________________
फक्किकारलमञ्जूषा |
स्यात् । उक्तक्रियाध्याहारे तु 'इच्छार्थेषु तुमुन्' इत्यनेन सुलभ एव तुमुन्नति भावः । एवञ्च तिडैव कर्मण उक्तत्वात्ततो द्वितीयाऽप्रसक्त्या निपातेनाऽभिधानाऽभ्युपगमो निष्फल एव । विषवृक्षोपि सम्वद्र्ध्य स्वयं छेत्तुमिष्यते यत्तदसाम्प्रतमन्याय्यं न युज्यते इति पद्याऽर्थः । छेदनस्याऽन्याय्यत्वादिच्छाया अन्याय्यत्वं बोध्यम् । क्रमादमुमित्यन्त्राऽपि अयन्नाद इति श्रीकृष्णीयज्ञानाऽऽकारस्याऽनुकरणम् । नारद इत्येतच्छब्दाऽभिलप्यमानाका रो बोधः । तथा च नारद इत्यस्य प्रथमान्तत्वेनाऽप्रथमान्तत्वेनाऽप्रातिपदिकत्वात्ततो न द्वितीयेति निष्फलैव निपाताऽभिधानाऽभ्युपगतिः । विभक्त्यर्थेऽव्यीभावसमासविधायकवच. नसामर्थ्यात्तिङ्कृत्तद्धितसमासैरेवाऽभिधानं नत्येतदतिरिक्तैरितिपरिगणनकल्पकस्यैव युक्तत्वान्निपातेनाऽभिधानेऽप्यधिकरणे सप्तम्युत्पत्तौ बाधकाभावेन निपाताभिधानं नैव स्वी कार्यमित्याहुः ||
तथा युक्तञ्चानीप्सितम् । तथा क्रियायुक्तस्येप्सिततमस्य कर्मत्वमिति तदर्थ: । सूत्रेऽनीप्सित पदस्यानुद्देश्यमित्यर्थः । अनुद्देश्यञ्च द्विविधं द्वेष्यमुदासीनञ्च । आद्यस्योदाहरणम्, ओदनं भुञ्जानो विषं भुङ्क्ते । द्वितीयस्योदाहरणम्, ग्रामं गच्छंस्तृणं स्पृशतीति । वस्तुतस्तु न पूर्वप्रदर्शितं द्वेष्योदाहरणम्, समभिव्याहृतधात्वर्थप्रधानीभूतव्यापारप्रयोज्यतद्धात्वर्थफलाश्रयत्वस्य तथायुक्तपदार्थत्वात्पराधीनतया विषं भुञ्जानेsपि विषस्य भुजिक्रियानिरूपितफलाश्रयत्वेनोद्देश्यत्वात्कर्तुरित्यनेनैव कर्मत्वसिद्धेः । तदुक्तं भगवता भाष्यकृता (आतश्च विषमोप्सितंयत्तद्भक्षयती ) ति, तस्माच्चौरान्पश्यतीति द्वेष्यस्योदाहरणम्, विषयेन्द्रियसम्बन्धेन दृश्यमाना अपि चौरा न दर्शनोद्देश्या अपित्वनिटदर्शना एवेति । एवं च पूर्वसूत्रेण कर्मत्वाऽप्राप्तावनेन कर्मत्वमिति । नचोदासीनोदाहरणे तृणादेरीप्सिततमत्वाऽभावेन कर्मत्वं न स्यादिति वाच्यम् । स्पृश्यमानस्य गङ्गादेः स्पर्शादिजन्यसंयोगादिफलाधारत्वात्कर्मत्वोपपत्तेः । न च ( तथा युक्तमित्येवा ) स्तु सूत्रं मास्तु च तत्राऽनीप्सितग्रहणमिति वाच्यम् । तदभावे प्रकर्षहीनस्यापीप्सितस्यानेन कर्मसंज्ञाया ( वारणार्थानामि ) त्यस्याऽनवकाशत्वेनाऽपादानत्वापत्तेः । एवञ्च यवेभ्यो गवां वारणाय यदा दण्डोद्यमनादिकं कृतं तेनैव व्यापारेण तत्र संचरन्त्यो महिष्योऽपि वारिता भवन्ति तादृशस्थ महिषीर्वास्यति इति प्रयोगो न स्यादनीप्सितमहिष्या अप्यपादनत्व - प्रसक्तेः । अत अनीप्सितमित्युपात्तम् । तथा युक्तमित्यस्याऽभावे विषेणौदनं भुङ्क्ते इत्यादकरणत्वमात्रविवक्षायां विषस्य, प्रयागात्काशीं गच्छतीत्यादौ प्रयागस्य च कर्मत्वापत्तिर्दुर्वा रेति तदावश्यकम् । सति च तस्मिन् प्रकृतधात्वर्थफलाश्रयत्वरूपतथायुक्तत्वाभावान्नोक्ताssपत्तिरित्यलम् ॥
१२
श्रकथितञ्च । अपादानानीत्यत्राऽपादानादिशब्दस्य भावप्रधाननिदुर्दशेनाऽपादानत्वादिपरत्वादिविशेषैरविवक्षितस्याऽपादानत्वादिरूपेणा ( भासमानस्या ) ( प्रतीयमानस्य ) कारकस्य कर्मत्वमित्यर्थः । अपादानादिशब्दस्य धर्मपरत्वाऽभावे प्रसक्तिपूर्विकाऽपादानत्वाद्यविवक्षायामेवाऽनेन कर्मत्वं स्यात्सर्वथा पूर्वविधेरप्रसक्तौ न स्यादित्युक्तशब्दस्य धर्मपरत्वमावश्यकम् । अपादानत्वादिविवक्षायां तु गोःपयो दोग्धीत्यादौ पञ्चम्याद एव भवन्ति । अपादानत्वाद्यविवक्षायामन्वयितावच्छेदककर्मत्वमन्वयितावच्छेदककर्मत्वादिरूपेण विवक्षाया
Aho! Shrutgyanam