________________
२०
फक्किकारत्नमञ्जूषा। प्यपठितेन (उपसंवादाशङ्कयोलिङ्) इति वात्तिकेनेति भावः । तत्राऽऽशलोत्प्रेक्षा, सम्भावनापि उत्कटकोटिकाऽऽशव । अपेः कर्मप्रवचनीयत्वात्ततद्योत्यसम्बन्धमाह, तस्या एवेति--सम्भावनाया एवेत्यर्थः । विषयीभूते भवने इति । प्रकृतार्थभवने इत्यर्थः । कर्तुदोर्लभ्यमिति--अत्र कर्तुर्दोलभ्यमिति पष्ठीतत्पुरुषो बोध्यः । स्वदौर्लभ्यप्रयुक्तदौर्लभ्यवत्त्वरूपसम्बन्धोऽपियोत्यः । बिन्दुना कर्तृत्वादुक्तसम्बन्धेन स्यात्पदवाच्यक्रियायामन्वीयते इत्यर्थः । तदाह-अपिशब्दबलेनेत्यादि--एवञ्च सपिरवयवबिन्दुदौर्लभ्यप्रयुक्तदौर्लभ्यवती तत्कर्तृका सम्भावनेति बोधः । नन्वेवं कर्मप्रवचनीयसञ्जकापिद्योत्येऽर्थे सर्पिषोन्वयेन तस्य कर्मप्रवचनीययुक्तत्वाद्वितीया स्यादित्याशङ्कय समाधत्ते-द्वितीया तु नेह प्रवर्तत इति । सर्पिषो बिन्दुना योगो, नत्वपिना । न च परम्परया तेनाऽपि योग एवेति वाच्यम् । कर्मप्रवचनीयद्योत्योक्तसम्बन्धेनाऽपिशब्देऽन्वयाऽभावात् । एवञ्च न द्वितीयाऽऽपत्तिः । कर्मप्रवचनीयद्योत्यसम्बन्धप्रतियोगिवाचकाद्वितीयेत्यर्थे प्रकृतेऽपिद्योत्यस्योक्तसम्बन्धस्य बिदुः प्रतियोगी न ततो द्वितीया, स्पष्टप्रतिपत्त्यर्थमपियोत्यबिन्दोः प्रयोगेऽपि (उपपदविभक्तेरि)ति न्यायेन द्वितीयां बाधित्वा प्रथमैवेति । अप: कर्मप्रवचनीयत्वे फलमाह-अनुपसर्गत्वादिति----अपेः कर्मप्रवचनीयत्वेनोपसर्गत्वाऽभावात् स्यादित्यत्र न षत्वमिति दिक् ।। - कालाध्वनो:--अत्यन्तसंयोगो निरन्तरं सम्बन्धः । स च गुणक्रियाद्रव्यैरभावेन च । तेन मासं भोजनाऽभाव इत्यादि सिद्धम् । गुणादिभिः कालाध्वनोरत्यन्तसंयोगे सति प्रत्यासत्त्या कालाऽध्ववृत्तिभ्यां द्वितीयेत्यर्थः । उदाहरणन्तु, मासमधीत इत्यादि । बुद्धिस्थयावदवयवसन्बन्धरूपा व्याप्तिद्वितीयार्थः । नचैकादश्यां रात्री जागृयादित्यादावपि द्वितीया दुर्वारेति वाच्यम् । अधिकरणत्वविवक्षणाद्वितीयाया अप्राप्तः ॥
इति द्वितीया ॥
अथ करणकारकप्रकरणम् । स्वतन्त्रः कर्ता--स्वातन्त्र्यञ्च, कर्तृप्रत्ययसमभिव्याहारे प्रधानीभूतधात्वर्थाश्रयत्वम् । नचोक्तस्वातन्त्र्यलक्षणे कर्तृप्रत्ययसमभिव्याहार इति विशेषणं व्यर्थं तदहितलक्षणेनैवाऽभीष्टसिद्धेरिति वाच्यम् । कर्मप्रत्ययस्थले पक्वस्तण्डुलो देवदत्तेनेत्यादौ धात्वर्थस्य फलस्य प्राधान्यात्तदाश्रयस्य तण्डुलस्य कर्तृत्वापत्तेर्दुरितया देवदत्तस्य तदनापत्त्या तदर्थमुक्तविशेषणस्य सार्थक्यात् । एवञ्च धात्वर्थव्यापाराश्रयत्वं स्वतन्त्रत्वमिति तल्लक्षणं फलितम् । नचैवं देवदत्तेन पाचयति यज्ञदत्त इत्यादौ णिजथंव्यापाराश्रयस्य धात्वर्थव्यापाराऽऽश्रयत्वाऽभावात्कर्तृत्वं न स्यादिति वाच्यम् । णिचो द्योतकत्वेन द्वितीयव्यापारस्यापि धात्वर्थत्वात्तदाश्रयस्य यज्ञदत्तस्य कर्तृत्वे बाधकाऽभावात्। अथवा व्यापाराश्रयस्य भा. ष्योक्तस्याऽन्यानधीनस्य वा स्वतन्त्रत्वाच्च । नचाऽन्यानधीनस्य स्वतन्त्रत्वे णिजन्तस्थप्रयोज्यकर्तुः प्रयोजकाऽधीनत्वात्कर्तृत्वं न स्यादिति वाच्यम् । सर्वेषां स्वव्यापारे स्वत. न्त्रत्वस्य निर्विवादत्वात् । नचैवं प्रयोज्यप्रयोजकव्यवहारो न स्यादिति वाच्यम् । उत्तरव्यापाराधीनत्वेनोक्तव्यवहारोपपत्तेरिति दिक् ॥
Aho ! Shrutgyanam