________________
करणकारकप्रकरणम् ।
साधकतमं करणम्-साधकतममित्यस्य प्रकृष्टमित्यर्थः, तच्च यद्वयापाराऽव्यवधानेन कार्यनिष्पत्तिस्तत् । उक्तच्च,
क्रियायाः परिनिष्पत्तिर्यद्वयापादनन्तरम् ।
विवक्ष्यते यदा यत्र करणं तत्तदा स्मृतम् । अथवा कारकान्तरनिष्ठव्यापारसम्बन्धावच्छिन्नक्रियाहेतुत्वाऽभावत्वे सति क्रियाहेतुस्वरूपम् । अथवा व्यापारत्वे सति कारणत्वं तत्त्वमिति ॥
ननु क्रियते येनेति व्युत्पत्त्या करणल्युडन्तकरणेतिमहासंज्ञया करणपदादेव साधकत्वे लब्धे साधकपदस्यैव साधकतमार्थपरत्वादिष्टसिद्धौ तमब्ग्रहणं व्यर्थमित्याशइते-तमबू. ग्रहणं किमिति । उत्तरयति-गङ्गायां घोष इति । अयम्भावः, व्यथं तमग्रहण ज्ञापयति इति, इह कारकप्रकरणे शब्दसामर्थ्य गम्यप्रकर्षाऽऽश्रयणं न भवतीति । अत एव प्रत्युदाहरणीभूतोक्तप्रयोगे सप्तमीसिद्धिः । अन्यथाऽधिक्रियतेऽस्मिन्नितिव्यत्पत्त्याऽधिकरणपदादाधारलाभे आधारपदस्य प्रकृष्टाधारपरत्वे तिलेषु तैलं दध्नि सपिरित्यादावेवाऽधिकरणसंज्ञया सप्तमी स्थान्नतु गङ्गायां घोष इत्यादावपीति । घोषाऽऽधारत्वस्य तीरधर्म . स्य तीरे लक्षणया तथा प्रयोग इति बोध्यम् । न च महासंज्ञयोक्तार्थलाभासमान्प्रत्याधारादिपदस्य चरितार्थत्वेन शब्दसामर्थ्यगम्यप्रकत्यायुक्तज्ञापनासम्भवात्प्रत्युदाहरणस्य का गतिरिति वाच्यम् । आधारपदे स्वरितत्वप्रतिज्ञया गौणाधारग्रहणस्य सुलभत्वादि. त्यलम् ॥
रामेण बाणेन हतो वालीति-कर्तृत्वशक्तिमान्कर्तृक्रियाभावसम्बन्धश्च कर्तृतृती. यार्थः । करणत्वशक्तिमान क्रियाकरणभावसम्बन्धश्च करणतृतीयार्थः । रामकर्तृकबाणकरणकप्राणवियोगाश्रयो वालीति बोधः ॥
प्रकृत्यादिभ्य उपसंख्यानम्-एतद्विहिततृतीयाऽर्थोऽभेदोऽन्योऽपि ।
उक्तञ्च
प्रकृत्यादिगणाज्जाता तृतीया तु तदात्मताम् ।
अवच्छेदकतावृत्ति प्रकारत्वादि शंसति ॥ इति । प्रकृत्या चारुरित्यादितः स्वाश्रयाधिकरणयावत्कालवृत्तिचारुत्ववान् । प्रकृत्यभिन्नचारुत्ववानिति वा बोधः ॥
दिवः कर्म च-ननु पूर्वसूत्रात्करणपदाऽनुवृत्त्यैव कर्मकरणयोर्विधानसिद्धौ चकारो व्यर्थ इति चेन्न । तस्य संज्ञाद्वयसमावेशार्थेन सार्थक्यात् । अत एव, अक्षैर्देवयते इत्यत्र परत्वात्ततीया कर्मत्वाचाऽकर्मकत्वप्रयुक्तपरस्मैपदाऽभावश्च सिद्धयति । विप्रतिषेधशास्त्रबलात्तती. यैवाऽत्र कर्मत्वकरणत्वेतिशक्तिद्वयं बोधयतीति बोद्धयम् । नचोभयसंज्ञाविधानं तृतीयान्तघटितप्रयोगस्य द्वितीयान्तघटितप्रयोगस्य च साधुत्वार्थमेव तत्रोक्तशास्रबलेन तृतीयैव चेद्वितीयान्तघटितप्रयोगस्याऽसाधुत्वमेव स्यादिति वाच्यम् । अक्षाणां फलाश्रयत्वसमा. नाऽधिकरणकर्मत्वविवक्षायामक्षान्दीव्यतीति द्वितीयान्तघटितप्रयोगस्य साधुत्वात् । न च दिवः साधकतमस्योभयसंज्ञाविधानेनाऽक्षाणां देवितेत्यादौ तृतीयाऽऽपत्तिरिति वाच्यम् । तृतीयातः परत्वात्कृयोगलक्षणषष्ट्या एव प्राप्तः । नचैवं मनसा देव इत्यादावपि षष्ट्या
Aho! Shrutgyanam