________________
अपादानकारकप्रकरणम् ।
३१
पाणिम्वारयति, कूपाद-धं वारयतीत्यादितः, देवदत्तकर्तृवृत्तिरातपनिष्टपुष्पवृत्तिशुष्कीभावाऽनुकूलव्यापाराऽभावाऽनुकूलव्यापार इति बोधः । पाणिनिष्ठपरस्ववृत्तिसंयोगाऽनुकूलव्यापाराऽभावाऽनुकूलव्यापारो देवदत्तवृत्तिः। अन्धवृत्तिर्यः कूपवृत्त्यधःप्रदेशाऽवच्छिन्नसंयोगाऽनुकूलक्रियारूपपतनाऽनुकूलव्यापारस्तदभावाऽनुकूलव्यापारः कर्तृवृत्तिरिति बोधः । अग्नेर्माणवकं वारयतीत्यतस्तु माणवकवृत्त्यग्निजन्यदाहाऽनुकूलव्यापाराऽभावाऽनुकूलव्यापारो देवदत्तवृत्तिरिति बोधः ॥
अन्तद्धौं येनाऽदर्शनमिच्छति-अन्तद्धिरन्यकर्तृकस्वकर्मकदर्शनाऽभावाऽनुकूलव्यवहितदेशस्थितिरूपस्तघटकं यत्कर्तृकदर्शनाऽभावमिच्छति तदपादानसंज्ञमित्यर्थस्तफलितमाह-व्यवधाने सतीति-येनेत्यत्र कर्तरि तृतीया । नाऽत्र कृद्योगलक्षणा षष्ठी शनीया । उभयप्राप्तौ कर्मण्येव तद्विधानात् प्रत्यासत्या आत्मनोगम्यमानत्वादस्त्युभयप्राप्तिरिति भावः । मातुनिलीयते कृष्णः, मातृकर्तृकस्वकर्मकदर्शनेच्छा कृष्णवृत्तिरिति मातृशब्दादपादानत्वेन पञ्चमी । ननुक्तोदाहरणे व्यवहितदेशस्थितेर्धातुना प्रतिपादनेऽपि कथमिच्छाया लाभ इति चेन्न । आक्षेपेण तल्लाभात् । अन्तद्धौ किमिति । अयम्भावः, सूत्रे तदनुपादाने यत्कर्तृकदर्शनाऽभावमिच्छति तदपादानमित्यर्थं चोरान्न दिदृक्षते इत्यत्र चोरकर्तृकस्वकर्मकदर्शनाऽभावेच्छाया देवदत्तादिवृत्तित्वाचोरशब्दादपादानत्वाऽऽपत्तिः । तदुपादाने तु व्यवधाने सतीत्यस्याऽप्यर्थकुक्षिप्रविष्टत्वेन प्रकृते तदभावानापत्तिरिति । सूत्रे येनेत्यस्याऽभावे स्वकर्मकदर्शनाऽभावं य इच्छति तदपादानमित्यर्थे कर्तु रेवोक्ताऽऽपत्तिस्तत्सत्त्वे तु यत्कर्तृकेत्यर्थघटितोक्तार्थे न कर्तुस्तदापत्तिः। इच्छतिग्रहणाऽभावे यत्र दर्शनाऽभाव एव तत्रैवाऽपादानसंज्ञा स्यात् । तद्ग्रहणसत्वे तु अदर्शनेच्छाया तदनुकूलव्यापारकरणे दैववशाद्दर्शने सत्यप्युक्तसंज्ञा भवतीत्यलम् ॥
अन्यारादिति--अत्राऽन्येत्यर्थग्रहणं तेनाऽन्यार्थकशब्दयोगे पञ्चमीति तदर्थः । अन्यार्थश्च भेदाऽऽश्रयो नतु भेदमात्रम् । अत एव घटाद्भिन्न इत्याधुपपत्तिः । शेखरकारास्तु-'पञ्चमी विभक्तरित्यत्रविभागार्थकविभक्तपदेन भेदस्य व्याख्यानात् 'ध्रुवमपाये' इति सूत्रे अपायशब्देन भेदस्याऽपि ग्रहणादपादाने पञ्चमीत्येव पञ्चमीसिद्धावन्येत्यर्थग्रहणमनादे.. यमित्याहुः ॥
ननु सहाञ्चतीति सध्यङित्यत्र पञ्चम्यभावाय दिकशब्दसाहचर्येण दिग्वाचकस्यैवाऽञ्चूत्तरपदकस्य ग्रहणादिक्शब्दयोगे पञ्चमी विधानादेवाऽञ्चूत्तरपदकयोगेऽपि पञ्चमी विधानसुलभत्वेन सूत्रे पृथगत्तरपदग्रहणम्व्यर्थमित्यत आह-श्रञ्चुत्तरपदस्येति ॥
प्रभृतियोगे पञ्चमीति-प्रभृत्यर्थयोगे ऽपि पञ्चमीति तदर्थः । अपादाने पञ्चमीति सूत्रस्थं भाष्यमेवाऽत्र प्रमाणम् । तत्र हि (यतश्चाऽध्वकालनिर्माणं ततः पञ्चमी कार्तिक्या आग्रहायणी मास) इति वार्तिकं प्रत्याख्यातुम् (इदमत्र प्रयोक्तव्यं सन्न प्रयुज्यते कार्तिक्याः प्रभृत्याग्रहायणीमास) इत्युक्तम् । प्रभृतिशब्दाऽभावेऽपि तदर्थसत्तामात्रेण पञ्चमीत्यर्थकेनाऽनेन भाष्येण प्रभृत्यर्थयोगे पञ्चमीति वचनं बोध्यते । अन्यथा प्रभृतिपदाऽभावादुक्तवार्तिकस्य पञ्चम्यर्थमावश्यकत्वेन तत्प्रत्याख्यानमसंगतं स्यात् । एवञ्च मेरुपष्ठादारभ्य ध्रुवपर्यन्तं ग्रहनक्षत्रतारागणचित्रितोऽन्तरिक्षलोक इत्यत्र प्रभृत्यर्थकाऽऽरभ्यशब्दयोगेऽपि प.
Aho ! Shrutgyanam