________________
करणकारकप्रकरणम् ।
ऽग्रहणे यदभिन्नाङ्गवृत्तिविकारो लक्ष्यते ततस्तृतीयेत्यर्थे प्रत्युदाहरणभूतोक्तप्रयोगे प्रथमां बाधित्वा तृतीयाऽऽपत्तिः, तद्ग्रहणसत्त्वे तु पूर्वोक्तार्थे नोक्तापत्तिः । अङ्गिनो विकारस्येहा. ऽलक्ष्यत्वात् । अक्ष्णा काण इत्यत्र तु तृतीया न स्यादवृत्तिविकारस्याऽलक्ष्यत्वात् । यद्यपि अक्ष्येव काणं तथापि, अवयवधर्मस्य काणत्वस्य समुदाये आरोपेण शरीरे शरीरावच्छिन्ने चात्मनि काणत्वव्यवहार इति बोध्यम् । नचाऽक्षिगतविकारवाचकस्यैव काणशब्दत्वेन प्रसिद्धत्वादर्थादेवाऽक्ष्णो लाभे तस्योक्तार्थानामिति न्यायेन प्रयोगाप्राप्त्याऽक्षणा काण इत्यस्य साधुत्वं न स्यादिति वाच्यम् । द्वौ विप्राविति वदुक्त प्रयोगसाधुत्वात् । अनेन प्रकारेणेशप्रयोगसाधुत्वे एतत्सूत्रमेव प्रमाणमित्यलम् ॥
इत्थम्भूतलक्षणे-इत्थंशब्दोऽत्र प्रकारमात्रपरः । प्राप्त्यर्थकाद्धातोः कर्तरि के भूतशब्दो निष्पन्नः कर्मविभक्त्यन्तेनेत्थं शब्देन भूतशब्दस्य समासः । लक्षणशब्दोऽत्र करणसाधनः । लक्ष्यते येन तल्लक्षणमिति विग्रहः । कर्मषष्ठ्यन्तेनेत्थंभूतशब्देन लक्षणशब्दस्य समासः । तथा च कञ्चित्प्रकारं प्राप्तस्य लक्षणे द्योत्ये प्रत्यासत्त्या लक्षणवाचकात्ततीयेर्थः । जटाभिस्तापस इति-तापसत्वज्ञानजनकज्ञानं जटाज्ञानं तद्विषयत्वं जटाया इति तस्य लक्षणवाचकत्वेन ततस्तृतीयेति भावः । न च जटाभिस्तापसो ज्ञात इत्यर्थे ज्ञानक्रियायां जटानां करणत्वादेव तत उक्तविभक्त्युपपत्तावलमेतत्सूत्रेणेति वाच्यम् । करणत्वस्याऽविवक्षायां लक्ष्यलक्षणभावमात्रविवक्षायां तृतीयाविधानार्थमस्याऽऽवश्यकत्वात् । इत्थंभूतस्य यत्र लक्षणवाचकात्पृथगेवोपस्थितिर्भवति तत्रैवाऽनेन तृतीया विधीयते । अत एव कमण्डलुपदात्ततीया न भवति । न च (सपो धातुप्रातिपदिकयोरि)त्यनेन कमण्डलुपदादुत्पन्नायास्तृतीयाया लुकि न दोप इति वाच्यम् । समासे कृते तृतीयोत्पत्तिरिति तस्याः समासरूपप्रातिपदिकाऽनवयवत्वेन लुगनापत्त्या दोषस्य तादवस्थ्यादिति कैयटः।
शेखरकृतस्तु--कमण्डलुः पाणौ यस्येति बहुव्रीहिः, कमण्डलुयुक्तपाणिरूपस्य कमउडलुपाणित्वस्यैव लक्षणत्वेन (१)तस्यैव लक्षणवाचकत्वेन (२)तत एव तृतीयाऽऽपत्तिः । 'अनुर्लक्षणे' इति सूत्रे भाष्येऽप्युक्तमेतत् । तत्र हि, (सकृदसौ कमण्डलुपाणिश्च्छात्री दृष्टस्तस्य तदेव लक्षणम्भवती)त्युक्तम् । तत्र तदेवेत्यस्य कमण्डलुनाणित्वमेवेत्यर्थः । कमण्डलोर्लक्षणत्वे तु कमण्डलुपाणिरेव लक्षणमित्यर्थकः स एव लक्षणमिति वदेत् । (३)कै. यटमतेऽपि तत्प्रदर्शितं तृतीयालुगनापत्तिरूपदूषणं तु न युक्तम् । कमण्डलुशब्दात्ततीया. विधानेऽपि (तन्मध्यपतित)न्यायेन तस्याः समासरूपप्रातिपदिकत्वस्याऽक्षतत्वेन लुको दुर्वारत्वात् । (४)अत एव नरंमन्य इत्यादौ (सुपोधात्वि)ति अमः कुतो न लुगित्याशंक्याऽम्विधानसामर्थ्यान्न लुगिति समाहितम्भाष्ये । कैयटमते तु अमः समासरूपप्रातिपदिकाऽनवयवत्वेन लुकोऽप्राप्त्या भाष्यकृत्कृतस्य शंकासमाधानस्य स्पष्टैवाऽसङ्गतिस्तस्मान्मदुक्तमेव ज्याय इत्याहुः ॥
ननु शास्त्रीयहेतोः कर्तृत्वालौकिकहेतोश्च करणत्वात् तृतीयासिद्धौ (हतावि)ति सूत्र (१) कमण्डलुपाणेरेवेत्यर्थः। (२) कमण्डलुपाणिशब्दादेवेत्यर्थः । ( ३ ) कैयटमतं खण्डयितुमाह-कैयटमतेऽपीति । (४) उक्तन्यायेन तृतीयाया उक्तरूपप्रातिपदिकावयवत्वादेवेत्यर्थः ।
Aho! Shrutgyanam