________________
कर्मकारकप्रकरणम् ।
मनेन कर्मत्वमिति बोध्यम् । नचोक्तरूपेण विवक्षायां किं बीजमिति वाच्यम् । कारकत्वव्याप्यकर्मादिसंज्ञानां स्वबोध्यायें कर्मादौ कर्मत्वादिशक्तिमत्वबोधकस्यैव तत्र बीजत्वात् । बोधोऽपि कर्मत्वादिशक्तिमन्येनैवेति । एतत्सूत्रविहितकर्मणि विहिताया द्वितीयायाः सम्बन्धार्थकत्वं प्राचीनोक्तं खण्डयति । तथाहि, 'कर्मणि द्वितीये ' त्यादिशास्त्राsभावे सर्वत्र पष्ठ्याः प्राप्तिरिति सर्वासां द्वितीयादीनां षष्ठयपवादत्वं तदपवा दत्वमात्रेणोक्तरूपाया द्वितीयायाः सम्बन्धाऽर्थकत्वन्न समुचितं तथा सति कर्मणि द्वितीये - त्यस्य वैरूप्यापत्तेः । कर्तुरित्येतद्विहितकर्मणि या द्वितीया तस्याः कर्मत्वबोधकत्वं एतत्सूत्रविषये सम्बन्धबोधकत्वमिति स्पष्टमेव वैरूप्यं स्यादिति भावः । एतत्सूत्रविषयेऽपि कर्मत्वशक्तिमत्त्वेन द्वितीयाया बोधकत्वादेव, अत्र सूत्रेण कर्मत्वे सिद्धे कर्त्तुरिति तथायुक्तमिति च सूत्रद्वयं व्यर्थमित्याशङ्कय, उक्तसूत्राऽभावेऽनीप्सितमात्रस्यापि कर्मसंज्ञापत्तौ वारणार्थानामित्यस्याऽनवकाशत्वादग्नेर्माणवकं वारयतीत्यत्र माणवकादपि पञ्चम्यापत्तिरित्युक्तसूत्रद्वयमवश्यं कार्य्यमित्युत्तरितं, द्वितीयायाः सम्बन्धार्थकत्वे शङ्कासमाधानयोर्भाव्यकृत्कृतोः स्पष्टैवाऽसङ्गतिरिति । दुहादिधातूनां व्यापारद्वयार्थकत्वेन कर्त्तुरिति कम सिद्धे कर्मत्वेनाऽविवक्षायामप्यनेन कर्मत्वमिति परास्तमेतेनेति दिक् ॥
ननु नटस्य गाथां शृणोतीत्यादौ नटस्य गीतद्वारा क्रियाजनकत्वेन कारकत्वादकथितञ्चेत्यनेन कर्मत्वाक्षतिः । न च तस्याऽपादानत्वविवक्षणान्नोक्तापत्तिरिति वाच्यम् । 'आख्यातोपयोगे' इत्यत्रोपयोगग्रहणादनुपयोगे नियमपूर्वकविद्यास्वीकारभिन्ने आख्यातुरपादानत्वाविवक्षाबोधनात् । न च दुहादिधातुकर्मयुक्ताभावान्न दोष इति वाच्यम् । तदंशस्यापि परिगणनलभ्यत्वादित्यत आह- दुह्याजिति । दुह्माचपचण्डरुधिप्रच्छिचित्रशालजिमथमुपाम् ।
१३
कर्मयुक् स्यादकथितं तथा स्यानीहृकृष्वहाम् ॥ १ ॥
इति षोडशधातुपरिगणनम् । अत्र श्रुधातोरसत्वात्परिगणितधातुकर्मयुक्ताभावेन न नटस्य कर्मत्वमिति भावः । परिगणनमिदं प्राचामनुरोधेनैव, भाष्ये तु दुहियाचिरुचिप्रच्छिभिक्षि चित्र्रशासय इत्येव पठिताः । कर्मयुक्त्वं नाम कर्मसम्बद्धत्वं तच्च न सर्वत्रैकरूपं किंतु क्वचिद्धात्वर्थव्यापारात्प्राक् । क्वचिच्च धात्वर्थव्यापाराऽनन्तरमिति प्रकारद्वयम् तत्रोक्तप्रकारद्वये ब्रुविशासिभिन्न धातुविषये धात्वर्थव्यापारात्प्रागेव कर्मसम्बद्धत्वं ब्रूशास्धातु विषये तु धात्वर्थव्यापाराऽनन्तरं कर्मसंबद्धत्वम् । ब्रुविशासिभिन्नेऽपि, सति सम्भवे धात्वर्थव्यापारात्प्रागेव कर्मसम्बद्धत्वं ग्राह्यम् । अत एव गां पयो दोग्धि स्थाल्यामित्यादौ गोव्यापाराऽनन्तरं स्थाल्यादेः पयः सम्बद्धत्वेऽप्यधिकरणत्वाऽविवक्षायामनेन कर्मत्वं न । तथाच तत्राऽपादानादीत्यत्रादिशब्देनाऽपादानसम्प्रदानाऽधिकरणानामेव ग्रहणं, करणस्य तु न हस्तादेः करणस्य पय आदिकर्मयोगाऽभावात् ॥
गां दोग्धि पय इति - अन्तः स्थितद्रवद्रव्यनिष्टविभागानुकूलव्यापारो दुहेरर्थः । नच 'अकथितञ्चेत्यस्येदमुदाहरणं व्यर्थ, गौः पयस्त्यजति गवा पयस्त्याजयतीत्यर्थं पूर्वसूत्रेणैव कर्मत्वसिद्धेरिति वाच्यम् । व्यापारद्वयस्य धात्वर्थत्वे पूर्वसूत्रेण कर्मत्वसिद्धावप्येकव्यापारार्थकत्वे एतत्सूत्रोदाहरणस्य साफल्यात् । तत्र गोरपादानत्वाविवक्षायामनेन
२ फ० म०
Aho! Shrutgyanam