________________
कर्मकारकप्रकरणम् ।
१५
क्षाया असम्भवात् । अत्रापि व्यापारद्वयार्थकत्वे कर्त्तुरिति सूत्रेण कर्मत्वं बोद्धयम् । पथ - विषयक जिज्ञासाविषयकमाणवकवृत्तिज्ञानाऽनुकूलो देवदत्तकर्तृको व्यापार इति बोधः ।
वृक्षमवचिनोति फलानीति--अत्र ग्रहणाऽनुकूलव्यापारोऽवचिनोतेरर्थः । तथा च फलवृत्तिग्रहणाऽनुकूलव्यापारो देवदत्तवृत्तिरिति बोधः । शेखरकारस्तु वृक्षात्फलान्यादत्ते इत्यर्थाद्विभागपूर्वकदानस्य धात्वर्थत्वमभ्युपगच्छति । अपादानत्वाऽविवक्षायामनेन कर्मत्वम् ॥
माणवकं धर्मं ब्रूते इति -- ज्ञानाऽनुकूलः शब्दप्रयोगरूपो व्यापारो धात्वर्थः । एवञ्च देवदत्तवृत्तिः शिष्यसम्बन्धी धर्मविषयकज्ञानजनको व्यापार इति बोधः । केचित्तु वदिवचिब्रुवि - उपदिशि- याचतीनां प्रतिपत्यवच्छिन्नव्यापारोऽर्थः । शिष्यनिष्ठप्रतिपत्तौ शिष्यस्याधेयत्वसम्बन्धेनाऽन्वयः । तत्रैव धर्मस्य विषयतासम्बन्धेनान्वयः । तथा च धर्मविषयिणी या शिष्यनिष्ठा प्रतिपत्तिस्तदनुकूलो देवदत्तवृत्तिव्यापार इति बोध इत्याहुः ॥
माणवकं धर्मं शास्तीति प्रवृत्तिपर्यवसायी ज्ञानाऽनुकूलः शब्दप्रयोगरूपो व्यापार एव शास्धात्वर्थः । एवं च शिष्यसम्बन्धी प्रवृत्तिपर्य्यवसायी धर्मप्रतिपादकशब्दकर्मकोवारणानुकूलो देवदत्तवृत्तिर्व्यापार इति बोधः । प्रवृत्तिपर्य्यवसायी च धर्मं कुरु इत्यादिविघिटितोपदेशरूपो बोध्यः । फलतावच्छेदकः सम्बन्धश्चात्र विषयता | माणवकस्य वचनादिकर्मणा धर्मेणेच्छा विषयीभूतत्वात्सम्प्रदानत्वं तस्याविवक्षणेऽनेन कर्मत्वं बोध्यम् । कर्त्तुव्यपारोत्तरं माणवकस्य धर्मेण स्वविषयकज्ञानाश्रयत्वरूपः सम्बन्ध इति ॥
शतं जयति देवदत्तमिति - अनेकव्याजपूर्वकोऽन्यस्वत्वनिवृत्तिपूर्वकः स्वस्वत्वोत्पत्यनुकूलो व्यापारो जिधात्वर्थः ॥
सुधां क्षीरनिधि मथ्नातीति दण्डग्रहणपूर्वको ऽन्तर्गतसारभागोत्थानाऽनुकूलव्यापारो मन्थेरर्थः । उत्थानञ्चात्रोद्र्ध्व देशसंयोगः ॥
-
देवदत्तं शतं मुष्णातीति- धनस्वाम्यज्ञानपूर्वकग्रहणाऽनुकूलव्यापारोमुष्धात्वर्थः । अत एव विभागस्य धात्वर्थान्तर्भावे देवदत्तस्याऽपादानत्वं तदविवक्षायामनेन कर्मत्वम् ॥ ग्राममजां नयति हरति कर्षति वहति वेति - उत्तर देशसंयोगानुकूलव्यापारानुकूलव्यापारो णिधात्वर्थः । स्कन्धग्रहणपूर्वक उक्तधात्वर्थ एव वहधात्वर्थः । गत्यनुकूलव्यापारविशेषः कृषतेरर्थः । बलाद्ग्रहणपूर्वकं देशान्तरप्रापणं हृधात्वर्थः । एषामुक्तार्थं कर्त्तुरित्येव कर्मत्वम् । एवञ्च ग्रामसम्बन्धी अजानिष्टोत्तरदेशसंयोगानुकूलव्यापारो देवदत्तत्रत्तिरिति बोधः । एवं भारं वहतीत्यादावपि बोध्यः ॥
अर्थनिबन्धनेयं संज्ञेति – अकथितञ्चेत्यनेन या संज्ञा साऽर्थनिबन्धनाऽर्थनिमित्तिका, न तु स्वरूपाऽऽश्रया स्वरूपनिमित्तिकेति तदर्थः । नचैतत्सूत्रविहितकर्मसंज्ञाया अर्थनिमित्तकत्वे किम्प्रमाणमिति वाच्यम् । तद्राजसूत्रस्थभाष्य कैयटयोरेव प्रमाणत्वात् । तत्र हि, ( अहमपीदमचोद्यं चोद्ये ) इत्युक्तम् । असौ अस्मान्मामचोद्यं चोदयतीति तदर्थः । तन्न पृच्छ्पिर्य्यायस्य चुदेरपि द्विकर्मकत्वं दृश्यते उक्तसंज्ञायाः स्वरूपनिमित्तत्वे उक्तभाष्यकैयौ व्याकुप्येयाताम् । चोद्ये इत्यत्र कर्मणि प्रत्यये अस्मच्छब्दात्प्रथमा इदशब्दाद्वितीया, अत एव मारीचमुच्चैर्चचनं महार्थमिति भट्टिकाव्यप्रयोगोपपत्तिरिति प्राञ्चः:
Aho! Shrutgyanam