________________
संप्रदानकारकप्रकरणम् ।
कौतेति किम्-अयम्भावः, सूत्रे कर्मणेत्यनुपादाने का क्रियया सम्बधुमिष्यमाणस्य सम्प्रदानत्वमित्यर्थे विप्राय गां ददातीत्यादौ गोरूपकर्मणोऽप्युद्देश्यत्वात् अर्थादेवदत्तकर्तृवृत्तिदानक्रियया सम्बन्धेच्छाविषयीभूतत्वात्सम्प्रदानत्वापत्तिः । न च कर्मसं. ज्ञाया अनवकाशत्वाद् गोः कर्मसंज्ञैव स्यान्न सम्प्रदानसझेति वाच्यम् । सम्प्रदानसंज्ञायाः कर्मसंज्ञया सह पर्यायतया विधानेन कर्मसंज्ञायाः सावकाशत्वात्तया सम्प्रदानसंज्ञाया अबाधेन दोषस्य तादवस्थ्यात् । अतः कर्मणेत्यस्योपादानमावश्यकं, सति तस्मिन् गोरूपो. द्देश्यत्वाऽभावात्तेनैव सम्बद्धमिष्यमाणस्य सम्प्रदानत्वेन न तस्याऽऽपत्तिलेषोऽपीति दिक् ॥ __ यं स ग्रहणं किमिति-सूत्रेऽनयोरनुपादाने क्रियाकर्मणा योऽभिप्रेति ब्राह्मणादिः तस्यैव सम्प्रदानत्वापत्तिः । न च कर्तृसंज्ञाया निरवकाशत्वेन तयोक्तसंज्ञाबाधेन नाऽऽपत्तिरिति वाच्यम् । अकर्मकधातुविषये कर्तृसंज्ञायाः सावकाशत्वेन तया सम्प्रदानसंज्ञाबाधानापत्त्या पूर्वोक्ताऽऽपत्तेस्तादवस्थ्यात् । न च कर्त्तः कर्तृत्वाऽभावेन गोः कर्मत्वमेव न स्यादिति वाच्यम् । कर्मसंज्ञायां कर्तृग्रहणस्य स्वतन्त्रोपलक्षणत्वेनादोषात् । अत एव लार्थाद्धीयते इत्यत्र कर्तुरपादानत्वेऽपि कर्मणि लकारसिद्धिः । एवञ्च यं स ग्रहणमावश्यकमिति भावः ॥
ननु सूत्रे कर्मणेत्युक्तावकर्मकक्रियोद्देश्यस्य सम्प्रदानत्वं न स्यादित्यत आह-क्रियया यमभिप्रेति सोऽपि सम्प्रदानमिति-कर्मरहितक्रिययेति तदर्थः । सकर्मकेषु कर्मसंज्ञा सम्प्रदानसंज्ञाया बाधिका स्यादित्याह-पत्ये शेत इति-उद्देश्यत्वं चतुर्थ्यर्थः । पत्युद्देश्यकशयनकी पत्नीति बोधः । न च तादर्थ्यमुपकार्योपकारकभावरूपः सम्बन्धः । दानादयोऽपि सम्प्रदानत्वेनाऽभिप्रेतविप्राद्यर्था एवेति तादर्थ्यचतुर्येव सिद्धौ ‘चतुर्थी सम्प्रदाने' इदं सूत्रं व्यर्थमेवेति वाच्यम् । 'दाशगोप्नौ सम्प्रदाने' इत्येतदर्थन्तस्याऽऽवश्य. कत्वात् । सम्प्रदाने कारके दाशगोताविति निपात्येते इति सूत्रार्थः । चतुर्थी सम्प्रदाने इत्यस्यासत्त्वे दाशगोध्नाविति सूत्रे सम्प्रदानपदेन कारकग्रहणं न स्यादित्येतदर्थं तदावश्यकमिति भावः । अत एव मूले दाशन्ति तस्मै दाशः । गां हन्ति तस्मै गोनोऽतिथिरिति तयोरर्थः प्रतिपादितः । न च दाशगोन्नावित्यत्र सम्प्रदानशब्दस्य सम्यक् प्रदीयते यस्मै तत्सम्प्रदानमित्यर्थकल्पनया नैतत्सुत्राऽनुपपत्तिरिति वाच्यम् । उक्तरीत्योक्तसूत्राऽनुपपत्तिपरिहारेण तदनावश्यकत्वेऽपि तत्सम्प्रदानकं दानमिति बोधार्थ चतुर्थी सम्प्रदाने इत्यस्यावश्यकत्वात् । सम्प्रदानसज्ञासत्त्वे विप्रसंप्रदानकं गोकर्मकं दानमिति बोधः । तादय॑चतुझं विप्राथं गोकर्मकं दानमिति बोध इत्येवमनयो दो बोध्यः ।।
ननु अभिलषते रुचधातुसमानार्थकतया हरये रोचते भक्तिरित्यत्रेव हरिभक्तिमभिलष्यतीत्यत्राप्यर्थग्रहणसामर्थ्यात्परामपि कर्मसज्ञां बाधित्वा सम्प्रदानसञ्ज्ञा कुतो नेत्याश
य समाधत्ते-अन्यकर्त्तकोऽभिलाषो रुचिरिति । अभिलषतिकपेक्षया यदन्यदभिलपतिकर्म तत्कर्तका रुचिरिति तदर्थः । यत्किञ्चिन्निष्टप्रीत्यनुकूलप्रीतिव्यधिकरणव्यापारो रुचधात्वर्थ इति फलितम् । यत्कञ्चिद्विषयकप्रीत्यनुकूलप्रीतिसमानाधिकरणव्यापारोऽभिलषतेरर्थः । तथाच हरये रोचते भक्तिरित्यत्र हरिनिष्ठप्रीत्यनुकूलप्रीतिव्यधिकरणव्यापारो भक्तिनिष्ठ इति सम्प्रदानसंज्ञा जाता। हरिभक्तिमभिलष्यतीत्यत्र तु भक्तिविषयकग्री
३ फ० म०
Aho! Shrutgyanam