SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ कर्मकारकप्रकरणम् । र्थस्तत्फलितमाह-अभुक्त्यर्थस्य नेति । भाष्ये तु एतस्योदाहरणस्य वने उपविश्य त्रिरात्रमुपवसतीत्यर्थाश्रयणादिदं प्रत्याख्यातम् । नचैवमुपोप्य रजनीमेकामित्यादौ का ग. तिरिति वाच्यम् । 'कालाध्वनोरि'त्यनेनैव तत्र द्वितीयोपपत्तेरित्यलम् ॥ उपपदविभक्तिमाह-उभसर्वतसाविति । उभसर्वयोस्तसौ उभसर्वतसौ उभाशे उभयशब्दनिष्टप्रकृतिकत्वस्योभशब्दे आरोपादुभयशब्दप्रकृतिकत्वं षष्ट्यर्थः। उपपदविभक्तीनां सम्बन्धोऽर्थ इति बोध्यम् । उभयशब्दसर्वशब्दप्रकृतिकतसन्तयोगे द्वितीयेति कारिकार्थः । धिगिति-धिक्शब्दयोगेऽपि द्वितीया कायेति तदर्थः । धिक् कृष्णाऽभक्तमित्यस्य कृष्णाऽभक्तसम्बन्धिनिन्देत्यर्थः । श्रामेडितान्तेष्विति---कृतद्विर्वचनेष्वित्यर्थः । इदमुपादिष्वित्यस्य विशेषणं तेन उपर्युपरिबुद्धीनां चरन्तीश्वरबुद्धयः । इत्यत्र न द्वितीयाप्रसक्तिः । उपरिबुद्धीनामुपरीत्यर्थेन तस्यानेडितान्तत्वाऽभावात् । ततोऽन्यात्राऽपीति--अन्यशब्दयोगेऽपि द्वितीयेति तदर्थः । तेन फलति पुरुषाऽऽराधनमृते, आषाढी यावच्छुद्धः, आरभ्य तस्यां दशमी तु यावत्प्रपूजयेत्पर्वतराजपुत्र्याः । इत्यादिषु ऋते शब्दयोगे यावच्छब्दयोगे च द्वितीयासिद्धिरिति दिक् ॥ (१)जपमनुप्रावर्षदिति-लक्षणत्वञ्च ज्ञानजनकज्ञानविषयत्वम् । ज्ञानजन्यज्ञान विषयत्वं लक्ष्यत्वम् , तथा च जपस्य वर्षाज्ञानजनकज्ञानविषयीभूतत्वाल्लक्षणत्वेन तस्मिव नुद्योत्ये सति अनोः कर्मप्रवचनीयत्वेन तद्योगे लक्षणवाचकाज्जपशब्दाद्वितोया । जपा. ऽभिन्नहेतुज्ञानजन्यज्ञानविषयो वर्षणमिति बोधः ॥ ननु हेतुतृतीयायाश्च सावकाशत्वात्स्वस्वांशे लब्धाऽवकाशरूपतुल्यबलविरोधस्य सवाद्विप्रतिषेधसूत्रप्रवृत्त्या परत्वात्ततीयाऽऽपत्या नदीमन्ववसितेति द्वितीयाघटितरूपं न स्यादित्याशंक्य समाधते-परापि हेतावितितृतीयाऽनेन बाध्यत इति-लक्षणेत्थंभूताख्यानेति सूत्रेणैव सज्ञासिद्धावनुर्लक्षणे इत्यनेन पुनः संज्ञाविधानसामर्थ्यात्परस्या अपि तृतीयाया बाधेनोक्तप्रयोगोपपत्ती न कापि बाधा दृष्टिगोचरीभूता भवतीति भावः । न च लक्षणेत्थम्भूताऽऽख्यानेति सिद्धसंज्ञाया जपमनुसिञ्चतीत्यत्र पत्वाऽभावसाधकत्वेन चारितार्थ्याद्वितीया विधायकत्वे मानाऽभावेन तदर्थमनुर्लक्षणे इत्यस्यावश्यकत्वात्पुनः संज्ञाविधानसामर्थ्यादिति कथनमनुपपन्नमिति वाच्यम् । लक्षणेत्थमिति सूत्रस्योपसर्ग. संज्ञाबाधननेन चारितार्थेऽपि कर्मप्रवचनीयेति सूत्रे तदुपस्थित्या द्वितीयाप्राप्तेः सुलभत्वेन अनुर्लक्षणे इत्येतद्विहितसंज्ञाया निरवकाशत्वस्य स्पष्टत्वादिति दिक् । नदीमन्ववसितेति-नद्या सह सम्बद्धेत्यर्थः । तत्र तृतीयार्थोऽनुद्योत्यं साहित्य तच्च प्रकृतेऽनुयोगित्वलक्षणमेव तथा च नद्यनुयोगिकसम्बन्धप्रतियोगित्ववती सेनेति बोधः॥ अपिः पदार्थेति-पदस्याऽप्रयुज्यमानपदान्तरस्याऽर्थः पदार्थः तद्योतकोऽपिः कर्मप्रवचनीयसंज्ञको भवतीत्यर्थः । सर्पिषोऽपीति--अत्राऽप्रयुज्यमानस्य बिन्दुरित्यादेः पदस्याऽर्थोऽपिद्योत्यः । सम्भावनायां लिङिति--'उपसंवादाऽशयोश्चेति सूत्रस्थभा (१) कदा वृष्ट इति कस्यचित्प्रश्ने इदमुत्तरमिति बोध्यम् । Aho ! Shrutgyanam
SR No.009875
Book TitleFakkika Ratna Manjusha
Original Sutra AuthorN/A
AuthorKanaklal Thakur
PublisherHarikrishna Nibandh Bhawan Benaras
Publication Year1932
Total Pages280
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy