________________
कर्मकारकप्रकरणम् ।
११
त्यासेनैकार्थीभावकल्पना, वृत्तिविग्रहयोरसमर्थत्वापत्तिश्च । किञ्चैकधर्मिबोधकत्वरूपसामा. नाधिकरण्यस्य बहुव्रीापजीव्यस्य हानिः । किञ्च पूर्वोत्तरपदयोरेकविशेष्यकप्रतीतिजनकत्वरूपसामानाधिकरण्याऽभावात्प्राप्ता भार्या यं स प्राप्तमार्य इत्यादौ पुंस्त्वानापत्तिरतो वृत्ति. विग्रहयोः समानार्थत्वनिर्वाहाय 'कालाः परिमाणिने तिसूत्रस्थभाष्योक्तरीत्योभयत्र प्राप्ति. कानन्दकर्मत्येव बोधः । नच कर्मत्वस्य क्रियानिरूपितत्वाद्व्याऽऽनन्दनिरूपितत्वाऽभावेन प्राप्तिकानन्दकम्मेति बोधः कथमिति वाच्यम्। विशेष्ये आनन्दे कर्मत्वनिरूपकत्वस्य बाधेन विशेषणीभूतप्राप्तौ कर्मत्वनिरूपकत्वस्य पर्यवसानात् । स्वर्गे ध्वस्ते यथा स्वर्गी ध्वस्त इति भवति तथैवेति भावः । एवञ्च प्राप्तानन्दशब्दाद्विभक्तिवाच्यतावच्छेदकोभूतकर्मत्वशक्तिमत्वेन क्रियाजनकत्वेन च कर्मादेरभानान्न विभक्तिप्रसक्तिः । अत एव 'गतिकारकोपपदादिति सूत्रे गतिकारकोपपदादिति किमर्थम् ? परमं कारकं पग्मकारकमिति प्रतीकमुपादाय यथा सम्प्रदानादयः शब्दा न कारकरूपतां प्रतिपादयन्ति तथा कारकशब्दोऽपीति कृदन्ता हि क्रियायोग्यताविशिष्टद्रव्यवाचिनो नतूदभूतां कारकशक्ति प्रतिपादयन्तीतिकैयटेनोक्तम् । अत एव न तस्य कर्मत्वस्य क्रियान्वयनियमः । अन्यथा कारकशक्त: क्रियाविशेषणत्वनिययान्न कर्मादेः प्राधान्यं स्यात् । एवं कर्मादिपदं यथा विभक्तिवाच्य. तावच्छेकरूपेण कर्मादिभाननियामकं न तथा पक्कादि पदमपीति बोध्यम् । नचोक्तरीत्या परिगणनोदाहरणाऽन्यथोपपत्या तल्लेखनञ्चानुपपन्नमिति वाच्यम् । तिकृत्तद्धितसमासैरभि. धानं अर्थादुभूतकर्मत्वादिशक्तयाऽऽवेशेन न भानमिति न विभक्तप्रसक्तिरत्रैव तात्पर्य्यग्राहकत्वेन तदुपपत्तेः। इष्टः पुत्र, इष्यते पुत्र इत्यर्थ क्यच कुतो नेत्याशङ्क्य स्वशब्देनोक्तत्वान्न क्यजिति समाहितं इष्टशब्दसामानाधिकरण्यात्पुत्रार्थे कर्मत्वस्यावगतावपि पुत्र इति सुबन्तस्य कर्मवाचकत्वाऽभावान्न तस्मात्क्यजिति तद्भावः । स्वं कर्मत्वं तद्वाचकशब्देन पुत्रगतकर्मत्वस्योक्तत्वान्न तत्रार्थे पुत्रशब्दस्य शक्तिरित्यक्षरार्थः । 'सुप आत्मन' इत्यस्य कर्मत्वविशिष्टबोधकसुबन्ताक्यजित्यर्थ इति तदाशयः । वस्तुतस्तु कर्मत्वविशिष्टबोधका
सुबन्तात्क्यजित्यर्थे इह भवन्त इत्यादिना समाध्यन्तरमुक्तं, वाक्ये फलस्य विशेष्यत्वावृत्तौ व्यापारस्येति समानाश्रत्वाभावेन तत्रार्थे न वृत्तिरित्याहुः ॥
प्राचीनाऽनुसारेणोक्तस्याऽभिधानं तु प्रायेण तिकृत्तद्धितसमासैरित्यत्र प्रायेणेत्यस्य फलमाह-क्वचिन्निपातेनाऽभिधानमिति । अयम्भावः,
विषवृक्षोऽपि सम्वर्य स्वयं छेत्तुमसाम्प्रतम्
इति श्लोके निपातेनाऽपिना विषवृक्षरूपकर्मण उक्तत्वात्ततः प्रथमा निपातेनाऽभिधानस्याऽनभ्युपगमेऽपिनोक्तकर्मण उक्तत्वेनाऽपि विषवृक्षशब्दाद्वितीया दुर्वा रैवेत्यवसेयम् । एवं क्रमादमुं नारद इत्यबोधि स इत्यादावितिशब्देन निपातेन नारदरूपकर्मण उक्तत्वान्न ततो द्वितीया किन्तु प्रथमैव । अत एव, अपिना निपातेनाऽधिकरणस्योक्तत्वात्सप्तम्य. प्राप्तौ वचनसामर्थ्यात्सप्तमी, विभक्त्यर्थेऽव्ययीभावसमासविधायकवचनसामर्थ्यादिति तदर्थ इति प्राञ्चः।
वस्तुतस्तु-विषवृक्षोऽपीति पद्ये तुमुन उपपत्त्यर्थमिष्यते इति क्रियान्वराऽध्याहा. रस्यावश्यकत्वम् , अन्यथा क्रियार्थकक्रियोपपदत्वस्य शकादियोगस्य चाऽसत्वात्तुमुन् न
Aho ! Shrutgyanam