________________
सम्बन्धकारकप्रकरणम् ।
३
रुजाऽर्थानामिति । रुजा व्याधिरर्थो येषान्ते रुजास्तेषां तथोक्तानाम् । धातो. र्भाववचनत्वस्याऽव्यभिचारेण सामर्थ्याद्वचन इति कर्तरि ल्युटप्रकृत्यर्थोऽविवक्षितस्तदाहभावकर्तृकाणामिति ॥
हिसायां किम्, धानापेषणमिति । (जासिनिप्रहणे)ति सूत्रे हिंसाग्रहणाऽभावे प्रत्युदाहरणभूतोक्तप्रयोगे उक्तसुत्रेण षष्ट्याऽऽपत्या (प्रतिपदविधाना षष्ठी न समस्यते) इति समासनिषेधेन धानायाः पेषणमित्यसमस्तप्रयोगाऽपत्तिः । तद्ग्रहणसत्त्वे तु पिष्धातोरत्र हिसार्थकत्वाऽभावादनेन षष्ठ्यप्राप्त्या कर्तृकर्मणोरिति पष्ठ्या समासे तदपपत्तिरिति भावः ॥ ___ ननु गामस्य तदहःसभायां दीव्येयुरित्यत्र नित्यं षष्ठीप्राप्तौ विकल्पार्थ द्वितीया ब्राह्मणे इति सूत्रमिति भाष्यात् 'दिवस्तदर्थस्य त्यत्र न शेषपदसम्बन्ध इत्याशयेन तिङन्तमुदाहरति-शतस्य दीव्यतीति । यदि दिवस्तदर्थस्येत्येतत्सूत्रस्याऽपि शेषपदसम्बन्धेन समासनिवृत्तिफलकत्वं स्यात्तदा यत्र समासस्य प्राप्तिसम्भावना तादृशं कृदन्तमेवोदाहरेत् । तथाऽकरणेन ज्ञायते नाऽत्र शेषपदसम्बन्ध इति भावः ॥
ननु 'दिवस्तदर्थस्ये त्यादिसूत्रेण व्यवधानाच्छेषपदाऽसम्बन्धेनाऽधिकरणकारक एव षष्टीविधानस्य समुचितत्वेन शेषग्रहणं व्यर्थमित्याशयेनाशङ्कते-शेषे किमिति। समाधत्तेद्विरहन्यध्ययनमिति। शेषपदाऽसम्बन्धेऽधिकरणे षष्ठीविधानात्प्रत्युदाहरणभूतोक्तप्रयोगे षष्ट्यापत्तिरिति तद्वयावृत्त्यर्थं वृत्त्यादिप्रामाण्यात् 'अधीगर्थदयेशामि' ति सूत्रे कर्मादीना. मविवक्षा शेष इतिभाष्ये कर्मादीनामित्यत्र बहुवचनेनात्रापि शेषपदसम्बन्धबोधनाञ्च मण्डूकप्लुत्या शेषपदसम्बन्ध आवश्यक एवेति समाधातुराशयः । वस्तुतस्तु उक्तभाष्ये बहुवचनेन नाऽत्र सूत्रे शेषपदसम्बन्धलाभः । कर्माश्रयषष्ठीविषये सूत्रोपात्तसकर्मकाणामकर्मकवद्वचनमिति वात्तिकं प्रत्याख्यातुं शेष इति वर्त्तते इति भाष्यकृतोक्ते परेण शेषश्च क इति पृष्टे कर्मादीनामविवक्षा शेष इति सिद्धान्तिना स्मारितत्वात् । सिद्धान्तिभाष्यकारेण शेषपदार्थः स्मारितः । नैतावता कृत्वोर्थेऽत्यत्र शेषपदसम्बन्ध इति लभ्यते । (१)किञ्चैतभाष्यबलेन दिवस्तदर्थस्येत्यत्र शेषपदसम्बन्धो लभ्यते । (२)अन्यथा वार्तिकरीत्या भावे इष्टस्य शतस्य दीव्यते इति प्रयोगस्याऽसिद्धिरापधेत । (३)अत एव (अधीगादयः प्रेष्यब्रुपर्यन्ताः कर्माश्रयपदेनोच्यन्ते) इति कैयटेन वार्तिकव्याख्यायामुक्तम् । (४)एवञ्च शेषपदस. म्बन्धेनोक्तवार्तिकप्रत्याख्यानवदेतत्सूत्रद्वय प्रत्याख्याने एव भाष्यकर्तुस्तात्पर्य्यम् । नचैवं (६) द्वितीया ब्राह्मणे' इत्येतत्सूत्रस्थं भाष्यं विरुणद्धीति वाच्यम् । (६)वार्तिकरी
(१) प्राचीनव्याख्यायान्दोषमप्याह-किञ्चति ।। (२) 'दिवस्तदर्थस्ये' ति सूत्रे शेषपदाऽसम्बन्धे इत्यर्थः ।
( ३ ) दिव इति सूत्रे शेषपदसम्बन्धादेवेत्यर्थः । अस्य मूलोक्तकैयटोक्तसूत्रभाष्यपाठाच्छेषपदसम्बन्धलाभ इति। (४) दिव इति सूत्रे शेषपदसम्बन्धे सतीत्यर्थः।।
(५) ननु द्वितीया ब्राह्मणे इत्यत्र भाष्ये गामस्य तदहः सभायामित्यादौ शेषपदासम्बन्धेन दिव इति सूत्रप्राप्तषष्ठीबाधनार्थर्मतस्य सूत्रस्योक्तत्वादस्य का गतिरित्याह-द्विती. या ब्राह्मण इति । (६) वार्तिककृता हि नोक्ता शेषपदानुवृत्तिः किन्तु तेनाऽकर्मकवद्भाव एवोक्त इति भावः।
Aho! Shrutgyanam