________________
फक्किकारत्नमञ्जूषा।
त्वेऽपि ह्वयतेरिख बहिर्भूतपुत्रादिकर्मणः सम्भवेन तदभावे विनिगमकाऽभावादकर्मकत्वाऽभावेन कर्मत्वाऽप्राप्त्या तनिषेधार्थ वार्तिकमिदं व्यर्थमेवेत्याहुः ॥ ___ ननु गतिबुद्धीति सुत्रेऽकर्मकपदस्य न विद्यते कर्म येषामित्यर्थे सकर्मकाणामपि कर्म . णोऽविवक्षयाऽकर्मत्वाद्देवदत्तेन पाचयतीत्यादौ देवदत्तस्याऽपि कर्मत्वापत्तिरित्यत आहयेषां देशकालादिभिन्नं कर्म न सम्भवतीत्यादि । अयम्भावः । नियमस्य सजातीयाऽपेक्षत्वात् गतिबुद्धीति सूत्रस्य सकर्मकधातुप्रकृतिकणिजर्थव्यापारप्रयोज्यफलाश्रयाणां कर्मत्वं चेत्तर्हि गत्यर्थादीनामेवेति नियमार्थत्वेनाऽऽसयत्सलिले पृथ्वीमित्यादौ पूर्वसूत्रेणैव कर्मत्वसिद्धौ सूत्रेऽकर्मकपदेन सामर्थ्याद्देशकालादिभिन्न कर्माऽभाववतो ग्रहणादवतरणदलोक्तप्रयोगस्थधातोदेशकालाद्यतिरिक्तस्यौदनादिरूपकर्मणः सत्त्वेन तदविवक्षणेऽप्यकर्मकपदेनाऽग्रहणान्नोक्तापत्तिशंकाकलंककणिकेति प्राञ्चः ॥
शेखरकृतस्तु-अविवक्षितकर्मकेभ्यो धातुभ्यः कृतपूर्वीकटमित्यादौ भाप्यकृता कैय. टेन च भावे तादीनामङ्गोकारादत्र सूत्रे अर्मकपदेनाऽविवक्षितकर्मकाणामपि ग्रहणम् । 'णेरणाविति सूत्रे कैयटेन निवृत्तव्यापाराल्लधातोणिचि (१)लावयति केदारं देवदत्त इत्यादौ कर्म द्वितीयान्तकेदारस्य प्रयोगाच्चोक्तविधानामप्यकर्मकपदेन ग्रहणम् । नवार्थान्तरे श. नया तस्याऽकर्मकत्वं न त्वविवक्षयेति वाच्यम् । (२)तत्वप्रभिज्ञयाऽर्थान्तरत्वाभावेन तत्र शक्तेर्वक्तुमशक्यत्वात् । अर्थान्तरे वृत्तेरित्यस्योदाहरणन्तु नदी स्यन्दते इत्याद्यर्थक नदी वहतीत्यादीत्याकरे स्पष्टम् । कर्मणः शेषत्वविवक्षयाऽकर्मकत्वेन मातुः स्मर्य्यत इत्यादौ भावे लस्य 'अधीगथै ति सूत्रे भाष्ये उदाहृतत्वेनाविवक्षितकर्मकाणा. मप्यकर्मकाणामप्यकर्मकपदेन ग्रहणमित्याहुरित्यलम् ॥
ननु (एष्वर्थेष्वभिनिविष्टानामि)ति समर्थसूत्रस्थभाष्यप्रयोगात् 'अभिनिविशश्चे' त्यत्र 'परिक्रयणे सम्प्रदानमितिसूत्रादन्यतरस्यांग्रहणाऽनुवृत्तिरित्याह-परिक्रयणे सम्प्रदानमित्यादि । सूत्रेऽविकृतरूपश्रवणादविकृताया अभिनिविशित्यानुपूर्व्या यत्र श्रवणं तत्रैव 'अभिनिविशश्चेत्यस्य प्रवृत्तिरिति कल्पनेनोक्तभाष्यप्रयोगे पापेऽभिनिवेश इत्यत्र वाऽऽपत्तिपरिहारादन्यतरस्यां ग्रहणाऽनुवृत्ती व्यवस्थितविभाषाऽऽश्रयणे च प्रमाणाऽभावान्मूलोक्तमयुक्तमेवेति ।
निविशते यदि शुकशिखापदे सृजति सा कियतीमिव न व्यथाम् ।
इति नैषधीयपये का गतिरिति वाच्यम् । अभिनिविशितिसंघातस्य विवक्षणेन तादृशसंघातपूर्वस्यैव विशतेराधारस्य कर्मत्वविधानेन तत्रोक्ताऽऽपत्तेरयोगादिति नागेशा इति दिक् ॥ ___ ननु मशकार्थो धूम इत्यर्थ इव भाष्योक्तस्याश्यर्थस्य नेत्यस्याऽशिनिवृत्यर्थस्य नेत्य
(१) द्विधाभवनाऽनुकूलव्यापारो हि लुनातेरर्थः । तत्र व्यापारत्यागे लूयते केदारः स्वयमेव, पुनस्तस्यैव केदारस्य प्रयोज्यत्वविवक्षया लावयति केदारं देवदत्त इति भवति । अत्र सूत्रेऽकर्मकपदेनाऽविवक्षितकर्मकस्याग्रहणे स्पष्टैव तादृशप्रयोगाऽनुपपत्तिरिति भावः ॥
( २ ) फले पूर्वकालज्ञातफलाऽभेदस्य तदेवेदमिति तत्वप्रभिज्ञयेत्यर्थः ।
Aho ! Shrutgyanam