________________
फक्किकारत्नमञ्जूषा |
कर्मत्वम्, अपादानत्वविवक्षायां तु पञ्चम्येव, पयसि गोरन्वये षष्टी, द्विकर्मकेषु गवादीनां कर्मत्वाऽविवक्षया क्रियायामन्वये न षष्टी, अनभिधानात् षष्ठ्यन्तस्य स्वान्वययोग्यनामसमभिव्याहारे एवान्वयस्योत्सर्गतो व्युत्पत्तेश्च । देवदत्तकर्तृकं पयःकर्मकं गोसम्बन्धि दोहनमितिबोधे पञ्चमी । देवदत्तकर्तृकं गोसम्बन्धि पयःकर्मकं दोहनमिति बोधे गोशब्दाषष्ठीति बोध्यम् ।
१४
बलिं याचते वसुधामिति — स्वीकाराऽनुकूलव्यापारः परस्वत्वनिवृत्तिस्वस्वत्वोत्पत्त्युभयाऽनुकूलव्यापारो वा याचतेरर्थः । स्वत्वे बलेर्निरूपकत्वसम्बन्धेनान्वयेऽनेन कर्मत्वम् । पूर्वविषयस्य कस्याऽप्यभावेनाऽप्राप्तिपूर्विकाऽविवक्षा बोध्या । नचापादानत्वस्य प्रसक्त्या कथमप्राप्तिपूर्विकाऽविवक्षेति वाच्यम् । विभागस्योक्तधात्वर्थत्वाऽभावेनाऽपादानत्वाऽप्रसक्तेः । उक्तं हि भाष्ये (न हि याचनादेवाsपायो भवति याचितोऽसौ यदि ददाति तदाऽपायेन युज्यते) इति । असंकीर्तितपर्यायस्याऽकथितशब्दस्य ग्रहणे गां दोग्धि गोर्दोग्ध इति च याचिच्छिभियोगे कर्मसंज्ञैवेत्येषां व्यवस्थेति सिद्धान्ते कैयटोक्तिश्च । बलैर्वसुधा निष्टस्वनिरूपितस्वामित्वात्मकसम्बन्धात्कर्मयुक्तत्वादनेन कर्मत्वमिति भावः ॥
श्रविनीतं विनयं याचत इति इदमवश्यं करिष्यामीति शब्दप्रयोगजनक विशेषरूपस्वीकागऽनुकूलव्यापारोऽत्र याचेरर्थः । फलतावच्छेतकसम्बन्धश्वात्र विषयतेति अविनीतस्य विनयेन सह स्वविषयकज्ञानवत्त्वसम्बन्धेन कर्मयुक्तत्वात्कर्मत्वम् ॥
तण्डुलानोदनं पचतीति - विकिलच्यनुकूलव्यापारो हि पच्वात्वर्थः । वस्तुतस्तु (द्वयर्थः पचिरिति भाष्याद्विक्लेदनं निर्वर्त्तनं च धातोरर्थः तण्डुलान्विक्लेदयन्नोदनं निर्वर्त्तयतीति वाक्यार्थः । तण्डुलकर्मकविक्लित्तिपूर्वकौदनकर्मकं निर्वर्त्तनमिति बोधः । तथा च पच्धात्वर्थस्योक्तरूपत्वात्कर्त्तुरित्यनेनैव कर्मत्वसिद्धावस्यैतत्सूत्रोदाहरणत्वं चिन्त्यम् ॥
गर्गान् शतं दण्डयतीति - बलात्कारपूर्वक परस्वत्वनिवृत्तिपूर्वकस्वस्वत्वोत्पत्यनुकूलव्यापारो दण्डयतेरर्थः । वस्तुतस्तु स्वसम्प्रदानानुकूलव्यापाराऽनुकूलशासनरूपो धास्वर्थः । तथा च व्यापारद्वयार्थ कदण्ड्यादिधातुयोगेऽपि पूर्वसूत्रेणैव कर्मत्वसिद्धाविदमप्ये. तत्सूत्रोदाहरणं चिन्त्यमेव । एवं व्यापारद्वयार्थकत्वेन सति प्रयोगे बहूनां धातूनां द्विकत्वं बोद्धम् ॥
व्रजमवरुणद्धि गामिति - निर्गमप्रतिबन्धपूर्वकयत्किञ्चिदधिकरणकचिरस्थित्य - नुकूलव्यापारोऽवरुधेरर्थः । व्रजे गौस्तिष्ठति तत्र तां निर्गमप्रतिबन्धपूर्वकं चिरं स्थापयतीति प्रतीतेः । तथाचैकाश्रयको गोवृत्तिनिगं मप्रतिबन्धानुकूलो व्रजसम्बन्धीति बोधः । अधिकरणत्वाऽविवक्षायामनेनात्र कर्मत्वम् । व्यापारद्वयस्य धात्वर्थत्वे पूर्वसूत्रेणैव • कर्मत्वम् ॥
माणवकं पन्थानं पृच्छतीति - जिज्ञासाविषयीभूतार्थज्ञानानुकूलः केन पथा गन्तव्यमित्यभिलापादिरूपो व्यापारः पृच्छतेरर्थः । ज्ञानविषयत्वात्पथः कर्मत्वं माणवकेन च पथः स्वज्ञानाश्रयत्वरूपः सम्बन्धः । ( नहि प्रश्नादेवाऽपायो भवति पृष्टोऽसौ यदा व्याचष्टे तदापायेन युज्यत इति भाष्योक्त्या नात्राऽपादानत्वविवक्षेति बोध्यम् । न च सम्प्रदानत्वस्यैव विवक्षाsस्त्विति वाच्यम् । कर्म सम्बन्धवस्त्रे नेच्छाविषयत्वाऽभावेन तद्विव
Aho! Shrutgyanam