस्य पराभ्यां कर्तृकर्मसंज्ञाभ्यां बाधात् । परम्परा च व्याख्यानात् कर्तृकर्म . द्वारैवेत्याह-कर्तृकर्मद्वारेति-उक्तञ्च हरिणा
कर्तृकर्मव्यवहितामसाक्षाद्धारयत्क्रियाम् ।
उपकुर्वत्क्रियासिद्धौ शास्त्रेऽधिकरणं स्मृतम् ॥ इति ॥ न च कालस्य साक्षात्क्रियाधारत्वसम्भवे कथं परम्पराऽऽधारस्य ग्रहणमिति वा. व्यम् । परम्पराऽऽधारग्रहणस्यैवाऽनुभवसिद्धत्वात् । तस्य साक्षात्क्रियाऽऽधारत्वेऽप्याधा. स्पदे स्वरितत्वप्रतिज्ञया परम्पराऽऽधारस्य ग्रहणम् । किञ्च कालस्य साक्षात्तदाधारत्वे काल: पचति भूतानीतिवत्कर्तृत्वमेव स्यात् । परम्पराऽऽधारग्रहणे सिद्धे (यस्य यदद्वारा कारकत्वं तस्य तद्वारैव क्रियान्वयः) इति व्युत्पत्त्याऽस्याऽऽधारस्य कर्तृकर्मद्वारैव क्रियाऽन्वयः । (१)अत एव, अक्षशौण्ड इत्यादौ समासः । यथा कटे शेते चैत्र इतिवाक्यात्कटाऽधिकरणकचैत्रकर्तृकं शयनमिति बोधस्तथाऽक्षाऽधिकरणकशौण्डकर्तृका भवनक्रियेतिबोधात्साक्षादेव सप्तम्यन्तस्य शौण्डादिभिः सामथ्येन समाससंज्ञासिद्धिरिति भावः ।
यत्त कैयटेनोक्तम्-अक्षेषु शौण्ड इत्यत्राऽऽसक्तपदाऽध्याहारेणाऽऽसक्तिक्रियावा. रा सामर्थ्यात्समास इति तन्न हृदयग्राहि, भाष्यकृता तस्याऽर्थस्याऽनुक्तत्वात् यत्र च कियावाचकपदन्न श्रूयते तत्रापि तदन्वययोग्यक्रियावाचकपदाऽऽध्याहारेण क्रियाऽऽधारत्व. स्योपपादनीयत्वान्मूले वृक्षः कपिसंयोगीत्यादावस्तिक्रियामध्याहृत्य तस्याः स्वकर्तृकपिसंयोगिवृक्षद्वारा मूलवृत्तितया मूलस्याऽऽधारत्वं बोध्यमिति दिक् ॥ __ औपश्लेषिकवैषयिकाऽभिव्यापकभेदादाधारस्त्रिधा। उपसमीपे श्लेष उपश्लेषस्तत्कृत औपश्लेषिकः । यन्मासेऽतिक्रान्ते दीयते तस्य मास औपश्लेषिकमधिकरणमिति 'तत्र च दीयते' इति सूत्रभाष्योक्तेः। अत एव, 'इको यणची'त्यनाऽचीत्यौपश्लेषिकाऽऽधारे सप्त. मी । कटे आस्ते, स्थण्डिले शेते इत्याद्युदाहरणम् । कटाधिकरणिकैककर्तृकाऽऽसनक्रिया। स्थण्डिलाऽधिकरणिकैककर्तृका शयनक्रियेति बोधः । विषयकृतो वैषयिकः, अप्राप्तिपूर्वक प्राप्तिरूपसंयोगसमवायाऽतिरिक्तसम्बन्धेन यदधिकरणं तद्वैषयिकमधिकरणमिति फलितम् । मोक्षे इच्छाऽस्ति इत्याद्युदाहरणम् । स्थाल्यधिकरणककर्तृवृत्तिविक्लित्यनुकूलव्यापारः । मोक्षाविषयकेच्छाकर्तृकसत्तेति बोधः । यत्र सर्वाऽवयवावच्छेदेनाऽभिव्याप्तिस्तदभिव्यापअधिकरणम् । तिलेषु तैलं, दधिन सर्पिः, सर्वस्मिन्नात्मास्तीत्यायुदाहरणम् । तिलव्यापकाधिकरणकतैलकतृ कसत्ता । दधिव्यापकाऽधिकरणकसपिःकर्तृकसत्ता । सर्वव्यापकाऽधिकरणकाऽऽत्मक कसत्तेत्येवं रीत्या बोधः । एतान्येव मुख्याधिकरणोदाहरणानि । पू. वोक्तानि तु गौणाऽधिकरणस्येति बोध्यम् । अधिकरणत्वशक्तिमानधिकरणविभक्त्यर्थः ॥
क्तस्येन्विषयस्य कर्मण्युसंख्यानम्-इन्प्रकृतेः तान्तस्य कर्मणि सप्तमीति ( १ ) उक्तनियमस्वीकारादेवत्यर्थः । ४ फ० म०
Aho ! Shrutgyanam