________________
३४
फक्किकारत्नमञ्जूषा। त्योक्तभाष्यस्य सत्त्वादिति तत्त्वम् । (१)किञ्च यदा कर्मणो विवक्षा, न तदा षष्ठी, स्मराम्यहं मातरमित्युक्तम्भाष्ये । भवन्नये यदा कर्मादिविवक्षा भवति । न भवति तदा षष्ठीति वदेत् । (२)एवञ्च 'ज्ञोविदर्थस्य करणे' इत्यत्राऽपि न शेषपदसम्बन्ध इति बोध्यम् । एवञ्च नाऽज्ञानार्थकजानातियोगे कदापि तृतीया । (३)शतं दोव्यतीत्यादि च सिद्धयति । ज्ञोऽविदर्थस्येत्यत्र शेषपदसम्बन्धाऽभावेऽनेनैव व्यवधानात्कथमुपपत्तिरधीगर्थेत्यत्र भाष्यो. क्तस्य शेषपदसम्बन्धस्येति नाशंक्यम् । मण्डूकाऽनुवृत्त्या शेषपदसम्बन्धस्य तत्र सुलभ. त्वादित्यलमतिविस्तरेण ॥ ___ कर्तृकर्मणोः कृति । नाऽत्र सूत्रे शेषपदस्य सम्बन्धः । तथा सति 'षष्ठी शेषे' इत्यनेनैवाऽत्राऽपि षष्ठ्याः सिद्धौ सूत्रमेतद्वैयर्थ्यमापद्येत । नचैतत्सूत्रस्य ज्ञोऽविदर्थस्येति सूत्रवत्समासनिवृत्तिफलकत्वेन चरितार्थत्वसम्भवे कथं वैयर्थ्यमिति वाच्यम् । (कृद्योगा षष्ठी समस्यते) इत्यनेन तत्र समासस्येष्टत्वादुक्तफलकत्वाऽभावेन वैयर्थ्यस्य स्पष्टत्वात् । सूत्रघटककृतिरित्यस्य करोते वे क्विबुत्पत्तौ कृद्योगे कर्तरि कर्मणि च षष्ठीति सूत्रार्थो निष्पन्नः । कर्तरि षष्ट्युदाहरणम् । कृष्णस्य कृतिः । कृतिरिति भावे क्तिन् , करणं कृतिः। कर्मषष्ट्युदाहरणञ्च, जगतः कर्ता कृष्णः । अत्र कर्तृसाहचर्याभेदसम्बन्धेनाऽन्वयिन एव कर्मणो ग्रहणात्स्तोकं पाक इत्यादौ न क्रियाविशेषणीभूतस्तोकादिपदात्षष्ठी। (४) अन्यथा व्यपदेशिवभावेन फलस्य स्वाश्रयत्वात्कर्मत्वेन तत्राऽन्वितस्य स्तोकादेरपि कर्मत्वात्त. स्माद्दुरैव षष्ठ्यापत्तिरिति बोध्यम् । (६)किञ्च स्तोकम्पाचक इत्यादौ न क्रियाविशेषणेन स्तोकादिना समानाधिकरणसमासो नाऽपि सुप्सुपेत्यनेन सः । स्तोकादेर्धात्वर्थे. ऽन्वयात्सुबन्तार्थविशेष्येण पाककर्ताऽन्वयाऽभावेन सामर्थ्य विरहात् । ननु स्तोक पाक इ. त्यत्रैव समासाऽभावप्रदर्शनस्य समुचितत्वे स्तोकं पाचक इति प्रयोगाऽन्तरे तत्प्रदर्शनं निष्फलमिति वाच्यम् । 'तृजकाभ्यां कर्तरी ति सूत्रोदाहरणविषये ओदनस्य पाचक इत्यत्र षष्ठीवत्स्तोकम्पाचक इत्यत्राऽ पि सा स्यादिति सन्देहव्यावृत्तये प्रयोगान्तरे तत्प्रदर्शनस्य साफल्यात् । (६)नचैवं द्वितीयाश्रितेत्यादेः वैयाऽऽपत्तिः कष्ठं श्रित इत्यत्र सुबन्तार्थविशेष्येण श्रवणकर्ता कष्टमित्यस्याऽनन्वयेनाऽसामर्थ्यादिति वाच्यम् । तस्याऽरम्भसामर्थ्यादवयवद्वारकसामर्थेऽपि प्रवृत्त्या सार्थक्यात् । (७)द्वितीयाप्रकरणोक्तपरेतुमतरीत्या सामर्थ्यस्य सत्त्वाच्च ।
(१) सिंहावलोकनन्यायेनाह--किञ्चति । (२) पूर्वोक्तव्यवस्थासिद्धौ चेत्यर्थः । • (३ ) दिवस्तदर्थस्येति सूत्रे पूर्वोक्तरीत्या शेषपदसम्बन्धे सति यदा सम्बन्धित्वेन वि. वक्षा तदा षष्ठी, यदा कर्मत्वशक्तिमत्वेन सा तदा द्वितीयेति रूपद्वयासिद्धिरिति भावः ।
(४) अभेदेनान्वयिनः कर्मणो प्रहणे सतीत्यर्थः । (५) अत्र विशेषमाह किञ्चेति । (६) सामर्थ्याऽभावेन समासशास्त्रेऽप्रवृत्ते सतीत्यर्थः ।
(७) प्राप्तोदकेत्यत्र वृत्तिविप्रयोः समानार्थकत्वार्थ प्राप्तिकर्बुदककर्मेति बोधस्वीकारवत्कष्टेति कर्मणो द्वितीयान्तार्थस्य कर्तर्यन्वयेन कष्टकर्मकाऽभिन्नाश्रयणकर्तेत्यर्थकल्पने सुबन्तार्थविशेष्येणाऽप्यन्वयेन सामर्थ्यमस्तीति भावः ।
Aho ! Shrutgyanam