________________
१६
फक्किकारत्नमञ्जूषा।
शेखरकृतस्तु-परिगणिताऽतिरिक्तानां परिगणितधातुसमानार्थकानां येषां धातूनां द्विकर्मकत्वमिष्टं तेषा व्यापारद्वयार्थकत्वात्कर्तुरित्येव कर्मत्वसिद्धौ सज्ञाया अर्थनिमित्तकत्वमनादेयम् । अत एव, न 'आख्यातोपयोगे'इति सूत्रस्थभाष्यपरिगणनभङ्गापत्तिः । तस्या अर्थनिमित्तकत्वे तु भाष्योक्तपरिगणनस्य स्पष्टैवाऽसङ्गतिः, तत्समानार्थकानामन्येषामपि द्विकर्मकत्वात् । किञ्चोभयार्थकयाचिग्रहणेनैव बलिं भिक्षते वसुधामित्यादावपि कर्मत्वसि. द्धौ परिगणने भिक्षधातुग्रहणस्य वैयर्थ्यांपत्तेश्चेत्याहुः ।।
अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्यमिति-वात्तिकम् । सत्यकर्मकधातुयोगे देशकालभावगन्तव्याववाचकशब्दानां कर्मसंज्ञा वक्तव्येति तदर्थः। अकर्मधातूनां स्वार्थकरणकव्यापने शक्तिस्तथा च स्वार्थ. करणकव्याप्त्यनुकूलव्यापार इत्यर्थे मासमास्ते इत्यादी व्याप्तिरूपफलाश्रयत्वान्माणवकस्य कर्तुरिति कर्मत्वम् । देवदत्तकर्तृकासनकरणकमाससम्बन्धिव्याप्त्यनुकूलव्यापार इति बोधः । अत्र देशपदेन देशत्वाऽवान्तरधर्मवान् कुरुपञ्चालादिरेवगृह्यते न तु सामान्यतो देशः, नवा ग्रामत्वादिना ग्रामः । अत एव कुरून् स्वपिति तिष्ठति वेति प्रयोगो भवति, न भवति देशं ग्रामं वा स्वपिति तिष्ठति वेति प्रयोगः । कालपदेन च कालत्वाऽवान्तरधर्मवान् माससम्वत्सरादिरेव गृह्यते न तु सामान्यतः कालः । एवञ्च मासं सम्वत्सरं वाऽऽस्ते इति प्रयो गो भवति न कालमास्त इति। भावपदेन च गोदोहनादिरेव न तु तदतिरिक्तः, तेन गोदोहमास्ते इति प्रयोगः । न च गोदोहादिशब्दस्य कालार्थकत्वात्कालग्रहणेनैवोक्तप्रयोगोपप. तो भावग्रहणं व्यर्थमिति वाच्यम् । घजन्तेन प्रतिपाद्यमानस्यापि कालस्य कर्मत्वं भवतीति प्रपञ्चार्थत्वेन भावग्रहणस्य साफल्यात् । अध्वपदेनाध्वत्वाऽवान्तरधर्मवतः क्रोशयोजनादेरेव ग्रहणं न तु सामान्यतोऽध्वनः । तेन क्रोशं योजनं वाऽऽस्ते देवदत्त इति भवति नतु अध्वानमास्ते इति । ___प्राचीनोक्तं प्रकृतवार्तिकस्य कर्मसंज्ञाविधायकत्वं खण्डयति । भाष्ये कर्मसज्ञाविधा. यकत्वेनादृष्टत्वान्नास्य कर्मसंज्ञाविधायकत्वम् । नचास्य वचनस्यैवोक्तसंज्ञाविधायकत्वम. स्तीति वाच्यम् । अकर्मकधातुप्रकृतिकण्यन्ताः कथं द्विकर्मका इति पूर्वपक्षे जाते ।
कालभावाऽध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम् ।।
देशश्चे, त्येवाकथितसूत्रे भाष्ये उक्तत्वात् । तत्र प्रसिद्धार्थकहिशब्दप्रयोगात्कालादि कर्म प्रसिद्धमेव पूर्वसूत्रबोधितमेवेति घोध्यते । नच हिशब्दस्य वाक्यालंकारार्थत्वादुक्ताऽभिप्रायकत्वाऽभावेनास्य विधायकत्वे न किमपि प्रतिबन्धकमिति वाच्यम् । कालाऽध्ववाचकयोः कर्तुरित्येव कर्मत्वसिद्धौ कालाध्वानौ कर्मवदिति वार्तिकं व्यर्थमितिरीत्यास्य वार्तिकस्य प्रत्याख्याने घटं करोतीत्यादाविव प्राकृतमेवैतत्कर्म पूर्वसूत्रबोधितमेवेति 'का. लाध्वनोरितिसूत्रस्थभाष्योक्ते रेव प्रतिबन्धकत्वात् । अस्याऽविधायकत्वादेव, समाया स. मायां विजायत इति विग्रहकथनपरस्य 'समां समां विजायते' इति सूत्रस्थभाष्यस्य सङ्गतिः। अन्यथाऽनेन द्वितीयाया एव साधुत्वात्तदसङ्गतिः । तस्मादुक्तप्रकारेणाऽकर्मधातूनां का. लादिकर्मत्वाद्विकर्मकत्वमित्येव तत्तात्पर्य्यमित्यलम् ॥
गतिवुद्धिप्रत्यवसानार्थेति-गत्यर्थकबुद्ध्यर्थकप्रत्यवसानार्थकशब्दकर्मकाऽक.
Aho ! Shrutgyanam