________________
कर्मकारकप्रकरणम् । मकधातूनामनुत्पन्ने णिचि तस्य कर्तुरुत्पन्ने णिचि कर्मत्वमिति तदर्थः । शब्दकर्मकेत्यत्र कर्मपदं कर्मकारकपरं न तु 'कर्तरि कर्मव्यतीहारे' इत्यत्रेव क्रियापरं व्याख्यानात् । अत एव शब्दार्थकहायिक्रन्दिधात्वोरण्यन्तावस्थकर्ण्यन्तावस्थाया न कर्मत्वम् । णिच्पदं चात्र हेतुमण्णिच एव बोधकं न तु स्वार्थणिचः । सूत्रघटकणिचपदस्य हेतुमाणिजबोधकत्वादेव (भक्षरहिंसार्थस्य ने)ति निषेधश्चरितार्थः। अन्यथा नित्यण्यन्तस्य चौरादिकस्य भक्षेरण्यन्ताऽवस्थाऽसम्भवात्तत्कर्नुः कर्मत्वाऽप्राप्त्या निषेधो व्यर्थ एव स्यादिति भावः । ननु णिच्प्रकृतिकधात्वर्थव्यापारप्रयोज्यफलाश्रयस्येव णिजर्थव्यापार. प्रयोज्यफलाश्रयस्यापि कर्तुरित्येव कर्मत्वसिद्धौ गतिबुद्धीति सूत्रं व्यर्थमिति चेन्न । णि. जर्थव्यापारप्रयोज्यफलाश्रयाणां कर्मत्वं चेत्तहि गत्यर्थादिप्रकृतिकानामेवति नियमार्थत्वेन तस्य सार्थक्यात् । तेन पाचयत्योदनं देवदत्तेनेत्यादौ न देवदत्तस्य कर्मत्वम् । पूर्वसूत्रे णिजर्थव्यापारप्रयोज्यफलाश्रयातिरिक्तत्वेन संकोचेन सूत्रस्य स्वांशे चारितार्थ्यमिति । गतीत्यादि किमित्यादिना तदेवाऽनूद्यते इति बोध्यम् ॥
रायन्तानां किमिति । अयम्भावः, सुत्रेऽणीत्यस्याऽभावेन कर्तुः कर्मत्वमित्यर्थे गमयति देवदत्तेन यज्ञदत्तं विष्णुमित्र इत्यादौ देवदत्तस्यापि कर्मत्वं दुर्वारम्, तत्सत्वे तु देवदत्तस्याऽण्यन्तावस्थायां कर्तृत्वाऽभावेन नोक्तापत्तिरिति । उक्तस्थले बोधस्तु यज्ञदत्तकमकगमनाऽनुकूलदेवदत्तकर्तृकव्यापारानुकूलविष्णुमित्रकर्तृको व्यापार इति दिक् ॥
नियन्तृकर्तृकस्येति । ननु वहधातोर्वाहकर्तृकत्वान्नियन्तृकर्तृकत्वाऽभावेन निषेधप्रतिषेधोऽनुपपन्न इति चेन्न । नियन्तृकर्तृकण्यन्तप्रकृतिभूतस्य वहेरित्यर्थे तदुपपत्तः । न च प्रापणार्थकस्य वहेर्गत्यर्थत्वाभावात्कर्मत्वाऽप्राप्त्या तनिषेधवार्तिकारम्भो व्यर्थ इति वाच्यम् । ग्रामं प्राप्त इत्यादौ गति विना ग्रामप्राप्त्यसम्भवादाक्षिप्तगत्याऽपि गत्यर्थत्वमित्यभिमानेन तदारम्भस्य सार्थक्यादिति ॥
ननु (गतिबुद्धी) तिसूत्रे बुद्धिपदेन ज्ञानस्य ग्रहणाच्चक्षुरादीन्द्रियजन्यज्ञानार्थकानां धातूनां बुद्धयर्थत्वात्सूत्रेणैव (दृशेश्चेति) वार्तिकोदाहरणस्यापि गतार्थत्वाद्वात्तिकं व्य र्थमेवेत्याशङ्क्य समाधत्ते-सूत्रे ज्ञानसामान्यार्थानामेवेति । उक्तवार्तिकं व्यर्थ सज्ज्ञापयति गतिबुद्धीतिसूत्रे बुद्धयर्थपदेन ज्ञानसामान्यार्थानामेव ग्रहणं न तु ज्ञानविशेषार्थानामिति । एवञ्च सूत्रेण वार्तिकोदाहरणस्यागतार्थत्वात्तदावश्यकमिति स्वांशे चारितायं जातं, फलञ्च ज्ञापनस्य स्मारयति प्रापयति देवदत्तेनेत्यादौ देवदत्तस्य कर्मत्वाऽभावरूपमिति भावः ॥
ननु शब्दं करोतीत्यर्थे 'शब्दवैरकलहेति क्यङि तदन्ताणिचि शब्दायिधातोर्धात्वथें. नोपसंगृहीतस्य शब्दरूपकर्मणो धात्वर्थकुक्षिप्रविष्टत्वेनाऽकर्मत्वाद्गतिबुद्धीति सूत्रेण कर्मसंज्ञा दुर्वारेत्यत आह-शब्दायतेनेति । शब्दायधातोरणि कर्तुः गौ कर्मत्वं नेति तदर्थे शब्दाययति देवदत्तेन यज्ञदत्त इत्यादौ न देवदत्तस्य कर्मत्वापत्तिरिति दीक्षिताऽऽशयः ॥
नागेशास्तु-शब्दकर्मत्यत्र कर्मपदस्य क्रियापरत्वे शब्दक्रियाणामित्यर्थेऽकर्मकत्वात्प्राप्तगतिसंज्ञावारणाय ह्वाययति शब्दाययति क्रन्दयतीनां कर्मत्वप्रतिषेधस्य भाष्यकृतोक्तत्वाच्छन्दकर्मकाणामित्यर्थे तदनुक्त्याऽस्य धातोः शब्दरूपकर्मणो धात्वर्थेनोपसंगृहीत
Aho! Shrutgyanam