________________
संप्रदानकारकप्रकरणम् ।
ताय शतं धारयति ग्रामे अत्र ग्रामस्याऽपि सम्प्रदानत्वापत्तिः । न च परत्वादधिकरण. संज्ञैव स्यादिति वाच्यम् । सत्येवमुत्तमणेऽपि हेतुसंज्ञापत्तेर्दुर्वारत्वात् । तस्मादुत्तमर्गन. हणाऽभावे हेतुसंज्ञाया इवाऽधिकरणसंज्ञाया अप्यपवादभूतेयं सम्प्रदानसंज्ञा स्यादिति तव्यावृत्त्यर्थमुत्तमर्णग्रहणमिति दिक् ॥
स्पृहेरीप्सितः-अत्रसूत्रे ईप्सितपदमिच्छाविषयपरं तथा च स्पृहयतेः प्रयोगे इच्छाविषयः सम्प्रदानसंज्ञको भवतीत्यर्थः । पुष्पेभ्यः स्पृहयति । स्पृहयतिरिच्छामात्रवाची, फलावच्छिन्नेच्छावाची च । आद्य सम्प्रदानत्वं तत्प्रागेवोदाहृतम् । अन्त्ये कर्मत्वं पुष्पाणि स्पृहयताति यथा, इत्येवाह मूले-प्रकर्षविवक्षायां तु परत्वात्कर्मसंज्ञेति । फलाश्रयत्वेन विवक्षायामित्यर्थः । अस्य सूत्रस्य क्रियाजनकत्वमात्रविवक्षायां चारितायेन परत्वात्कर्मसंज्ञेति तद्भावः । पुष्पसम्प्रदानकेच्छेति चतुर्थासमभिव्याहारे पुष्पकर्म केच्छेति द्वितीयासमभिव्याहारे च बोधः । ननु स्पृहयतेः प्रयोगे सम्प्रदानत्वविधानात्
___ कुमार्य इव कान्तस्य त्रस्यन्ति स्पृहयन्ति च । इत्यनुपपन्नमिपि चेन्न । क्रियासम्बन्धित्वमात्रविवक्षायां षष्ट्या तदुपपत्तेः ॥
क्रुधद्रुहेाऽसूयार्थानां यं प्रतिकोपः- एपामर्थ इवाऽर्थो येषां ते तथोक्तास्ते. षाम् । विषयतया क्रुधार्थानां धातूनां प्रयोगे तन्मूलभूतकोपसम्बन्धिनः सम्प्रदानसंज्ञेति तदर्थः। तेषु क्रुधनुहोरकर्मकत्वात्षष्टयां प्राप्तायामितरयोः कर्मसंज्ञायां प्राप्तायां वचनमिदम् । क्रोधश्चाऽमर्षरूपो मनसो वृत्तिविशेषः उत्कर्षविरोधिधर्मारोपाऽनुकूलव्यापारात्मकः । द्रोहश्वाऽपकाररूपः । सच तदीयगुणे दोषत्वारोपाऽनुकूलव्यापाररूपः । इति क्रोधद्रोहयो दः । ईर्ष्या अक्षमा साच परकीयपाण्डित्यादिगुणानामसहनं तच्च गुणादिज्ञानजन्यद्वेषात्मकम् । असूया च गुणेषु दोषतादात्म्यारोपः । इति द्रोहादस्य भेदः । हरये ऋध्यतीत्यादि । हरिसम्प्रदानकः क्रोधः । हरिसम्प्रदानको द्रोहः । हरिसम्प्रदानिका ईर्ष्या । हरिसम्प्रदानिका असूयेति बोधः । ननु कुपक्रोधे इत्यनुशासनात्कोपस्यैव क्रोधपदार्थत्वात्कोधस्य कोपप्रभवत्वमनुपपन्नमिति चेन्न । वाक्चक्षुरादिविकारानुमेयप्ररूढकोपस्यैवाऽत्र क्रोधपदार्थत्वेन तस्य कोपप्रभवत्वोपपत्तेः । एवञ्च कोपक्रोधयो दान्न कुपधातुयोगे सम्प्रदानत्वम् । अत एव कुप्यति कस्मैचिदित्याद्यसाध्वेवेत्यलम् ॥
तादयें चतुर्थी-तादर्थ्यमुपकार्योपकारकभावरूपः सम्बन्धः । तस्मिन् गम्यमाने उपकार्योपकारकवाचकाच्चतुर्थीति तदर्थः । मुक्तये हरिं भजतीत्यादितो मुक्तिरूपोपकार्योपकारकं हरिकर्मकं भजनमित्यादिक्रमेण बोधः । उक्तरूपः सम्बन्धोऽनेकविधो नतु कार्यकारणभावरूप एव । अत एव ब्राह्मणाय दधीत्यादयोऽपि प्रयोगा उपपद्यन्ते । उक्तरूपतादर्थ्यस्य सम्बन्धत्वेन विवक्षायां षष्ठ्येव । स्पष्टमिदं गुरोरिद गुर्वर्थमित्यत्र भाष्ये ॥
क्लुपि सम्पद्यमाने च-क्लपीति सप्तमी नत्विका निर्देशः । अत्राऽर्थग्रहणं सम्पूर्वकस्य पद्यतेरुत्पत्त्यर्थः, तथाच क्ल्टप्त्यर्थकधातुयोगे उत्पद्यमानेऽर्थे वर्तमानाद्विकृतिवाचकात्प्रातिपदिकाच्चतुर्थीति वार्तिकार्थः । भक्तिर्ज्ञानाय कल्पते ज्ञानरूपेण परिणमते इत्यर्थः । अत एव प्रकृतिविकृत्योर्मेदविवक्षायां विकृतिवाचकाच्चतुर्थी तयोरभेदविवक्षायां तु परत्वात्प्रथमैव, भक्तिर्ज्ञानं कल्पते इत्यलम् ॥
Aho ! Shrutgyanam