________________
फक्किकारलमञ्जूषा |
व्यर्थमित्याशङ्कय हेतुत्वकरणत्वयोर्भेदप्रदर्शनेन समाधत्ते - द्रव्यादिसाधारणमिति-आदिपदेन गुणक्रिययोर्ग्रहणं तथा च द्रव्यगुणक्रियाऽन्यतमत्वे सति नियतव्यापाररहितत्वं हेतुत्वम् । द्रव्याद्यन्यतमत्वे सति नियतव्यापारसहितत्वं करणत्वमिति लक्षणं पर्य्यवसितम् । हेतोरुदाहरणं दण्डेन घट: दण्डहेतुको घट इत्यर्थः । अन्न दण्डस्य व्यापारवत्वेऽपि क्रियाजनकत्वाभावान्न करणत्वम् । करणस्योदाहरणं पुण्येन दृष्टो हरिः । पुण्यकरणकं हरिदर्शनमित्यर्थः । अत्र पुण्यस्य क्रियाजनकत्वेऽपि व्यापाररहितत्वमिति हेतुकरणयोर्भेदन करणतृतीया हेतुतृतीयाया अगतार्थत्वाताविति सूत्रमावश्यकमिति भावः ॥
ननु अलं श्रमेणेत्यादौ क्रियावाचकपदासत्वेन क्रियाया अप्रतीत्या करणत्वाऽभावातृतीया न स्यादित्याशङ्क्य समाधत्ते - गम्यमानापि क्रियेत्यादि - श्रमेणेत्यादिपदजन्यबोधविषयाऽपीति तदर्थः । नतुचार्य्यमाणक्रियावाचकपदजन्यबोधविषयैवेति तदाशयः । अलं शब्दस्य निषेधोऽर्थः । श्रमेण साध्यं नास्तीत्यर्थः । वाक्यैकदेशस्य प्रयोगेण साधनक्रियाम्प्रति श्रमस्य करणत्वात्तृतीयेति । न च साध्यमित्यर्थज्ञानेऽपि साध्यमित्यस्य श्रमेणेति सुबन्तार्थत्वेन क्रियात्वाऽभावात् कथं श्रमस्य करणत्वमिति वाच्यम् । साध्यमित्यत्र प्रकृतिभूतधात्वर्थं प्रति श्रमस्य करणत्वाक्षतेरिति दिक् ॥
श्रशिष्टव्यवहारेति - अशिष्टानां संकीर्णाचाराणां यो व्यवहारः क्रिया तद्बोधकप्रयोगे प्रत्यासत्या यत्सम्बन्धेन व्यवहारस्य संकीर्णाचारत्वं तद्वाचकात्प्रतिपदिकाञ्चतुर्थ्य तृतीयेत्यर्थः । दास्या सम्प्रयच्छत इति । दासीसम्प्रदानकं रतिफलकं दानमिति बोधः । इति तृतीया ।
२४
अथ सम्प्रदानकारकप्रकरणम् ।
कर्मणा यमभिप्रैति स सम्प्रदानम् - कर्त्रा दाधात्वर्थक्रियाकर्मणा सम्बन्धेच्छाविषयीभूतो यः स सम्प्रदानमिति सूत्रार्थः । सम्यक् प्रदीयते अस्मै तत्सम्प्रदानमित्यन्वर्थसंज्ञाबलेन दानार्थकधातुयोग एवैतत्सूत्रप्रवृत्तिः । दाधात्वर्थश्च स्वस्वत्वनिवृत्तिपूर्वक परस्व त्वोत्पत्यनुकूलव्यापाररूपः । अत एव रजकस्य वस्त्रं ददातीत्यत्र न चतुर्थी । अत्र दाधातुर्भाक्तः अधीनीकरणरूपेऽर्थं इति तदर्थः । दाधातुप्रयोग एव चतुर्थीविधानादेव, अजां ग्रामं नयति, हस्तं निदधाति वृक्षे इत्यादौ न चतुर्थी, इति वृत्तिकारमतम् । भाष्ये तु दानस्येति क्रियामात्रस्योपलक्षणम् कर्त्रा क्रियामात्रकर्मणा सम्बद्र्धुमिष्यमाणस्य सम्प्रदा
त्वमित्यर्थः । अत एव खण्डिकोपाध्यायः शिष्याय चपेटां ददातीति प्रयोगः सङ्गच्छते, अत एव च 'दाशगोघ्नौ सम्प्रदाने' इत्याद्यपि चरितार्थम् । अजाया ग्रामसम्बन्धो जायतामित्येवेच्छा न तु ग्रामोऽजासम्बद्धो जायतामित्याकारेच्छेति ग्रामस्याज्जारूपकर्मणा सम्बद्धमिष्यमाणत्वाऽभावान्न अजांग्राममित्यादौ सम्प्रदानत्वाऽतिप्रसङ्गः । विप्राय गां ददातीत्यादौ सम्प्रदानत्वशक्तिमान् क्रियाकारकभावसम्बन्धश्च सम्प्रदानचतुर्थ्यर्थः कर्मणा सम्बन्धश्च स्वत्वादिरूपो बोध्यः । देवदत्तकर्त्तवृत्तिविप्रोद्देश्यकगो निष्ठत्यागानुकूलव्यापार इति बोधः ।
Aho! Shrutgyanam