________________
सम्बन्धकारकप्रकरणम्।
सुबन्तार्थविशेष्येणाऽनन्वयेन समासाऽभावादेव, दारुणं यथा भवति तथाऽध्यापक इत्यर्थकस्य दारुणाऽध्यापक इत्यस्य सिद्धये मलोपवचनमारब्धं 'पूजनात्पूजितमिति सूत्रे भाष्ये । असामयपि समासाऽभ्युपगमे तु समासेनैवोक्तप्रयोगोपपत्तौ भाष्यकृत्कृतस्य मलोपवचनस्य स्पष्टमेव वैयथ्यं स्यात् । उक्तसूत्रस्थभाष्यमेव क्रियाविशेषणान्न षष्ठीत्यत्रापि प्रमाणं बोद्धयम् । अन्यथा तृजकाभ्यां कर्तरी' तिनिषेधसामर्थ्यादवयवद्वारकसामर्थेऽपि षष्ठीसमासस्य प्रवृत्त्या समासेनैवोक्तप्रयोगोपपत्तौ मलोपवचनस्य स्पष्टैक्वैयर्थ्यापत्तिरिति । नच विभाषाधिकारेण षष्ठीसमासस्य वैकल्पिकत्वात्तदभावपक्षे दारुणाऽध्यापक इत्यस्योपपत्तये मलोपवचनस्य चरितार्थत्वे कथं वैयर्थ्यमिति वाच्यम् । तथा सति वाक्ये मलोपश्च वक्तव्य इत्येव वचनस्य कर्तुमुचितत्वात् । वैयधिकरण्येन समासाऽप्राप्तिविषयकत्वादेव, क्रियाविशेषणे दारुणादौ विशेष्येणाऽनन्वयासमासाऽप्राप्त्या मलोपविधानमिति कैयटेनोक्तम् । न च विशेष्येणाऽनन्वयेऽप्यवयवद्वारकसामर्थ्यमादाय सुप्सुपेति वा मयूरव्यंसकेति वा समासेनोक्तप्रयोगोपपत्तौ तदर्थ कृतस्य मलोपवचनस्य सर्वथा वैर्थ्याऽपत्त्या क्रियाविशेषणात्षष्ठयभावे समासाऽभावे च न तद्विनिगमकं भवितुमर्हतीति वाच्यम् । उक्तसमासविधायकशास्त्रद्वयस्याऽसार्वत्रिकत्वेन पूर्वोक्तयुक्त्या षष्टयभावात्तत्समासस्याऽप्यभावेन चोक्तप्रयोगाऽनुपपत्त्या तदर्थमुक्तवचनस्याऽऽवश्यकत्वेनोक्तविषये विनिगमकत्वस्याऽक्षतेरित्यलम् ॥
ननु कर्तृकर्मभ्यां क्रियाऽऽक्षेपात्तद्वाचिनो धातोरेव सत्त्वात्तेभ्यस्तिकृतो विधानेऽपि तिड्योगे 'न लोके ति निषेधेन पष्ठयभावे कृद्योग एव षष्ठीति कृद्ग्रहणं व्यर्थम् । न च देवदत्तेन शत्योऽश्व इत्यादौ तद्धितयोगेऽश्वरूपकर्मणि षष्टीव्यावृत्त्यर्थं कृद्ग्रहणमावश्यकमिति वाच्यम् । कारकाऽन्वययोग्यताऽवच्छेदकरूपेण साध्यत्वेनोपस्थितक्रियानिरूपितकर्मण्येवाऽनेन षष्ठीति नियमेन तद्धितात्तेन रूपेण क्रियोपस्थित्यभावादश्वस्य तादृशक्रियानिरूपितकर्मत्वाऽभावेन तत्र षष्ठ्यप्राप्तेः । नच कृद्ग्रहणमुत्तरसूत्रेऽनुवृत्त्याऽव्ययपदेन कृदव्ययस्यैव ग्रहणार्थमिति वाच्यम् । अव्ययार्थस्य ये कर्तृकर्मणीति व्याख्यानेन कृदव्ययस्यैव तत्र प्रहणात् । न च उभयप्राप्तावित्यत्रान्यपदार्थसम्पादनद्वारा बहुबीयुपपत्त्यर्थं कृद्ग्रहणमिति वाच्यम् । 'एकाचो द्वे' इत्यादाविवाऽन्यपदार्थस्याऽशब्दत्वेऽपि व्याख्यानात्तदुपपत्तेः । न च भेदिका देवदत्तस्य यज्ञदनस्य काष्ठानामित्यादौ (१)गौणे णिचप्रकृत्यर्थकर्तरि षष्ठयथं करोतीति कृदिति कर्तृपरं कृद्ग्रहणमिति वाच्यम् । गौणे णिच्प्रकृत्यर्थकर्तरि तृतीयावद्यत्नमन्तरैव षष्ट्या अप्युपपत्तेः । एवञ्च कृद्रग्रहणम्व्यर्थमेवेत्याशयेनाऽऽशंकते-कृतिकिमिति । ___ समाधत्ते-(२)तद्धिते माभूत्कृतपूर्वीकटमिति-अयम्भावः, उक्तरीत्या प्रयो
(१) अप्रधाने।
(२) तद्धिते माभूदिति । तद्धितान्तनिष्ठा या शक्तिः सा च बोधजनकत्वप्र. कारतानिरूपितकृतपूर्वीत्वावच्छिन्नभगवदिच्छीयविशेष्यतारूपा तस्या यो ग्रहः । ज्ञानं ] स च तादृशविशेष्यताख्यविषयताप्रकारककृतपूर्वीपदत्वावच्छिन्नविषयतावत्कृतपूर्वीपदम्भवत्वित्याकारकस्तन्मात्रप्रयोज्योपस्थितिः पूर्वकालिककृतिकर्तृत्वावच्छिन्नरूपा तद्विषयिका क्रिया कृतिक्रिया तस्याः कर्तरि कर्मणि च षष्ठी माभूदिति तदर्थः ।
Aho ! Shrutgyanam