________________
२६
फक्किकारत्नमञ्जूषा।
तिसमानाधिकरणव्यापारो हरिनिष्ट इत्युभयोः समानार्थकत्वाऽभावान्नाऽभिलपतियोगे सम्प्रदानसझेति समाधातुराशयः । एवं समवायसम्बन्धावच्छिन्नप्रीत्यनुकूलप्रीतिव्यधिकरण. व्यापारार्थकप्रीधातुयोगे हरि प्रीणयति भक्तिरित्यत्रापि न सम्प्रदानसंज्ञा । रुचधातुसमानार्थत्वाभावात् प्रीयमाण इति निर्देशेन प्रीधातुयोगे तदभावकल्पनाच्चेत्यलम् ॥
प्रीयमाणः किम् । देवदत्ताय रोचते मोदकः पथीति-ननु प्रीयमाणपदाऽभावे क्रियाजनकत्वमात्रविवक्षायां सूत्रस्य चारितार्थ्यात्सम्प्रदानसंज्ञायां मन्दं प्रवृत्तस्य तस्य परत्वादधिकरणसंज्ञया बाधेन प्रत्युदाहरणे न काचिदनुपपत्तिरिति चेन्न । देवदत्तं रोचते मोदकः पथीत्यस्यापत्तिरिति प्रत्युदाहरणस्याशयात् । प्रीयमाणपदसत्त्वे तु कर्मसंज्ञाया अस्यापवादत्वेन न दोष इति भावः ॥
श्लाघहनुस्थाशपां ज्ञीप्स्यमानः-एषां धातूनां प्रयोगे बोधनेच्छाविषयीभूतः सम्प्रदानसंज्ञको भवतीत्यर्थः । बोधविषया स्तुतिः श्लाघतेरर्थः । गोपी स्मरात्कृष्णाय श्लाघते इति । स्मरादिति हेतौ पञ्चमी, तथाच, गोपीकर्तृका स्मरहेतुका कृष्णसम्प्रदानिकात्कृिष्णबोधवृत्तिविषया स्तुतिरिति बोधः । बोधविषयमितरादर्शनयोग्यदेशस्थापन ह्नतेरर्थः । आत्मानमित्यध्याहारः । तथा च, गोपीकर्तृका स्मरहेतुका कृष्णवृत्तिबोधविषया आत्ममिका इतरादर्शनयोग्यदेशस्थापनाऽनुकूला क्रियेति बोधः । तिष्ठत इति । गोपीकर्तका स्मरहेतुका कृष्णसम्प्रदानिका स्वाभिप्रायबोधाऽनुकूला स्थितिक्रियेति बोधः । शपत इति । गोपीकर्तृका स्वरहेतुका कृष्णसम्प्रदानिका स्वाऽभिप्रायबोधाऽनुकूला शप. थक्रियेति बोधः ।
शेखरकृतस्तु-स्तुत्यादिना बोधनं श्लाघादेरर्थः । तथाच स्तुत्या आत्मानुरागं कृष्ण बोधयतीत्यर्थः । एवं झुत्या स्थित्या शपथेन च आत्मानुरागं कृष्णं बोधयतीत्यर्थः । यद्वा स्तुत्या हुत्या च कृष्णं स्वसखीजनं बोधयतीत्यर्थः । एतत्सूत्रघटकज्ञीप्स्यमानपदे ण्यर्थकर्मणः प्रकृत्यर्थकर्मणश्च ग्रहणम् । श्लाघादेः स्तुत्यादिमानार्थकत्वे कृष्णं श्लाघते हत इत्येव, जीप्स्यमान इति ज्ञापनवचनाज्ज्ञपेः सन्नन्तात्कर्मणि शानजित्याहुः ।
धारेरुत्तमर्णः-धारयतेः प्रयोगे उत्तमर्णः सम्प्रदानसंज्ञको भवतीत्यर्थः । अत्र सूत्रे धारेरिति शृङ् अवस्थाने इति ण्यन्तस्य ग्रहणम् , नतु ण्यन्तस्य धूमः, तथा सति मोक्षस्य धात्वर्थकर्तृत्वानापत्तेः, ञः सकर्मकत्वेन मोक्षस्य कर्मत्वानापत्तेश्च, धुडो ग्रहणे तु तस्याऽकर्मकत्वादण्यन्तकर्तुर्मोक्षस्य णौ 'गतिबुद्धि' सूत्रेण कर्मत्वमुपपद्यते । भक्ताय धारयति मोक्षं हरिरिति । स्थापनानुकूलव्यापारोऽत्र धारिधात्वर्थः । तथा च भक्तसम्प्रदानको हरिकर्तृको मोक्षकर्मकाऽवस्थापनानुकूलव्यापार इति बोधः । ननु भक्तस्य कारकत्वाऽभावात्सम्प्रदानसंज्ञा न स्यादिति चेन्न । भक्ताऽसत्त्वे प्रेरणाया अभावात्प्रेरणाजनकत्वेन भक्तस्य कारकत्वाक्षतेः । ननु मोक्षस्य ऋणत्वे सत्येव भक्तस्य तत्स्वामित्वादुत्तमर्णत्वेन संप्रदानत्वं स्यात्परं मोक्षस्य ऋणत्वमेव न, ऋणं हि नाम यत्र सजातीयदानमश्रीकृत्य परदत्तद्रव्यादानानन्तरं तदुत्तरकालिकगृहीतद्रव्यसजातीयद्रव्यदाननाश्योऽदृष्टविशेषः प्रकृते मोक्षस्यैवंविधऋणत्वाऽभावेन भक्तस्योत्तमर्णत्वाऽसम्भवादिति चेन्न । अवश्यदेय. त्वमात्रेण मोक्षेऽपि ऋणत्वव्यवहारस्य मुलभत्वात् । अत्र सूत्रे उत्तमर्णग्रहणाभावे देवद
Aho! Shrutgyanam