________________
३२
फकिकारत्नमञ्जूषा।
ञ्चमी । अवीचिमारभ्येत्यत्राऽऽरभ्येत्यस्य गृहीत्वेत्यर्थेन प्रभृत्यर्थकत्वाऽभावान्न पञ्चमीत्यलम् ॥
ननु (अपपरिबहिरञ्चवः पञ्चम्या) अत्र सूत्रे परस्परसाहचर्यादपपर्योर्वर्जनार्थयोः कर्मप्रवचनीयसंज्ञकयोरेव ग्रहणात्तद्योगे (पञ्चम्यपाङपरिभिरि)ति पञ्चमीविधानेन (लक्षगप्रतिप. दोक्त) परिभाषयाऽपपरिनिमित्तकसुबन्तस्यैव ग्रहणेन च पञ्चम्यैव समासस्य सिद्धत्वात् अपपरिसाहचर्य्यादुक्तपरिभाषया चाऽञ्चूत्तरपदेनाऽपि अन्यारादिति विहितपञ्चम्यैव समासस्य सिद्धत्वाञ्च पूर्वोक्तसूत्रस्थं पञ्चमीग्रहणं व्यर्थ सत् बहिश्शब्दस्य पञ्चम्यन्तेन समासविधानद्वारा बहिश्शब्दयोगेऽपि पञ्चमी भवतीति ज्ञापयतीत्याह-अपपरिबहिरिति समासविधानाज्ज्ञापकादहियोगे पञ्चमीति । पञ्चम्यन्तेन समासविधानाज्ज्ञापकादिति तदर्थः । ज्ञापकसिद्धस्याऽसार्वत्रिकत्वात्क्वचिबहिश्शब्दयोगे षष्ठयपि। तेन मणिबन्धादाकनिष्ठं करस्य करभो बहिरिति सिद्धमिति दिक् ॥
ननु 'पृथग्विनानाने तिसूत्रेण विकल्पेन तृतीयाविधानात्तदभावपक्षे 'एनपा द्वितीया' इति प्रकृता द्वितीयैव स्यात् । अस्या वैकल्पित्वे पञ्चम्यपि, अस्याश्च नित्यत्वाद्विभक्तित्रयसमावेशो न स्यादिति तदर्थमन्यतरस्यां ग्रहणस्य समुच्चयार्थकत्वमावश्यकमित्याह-अन्यतरस्यांग्रहणं समुच्चयार्थमिति ।
शेखरकृतस्तु-अत्र सूत्रेऽन्यतरस्यांग्रहणस्य न द्वितीयासमुच्चयार्थकत्वं फलाऽभावात् । न च द्वितीयासमुच्चयार्थकत्वे
विना वातं विना वर्ष केनेमो पातितौ द्रुमौ । इत्यत्र द्वितीया भवतीति वाच्यम् । ऋतेशब्दयोग इव ततोऽन्यत्रापि दृश्यते इत्यनेनैव तत्र द्वितीयासिद्धः । अत्र सूत्रे द्वितीयाया असम्बन्धादेव भाष्यकृता नोक्तो द्वितीयासमुच्चयः । यद्यत्र द्वितीयासम्बन्धः स्यात्तदा 'करणे च स्तोकाल्पकृछकतिपयस्येति सूत्रेऽपि पञ्चमीसमुच्चयार्थम्प्रकृताऽन्यतरस्यां ग्रहणस्य सम्बन्धाऽऽवश्यकत्वात्तत्रापि द्वितीयासमुच्चयः स्यादिति तद्भावः । (पञ्चम्या अधिकारे द्वितीयाषष्ठीविषये प्रतिषेधो वक्तव्यः' दक्षिणेन ग्राम दक्षिणतो ग्रामस्येति) भाष्यात् (षष्ठ्यतसर्थप्रत्ययेने)त्यतः प्राक् (एनपा द्वितीये)ति सूत्र. मिति सूचितम् । अन्यथा सूत्रपाठक्रमत्यागे न्यायप्राप्तषष्ट्याः पूर्वनिपाताऽकरणे च न किमपि बीजम् । एवञ्चान्यतरस्यांग्रहणस्य नैव द्वितीयासमुच्चयार्थकत्वमित्याहुरित्यलम् ॥
इति पञ्चमी ।
अथ सम्बन्धकारकप्रकरणम् षष्ठी शेषे। अत्र सूत्रे शेषपदेन कर्मादिभ्यो येऽन्येऽर्थाः स शेष इति भाष्यकृतोक्तत्वात्कारकप्रातिपदिकार्थभिन्नस्य स्वत्वादेर्ग्रहणम् । स च शेषः स्वत्वत्वादिरूपेण सम्बन्धत्वेन रूपेण च षष्टीवाच्यः । राज्ञः पुरुषोऽस्तीत्येतद्वाक्यजन्यशाब्दबोधाऽनन्तरं पुरुषो राजस्वत्ववान्नवेति सन्देहो न भवतीति यथा विशेषरूपेण कल्प्यते तथा राजसम्बन्धी न वेति च सन्देहाऽनुत्पत्त्या सामान्येन सम्बन्धत्वेन रूपेण च शेषस्य षष्ठीवाच्यता कल्प्यते इति भावः । राजनिरूपितस्वत्ववदभिन्नपुरुषकर्तृकसत्तेति बोधः ॥
Aho ! Shrutgyanam