________________
फक्किकारत्नमञ्जूषा।
पत्तिरिति वाच्यम् । कर्तरि कर्मण्येव कृद्योगपष्टीविधानाद्धेतौ तदविधानेन तत्राऽदोषात् । तत्र हेतुतृतीयान्तेन मनसेत्यनेन पचाद्यजन्तस्य देवशब्दस्य समासः (मनसः संज्ञायामि). त्यनेन तृतीयाया अलुक् । न च दिवः साधकतमे कर्मत्वकरणत्वोभयशक्त्यङ्गीकारे कमणि प्रत्यये कृते करणत्वशक्तेरनुक्तत्वात्तृतीयाऽऽपत्त्याऽक्षानदीव्यन्तामित्यादिप्रयोगो नैवोपपद्यतेति वाच्यम् । (अपादानमुत्तराणि कारकाणि बाधन्ते) इत्यस्योदाहरणभूते गां दोग्धीति प्रयोगे कर्मणि प्रत्यये कर्मत्वशक्तरुक्तत्वेऽप्यपादानत्वशक्तग्नुक्तत्वेन प्राप्तपञ्चमीनिवृत्त्यर्थं द्रव्यगताऽनेकशक्तिमध्ये एकस्या अभिहितत्वेऽपरस्या अप्यभिहितवदवबोध इति न तत्र पञ्चमी इति भाप्योक्त्यैव तत्रत्यापत्तेरपि परिहारादित्यलम् ॥
अपवर्गे तृतीया--अपवर्ग इत्यस्य फल प्राप्तावित्यर्थः । सत्यां फलप्राप्तौ प्रयोज. नाऽभावादेव क्रियायामप्रवृत्तिरिति फलप्राप्तिशब्देन फलप्राप्तिपूर्वकस्त्याग उच्यते । तथा च, फलप्राप्तिपूर्वके क्रियात्यागे द्योत्ये सति कालाऽध्वनोरत्यन्तसंयोगे प्रत्यासत्या कालाऽध्ववाचकाभ्यां तृयीयेत्यर्थः ॥
सहयुक्तेऽप्रधाने--ननु सहेनाऽप्रधाने इत्येव सिद्धे युक्तग्रहणं व्यर्थमिति चेन्न । तस्य सहशब्दयोग एव न, किन्तु तदर्थयोगेऽपि तृतीया भवतीत्यर्थकल्पनेन सार्थक्यादित्याशयेनाऽऽह, मूले सहार्थेनेति--अर्थयोगेऽपि तृतीयाविधानादेव शब्दयोगं विनाऽपि क्वचित्तृतीया भवतीत्याह-विनाऽपि तद्योगमिति--प्रमाणञ्चात्र (वृद्धो यूने)त्यादिनिर्देश एवेति । सहार्थः साहित्यं तच्च स्वसमभिव्याहृतक्रियादिसमानकालिकसमभिव्याल. तक्रियादिमत्त्वरूपम् । क्वचित्समानदेशक्रियावत्त्वमपि तत् । एतद्रूपसाहित्यस्य विवक्षणादेव तिलवापोत्तरं तत्रैव क्षेत्रे माषवापे तिलैः सह माषान्वपतीति सिद्धयति । पुत्रेण सहागतः पितेति नैतत्सूत्रोदाहरणं युक्तम् , पुत्रस्याऽऽगमनकियाकर्तृत्वादेव ततस्तृतीयासिद्धेः । एवञ्च पुत्रेण सह स्थूल इति मुख्यमुदाहरणं बोध्यम् । पुत्रकर्तृकागमनक्रियासमानकालि. कागमनक्रियावान्पितेतिप्रथमवाक्याबोधः । पुत्रसम्बन्धिस्थौल्यसमानकालिकस्थौल्यवापितेति द्वितीयतो बोधः । एवं
सहैव दशभिः पुत्रैर्भार वहति गर्दभो। इत्यादितोऽपि पुत्रसम्बन्धिभारवहनसमानकालिकं गर्दभीकत के बहनमित्यादिक्रमेण बोधः । पुत्रोण सहागतः पितेत्यत्र प्रधानीभूतात्पितृशब्दात्तृतीयाव्यावृत्त्यर्थमेव सूत्रेऽप्रधानग्रहणं तत्राऽन्तरङ्गत्वात्प्रातिपदिकार्थमात्रे प्रथमैव चेदलमप्रधानग्रहणेन । न च पुत्रेण सह पितुरागमनमित्यादौ प्रथमाया अविषये पितुस्तदापत्तिस्तदवस्थैवेति वाच्यम् । (उपपदविभक्तः कारकविभक्तिर्बलीयसी)तिन्यायेन (कर्तृकर्मणोः कृति) इत्यनेन तत्र षष्ट्या एव विधानादिति दिक् ॥
येनाङ्गविकारः-अङ्गमस्यास्तीत्यङ्ग अर्श आदित्वादच् । अङ्गस्य विकारोऽङ्गविकारः । अङ्गिनो विकार इति तदर्थः । प्रयोज्यत्वं षष्ट्यर्थः । येनेति सर्वनाम्ना प्रकृत्यर्थभू. तोऽवयवो लक्ष्यते । तत्राऽभेदस्तृतीयार्थः, तथा च, यदभित्रावृत्तिविकारप्रयोज्याङ्गिनो विकारो लक्ष्यते ततस्तृतीयेति सुत्रार्थः। अंगविकारः किमिति-अर्श आद्यजन्ताङ्गग्रहणं किमर्थमिति प्रश्नः । समाधते-अक्षि काणमस्येति-अयम्भावः, अर्श आद्यजन्ताङ्गस्या
Aho ! Shrutgyanam