________________
अपादानकारकप्रकरणम् ।
व्यापारोऽपायशब्दार्थः । तथा च, विभागजनकव्यापारे ध्रुवं स्थिरं उक्तव्यापाराऽनाश्रयमिति यावत । यत्तदुपादानसंज्ञकं भवतीति सूत्रार्थः । भाष्ये माथुराः पाटलिपुत्रकेभ्य आ - रा इत्यादौ बुद्धिपरिकल्पितमपादानमाश्रित्यैव पञ्चमी साधनेन बुद्धिपरिकल्पित सम्बधपूर्वको बुद्धिपरिकल्पितोऽपि विभागो गृह्यते न केवलो वास्तवसम्बन्धपूर्वको वास्तव ति बोध्यम् । तथा च प्रकृतधातूपात्तविभागजनकव्यापारानाश्रयत्वे सति प्रकृतधास्वर्थ विभागाश्रयत्वमपादानत्वमिति फलितम् । सूत्रे ध्रुवग्रहणाभावे पचत्यादियोगे कर्तृसंज्ञायाश्चारितार्थ्येन, अपायविषये यत्कारकं तदपादानमित्यर्थ सम्भवेनापादानसंज्ञायाः कर्तृ संज्ञापवादत्वेन कर्त्तुरपादानत्वाऽऽपत्तिरिति तद्व्यावृत्यर्थं ध्रुवग्रहणमित्यवसेयम् । उक्तञ्च हरिणा
अपाये यदुदासीनं चलं वा यदि वाऽचलम् । ध्रुवमेव तदावेशात्तदपादानमुच्यते ॥
इति कैयटादयः
२९
शेखरकृतस्तु — उक्तरीत्या ध्रुवपदस्य निश्चलार्थकत्वेन त्रस्तादश्वात्पतति ( १ )धावasarत्पततीत्यादौ त्रासधावनाऽऽश्रयत्वेनाऽनिश्चलत्वाद्ध्रुवत्वाऽभावेनाऽश्वस्याऽपादानत्वं न स्यादिति पूर्वपक्षं विधायात्राऽध्रौव्यमविवक्षितं यतः सतोऽप्यविवक्षा भवतीति समाहितम्भाष्ये । अत्र पतधात्वर्थव्यापाराऽऽश्रयत्वरूपत्वदुक्ताऽध्रुवत्वस्याऽसत्त्वेन सतोऽधौव्यस्याऽविवक्षेति भाष्योक्तिरसङ्गतिमापद्येत । सिद्धान्तेऽपि त्वदुक्तध्रुवपदार्थकथनस्यैवौचित्येन भाष्योक्तस्याऽसङ्गतिः । लोकसिद्ध निश्रलाऽतिरिक्तेऽर्थे ध्रुवपदस्य शक्तिकल्पने गौरवञ्च । नचान्यविधध्रुवत्वाऽभ्युपगमे अतदावेशादिति हरिकारिकाया असङ्गतिरिति वाच्यम् । तत्रातदावेशादित्यस्य तदावेशाऽविवक्षणादित्यर्थेन तत्सङ्गतेः । अतोऽपाये गतिविशेषे सति यत् ध्रुवमवधिभावोपगमाश्रयत्वे सति अवधिभावोपगमातिरिक्तस्याऽधत्वोपयोगि व्यापारस्याऽनाऽऽश्रयं तदपादानमिति सूत्रार्थः । त्रासादेरवधित्वोपयोगित्वाऽऽश्रयणादश्वस्याऽपादानत्वं न स्यादिति पूर्वपक्ष: । वृक्षात्पर्ण पततीत्यादौ श्रासादेरसत्त्वान्न तस्याऽवधित्वोपयोगित्वमिति समाधानम् । वृक्षस्य पर्ण पततीत्यादौ वृक्षस्य पर्णद्वारा पातजनकत्वेन प्राप्ताऽपादानत्वव्यावृत्त्यर्थं ध्रुवमपाये इति । सत्येवं अपायपदं कारके इत्यस्य क्रियाजनकत्वेन विवक्षित इत्यर्थे तात्पर्य ग्राहकं बोध्यम् । ननु मेषपदोपात्तयोरेव परस्परशब्दार्थत्वात्तयोरवधिभावोपगमातिरिक्तव्यापाराऽनाश्रयत्वाऽभावेन परस्परान्मेषा - वपसरत इत्यत्राऽपादानत्वाऽनुपपत्तिरिति चेन्न । वाचकशब्दरूपोपाधिगतभेदस्य वाच्यार्थे आरोपात्तयोरप्यर्थयोर्भेदेन तदुपपत्तेः । त्रासाऽश्रयाऽभिन्नाऽश्वाऽपादानिका देवदत्तकर्तृवृ त्तिपतनक्रियेति प्रथमवाक्याद्बोधः । धावनकर्त्रभिन्नाश्वापादानिका देवदत्तकर्तृवृत्तिः पतनक्रियेति बोधः । कुड्यापादानकपातकर्त्रभिन्नाऽश्वाऽपादानिका देवदत्तकर्तृवृत्तिपातक्रियेति तृतीयतो बोधः । अन्यतरमेषाऽपादानिकान्यतरमेषकर्तृकाऽपसरणक्रियेति चतुर्थतो बोधः । ननु विभागाश्रयस्याऽपादानत्वविधानाद्वयधधात्वर्थे विभागस्य प्रवेशात्तद्योगे धनुषा वि"ध्यतीत्यत्राऽपादानत्वं दुर्वारमिति चेन्न । व्यधधातोर्निःसरच्छरजन्यवेधार्थत्वेन तद्योगे -
( १ ) आदिपदेन कुड्यात्पततोऽश्वात्पततीत्यपि बोध्यम् ।
Aho! Shrutgyanam