________________
फक्किकारत्नमञ्जूषा।
ऽपादानत्वकरणत्वयोः प्राप्तौ परत्वात्करणत्वस्यैव प्रवृत्तेः । ननु विभागाऽनुकूलव्यापारस्य त्यजधात्वर्थत्वेन तद्योगे ऽप्यपादानत्वप्रसक्तेर्दुर्वारत्वावृक्षं त्यजति खग इति प्रयोगो न स्यादिति चेन्न । तत्र व्यापारव्यधिकरणविभागस्यैव धात्वर्थत्वात्कर्मसंज्ञयाऽपादानत्वस्य बाधेन तथा प्रयोगोपपत्तेः । विभागाऽनुकूलव्यापारस्य स्पन्दधात्वर्थत्वेन तयोगेऽपादानत्वं नाशयम् । उक्तधातोर्विभागार्थत्वाऽनङ्गीकारादिति वृक्षे स्पन्दते इत्येव भवति । चलधातोविभागार्थत्वात्तद्योगेऽपादानत्वस्य सौलभ्येनाऽऽसनाच्चलित इति प्रयोगो भवत्येव । ननु सार्थस्य धात्वर्थप्रधानव्यापाराश्रयत्वादपादानत्वप्रसक्त्या सार्थाद्धीयते इति प्रयोगो नोपपद्यतेति चेन्न । (अपादाने चाहीयरहोरि)ति ज्ञापकात्कर्मप्रत्ययान्तहाधातुप्र. योगेऽऽपादानत्वस्य ज्ञापनेन तदुपपत्तेः । कर्मसंज्ञायां कर्तृपदस्य स्वतन्त्रोपलक्षणत्वेन कर्मणि लकारे सार्थेन त्यज्यते देवदत्त इत्यर्थ इत्याहुरिति दिक ॥ ___ ननु विभागस्य संयोगपूर्वकविश्लेषरूपत्वेन तस्याऽत्राऽसत्त्वावुद्धिकृतस्य विभागस्य गौणत्वेनाऽग्रहणाञ्च सूत्रेणाऽप्राप्त्या वार्तिकमिदमावश्यकमित्याह-जुगुप्साविरामेति । जुगुप्सा, निन्दा, विरामो विरतिः प्रमादोऽनवधानता, जुगुप्साद्यर्थकधातूनां प्रयोगे जुगुप्सादीनां यद्विषयकत्वेन विवक्षा तदपादानमिति तदर्थः । तस्यैवं विषयस्य क्रियाजनकत्वरूपकारकत्वेनाऽविवक्षायां सम्बन्धित्वेन च विवक्षायां पापस्य जुगुप्सते इति भवत्येव । एषां धातूनां स्वार्थविशिष्टबौद्धविश्लेषजनकनिवृत्तौ लक्षणया अपदाने पञ्चमीत्येव सिद्धौ वावार्तिकमिदमुत्तरसूत्राणि च नावश्यकानीत्युक्तं भाष्ये ॥
भीत्रार्थानां भयहेतुः--भयं भीस्त्राणं त्राः, क्विबन्तावेतौ, धातुनिर्देशे तु व्यधिकरणबहुव्रीहिराश्रयणीयः स्यात् । भीश्चत्राश्च भीत्रौ तावों येषान्ते भीत्रार्थास्तेषां भीत्रार्थानामित्येतत्फलितमाह-भयार्थानामिति । हेतुतृतीयाऽपवादभूतोऽयं योगः । ननु भयार्थकधातुयोगे भयहेतोरपादानत्वविधानात् ॥
कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे। इति रामायणीयपद्ये कस्येति भयहेतोरपादानत्वप्रसक्त्या ततः कथं षष्ट्युपपत्तिरिति चेन्न । कस्येत्यस्य संयुगेनाऽन्वयात्तस्य भयहेतुत्वाऽभावेनाऽपादानत्वाऽप्रसक्तया तदुपपत्तेः। न च संयुगस्याऽपादानत्वाऽऽपत्तिरिति वाच्यम् । अधिकरणसंज्ञयाऽपादानसंज्ञाया बाधे. नोक्तापत्तेरयोगात् । अधिकरणत्वाऽविवक्षायामिष्टाऽऽपत्तिरेव पञ्चम्या इति बोद्धयम् । सूत्रे भीत्राथेंत्यस्याऽसत्त्वे व्याघ्रं पश्यतीत्यादावपादानत्वाऽऽपत्तिः । न च कर्मसंज्ञयोऽपादानत्वबाधेन नोक्ताऽऽपत्तिरिति वाच्यम् । कर्मत्वाऽविवक्षणे शेषषष्टी बाधित्वा पञ्चम्यापत्ते. १र्वारत्वादित्यलम् ॥ ___ वारणार्थानामीप्सितः-वारणं प्रवृत्तिविधातः सोऽर्थो येषां ते तथोक्तानाम् । ईप्सितशब्दस्य वारणार्थधात्वर्थफलाश्रयोऽर्थः । यथा च, प्रवृत्तिक्रियाप्रतिषेधाऽनुकुलव्यापाररूपवारणार्थकधातुयोगे जन्यफलभागित्वेन तत्क्रियाकर्तुरीप्सितस्याऽपादानत्वमिति सू. त्रार्थः । यवेभ्यो गां वारयतीत्यादौ वारिधात्वर्थव्यापारजन्यसंयोगादिरूपफलाश्रयत्वाद्य. वादीनामपादानत्वात्तेभ्यः पञ्चमी । देवदत्तकर्तृवृत्तियवप्रतियोगिकविनाशाऽनुकूलभक्षणरूपव्यापाराऽभावाऽनुकूलो व्यापार इति बोधः । एवं पुष्पेभ्य आतपं नाशयति, परस्वेभ्यः
Aho ! Shrutgyanam