________________
फकारत्नमञ्जूषा ।
जनान्यथोपपत्त्या व्यर्थीभूतं कृद्ग्रहणं ज्ञापयति, कृदन्तशक्तिग्रहप्रयोज्योपस्थितिविषयक्रियायाः कर्तरि कर्मणि षष्ठी यथा स्यात्, तद्धितान्तशक्तिग्रहमात्रप्रयोज्योपस्थितिविषयक्रियायाः कर्तरि कर्मणि माभूदिति ।
तथा च कृतपूर्वीकटमित्यत्र कटस्य तद्धितान्तशक्तिग्रहमात्रप्रयोज्योपस्थितिविषयक्रियायाः कर्मत्वान्न षष्ठी । serवृत्तिघटकतयैव सकर्मकधातुप्रकृतिकभाव क्तान्तस्य कृतेत्यस्य प्रयोगेण कृदन्तशक्त्या क्रियोपस्थित्यभावात् । न च निष्ठान्तत्वात् 'न लोकेति निषेधेनैव तत्रषष्ट्यभावे नैतत्कृद्ग्रहणकृत नियमफलं युक्तमिति वाच्यम् । निष्टान्तमात्रवृत्तिशक्तिग्रहप्रयोज्योपस्थितिविषयक्रियानिरूपितकर्मण्येव तेन षष्टीनिषेधात् । न च कृद्रग्रहणकृतनियमेन कृतपूर्वीकटमित्यत्रेव तण्डुलानां पाचकतर इत्यादावपि षष्ठी न स्यात्, तण्डुलानां, पाचकतरेतितद्धितान्तनिष्ट शक्तिग्रहप्रयोज्यो पस्थितिविषयक्रियानिरूपितकर्मत्वसत्वादिति वाच्यम् । पाचकादेः पृथक्प्रयोगेण पाचकपदनिष्ठशक्तिग्रहप्रयोज्योपस्थितिविषयत्वस्य निर्बाधेन पट्युपपत्तेः । कृधातोः कर्मणोऽविवक्षया भावे ते कृतमिति ततः पूर्वशब्दस्य तत्समभिव्याहारे कृतं पूर्वमिति विग्रहे 'सुसु' तिसमासे 'पूर्वादिनिः' 'सपूर्वाच्चेति' इनिः, ततः कर्मयोगविवक्षया कृतपूर्वीकटमिति सियति । अस्यैवं रीत्या साधुत्वे एतत्सूत्रस्थं भाष्यमेव मानम् । न च प्राक्कर्मणोऽन्वयाऽविवक्षामपि कृतेत्यस्य कर्मणि साकांक्षत्वेन सापेक्षत्वादसामर्थ्येन वृत्तिर्नस्यादिति वाच्यम् । वृत्तेः पूर्व कर्मान्वयाऽभावेनाऽसाकांक्षत्वात् । न च 'नपुंसके भावे क्तः' इत्यनेन सकर्मकेभ्योऽपि धातुम्यो भावेक्तप्रत्ययसिद्धौ कर्मणोऽविवक्षया भावे साधनयत्नो व्यर्थ इति वाच्यम् । उक्तसूत्रेणाऽव्यकर्मकेभ्य एव क्तविधानादित्यलम् ॥
उभयप्राप्तौ कर्मणि -- पूर्वसूत्रेणैव सिद्धौ नियमार्थमिदं सूत्रम् । उभयोः प्राप्तिर्यस्मिन्निति बहुव्रीहिः । अस्याश्रयणादेकनिमित्तत्वलाभेनौदनस्य पाकः, ब्राह्मणानाञ्च प्रा दुर्भाव इत्यादौ विभिन्नक्रियाकर्तृकर्मणोः पष्ठीप्राप्तौ नायं नियमः प्रवर्त्तते । प्राप्तिपदेनोभयोः प्रयोगे सत्येवाऽयं निषेध इति बोध्यम् ॥
३६
स्त्रीप्रत्यययोरकाकारयोर्नायं नियम इति -- स्त्रियां क्तिन्' इत्यधिकारविहि तयोरकाsकारयोः प्रयोगे कर्मरायेव षष्ठी न तु कर्तरीतिनियमो न प्रवर्तते किन्तु कर्तर्यपि षष्ठी भवत्येव । नचैवं 'मुट् तिथो:' इति सूत्रे सुटा सीयुटो न बाध इति वृतिकृदुक्तमनुपपन्नमिति वाच्यम् । कर्तुः करणत्वविवक्षया तदुपपत्तेः ॥
शेषे विभाषा -- उक्त सूत्रकृतनियमस्याऽयं विकल्प इत्येके । इत्येतलुब्धमर्थ स्पष्टप्रतिपत्त्यर्थमाह- केचिदविशेषेण विभाषामिच्छन्तीति- अकाकारभिन्नकृन्मात्रे इति तदर्थः ॥
चतुर्थी चाशिषि -- आशीर्विषय क्रियाऽन्वय्यर्थकात्प्रातिपदिकात्तद्वार के आयुप्यादियोगे चतुर्थीषष्ठयावित्यर्थः । क्रियाद्वारकसम्बन्ध स्वीकारादेव एतदर्थकचतुर्थ्यन्वानां सुखहितादिभिर्न समासः । देवदत्ताय सुखं भूयादित्यादौ देवदत्तायेत्यस्य सुखादेव भूयादित्येतच्छब्दबोध्य क्रियायामन्वयेन परस्परमसामर्थ्यात् ।
इति षष्ठी ।
Aho! Shrutgyanam