________________
फक्किकारलमञ्जूषा |
क्रियार्थोपपदस्य च कर्मणि स्थानिनः -- क्रिया अर्थः फलं यस्य तत्क्रियार्थं तेन स्ववाचकं लक्ष्यते क्रियाफलार्थवाचकमुपपदं यस्य स तथोक्तस्तस्य क्रियार्थोपपदस्य, अर्थश्व प्रत्यासच्या क्रियारूप एव गृह्यते स्थानिनुशब्दस्याऽप्रयुज्यमानवाचित्वमिति व्याकरणशास्त्रे प्रसिद्धं तथा च यत्फलितन्तदाह- क्रियार्था क्रिया उपपदं यस्येत्यादि । फलेभ्यो यातीत्यादितः फलकर्मकाऽऽहरणफलकं यानमित्यादिक्रमेण बोधः । यथा वाक्यार्थे वाक्यैकदेशप्रयोगस्थले प्रविश पिण्डीमित्यादौ तस्यैव पदस्य सकलवाक्यार्थशक्तत्वं तथा प्रकृतेऽस्य समुदायस्याऽऽहरणघटितोक्तार्थं शक्तिरेतच्छास्त्रबलादिति बोध्यम् । सूत्रे स्थानिन इत्युक्त्या तुमुनः प्रयोगे न चतुर्थी । पिण्डीमित्यादावप्रयुज्यमानभक्षण क्रियाकर्मणि चतुर्थीवारणाय क्रियार्थोपपदस्येति पदमिति दिक् ॥
२८
ननु 'नमः स्वस्ती' त्यनेन नमः शब्दयोगे चतुर्थीविधानान्नमस्करोति देवानित्यादौ नमः शद्वयोगे चतुर्थी कुतो नेत्याशङ्कय समाधत्ते – उपपदविभक्तेरिति । सहयुक्तेऽप्रधा इति सूत्रभाष्ये प्रधाने प्रथमां साधितुमप्रधानग्रहणं प्रत्याख्यातुञ्च वचनरूपेण पठितेयम् । नमःस्वस्तीत्यन्नत्ययोगग्रहणेन ज्ञापितेयमित्याहुः केचित् । क्रियाकारकयोः सम्बन्धोऽन्तरङ्गस्तन्निमित्तिका विभक्तिरन्तरङ्गा, उपपदार्थेन तु यत्किञ्चित्क्रियाकारकभावमूलकः सम्बन्ध इति तन्निमित्तिका विभक्तिरपि बहिरंगेत्येतन्मूलिकेयमित्याहुः -- कैयटादयस्तन | नमस्करोति देवानित्यादौ क्रियाकारकभावेनैवान्वये परत्वाच्चतुर्थीमाशंक्यानया वारणस्य भाष्योक्तव्याऽसङ्गत्यापत्तेः । कारकविभक्तित्वञ्च क्रियाजनकत्वसमानाऽधिकरणकर्त्रादिषट्काऽन्यतमत्वम् (अभिहिते प्रथमे ) ति वार्त्तिकस्वारस्यादन्याऽभिहिताऽनुद्भूतकर्त्राद्यन्यतमार्थत्वं प्रथमाया अपीति तस्या अपि कारकविभक्तित्वमित्यवसेयम् । यथा arfararat faciaविभक्तेश्चैकस्यैव द्वित्वस्य बोधस्तथैव देवदत्तः पचतीत्यादौ उभाभ्यां कर्तृभ्यामेकस्यैव कर्तृत्वस्य बोधो नतु कर्तृत्वबोधाssवृत्तिरिति बोध्यम् - वस्तुतस्तु सूत्रेऽर्थवन्नमः शब्दस्य ग्रहणात्प्रकृतेऽर्थवन्नमः शब्दयोगाऽभावान्न चतुर्थीशङ्काकलङ्ककणिकावर इति दिक् ॥
मन्यकर्मण्यनादरे विभाषाऽप्राणिषु – अप्राणिष्वित्यस्य प्राणिवजेत्यर्थः । तच्च मन्यकर्मविशेषणं, तथाच प्राणिवर्जे मन्यतेः कर्मणि चतुर्थी वा स्यात्तरस्कारे इति तदर्थः । तन्त्राऽनादर इत्यस्य तिरस्कारोऽर्थः । तथाहि, अनादरो नाऽऽदराऽभावमात्रमपितु अधर्मादाविव नमो विरुद्धवाचित्वात्तिरस्कार इति । तत्राऽनारद इति मन्यकर्मविशेषणम् । नानादरद्योत मन्यतेः कर्मणीत्यर्थः फलितः । तिरस्कारश्च व्याख्यानादपकृष्टनिरूपितो. पमेयत्वस्याप्यभावरूप उपमेयेऽत्र गृह्यते नत्वपकृष्टसादृश्यरूपः तत्प्रतीतिश्च नञ् समभिव्याहर लम् |
इति चतुर्थी ।
अथापादानकारकप्रकरणम् ।
ध्रुवमपायेऽपादानम् - धुगतिस्थैय्र्ययोरित्यस्मात्कुटादेः पचाद्यचि, ध्रुव स्थैय्यः इति पाठे तु इगुपधलक्षणे के वा निष्पन्नस्य ध्रुवशब्दस्य स्थैर्यार्थकत्वम् । विभागजनक
Aho! Shrutgyanam