________________
फक्किकारत्नमञ्जूषा |
तस्य सर्वस्यापि कर्मत्वाभिधानान्न कृतः कटः सुन्दर इत्यादौ कुत्रापि द्वितीयोत्पत्तिरित्यलम् ॥
१०
अथ मूलोक्तपरिगणनोदाहरणस्य शत्य इत्यादेः खण्डनप्रकारः । तथाहि, यथा कर्मकरणादिपदे विभक्तिवाच्यतावच्छेदकरूपेण ( उद्भुतकर्मत्वादिशक्तिमत्वेन) कर्मादेर भानात् न ततो द्वितीयेोत्पत्तिस्तथा प्रकृते शत्य इत्यत्राऽप्युक्तरूपेण कर्मणो भानाभावात् (अप्रतीयमानत्वात्) द्वितीयोत्पत्यसम्भवेन तद्धितस्योदाहरणमेतन्निष्फलमेव, अर्थादनभि हिताधिकारस्य चैतत्प्रत्युदाहरणं युक्तम् । तस्मात (१) औपगवः, चित्रगुरित्येतत्प्रत्युदाहरणं युक्तम् । तत्र च येन रूपेण सम्बन्धस्य षष्ठ्या भानं भवति तेनैव रूपेण तद्धितान्तादिभिः समुदायशक्त्या सम्बन्धस्य भानं भवति । ( २ ) घट इत्यादौ पष्ट्यवाच्यत्वेन दृष्टानामेव प्रातिपदिकार्थपदेन ग्रहणं प्रातिपदिकार्थभिन्नस्यैव षष्ठीविधायके 'शेषे षष्टी'ति सूत्रे शेषेपदेन ग्रहणम् । औपगवादौ सम्बन्धस्य पष्ठीवाच्यत्वेन दृष्टत्वात्षष्ट्यापत्तिः । उक्ताधिकार आवश्यकः । सति च तस्मिन् अनभिहिते सम्बन्धे षष्ठीति सूत्राऽर्थान्नोक्तापत्तिलेशोऽपीति भावः । वस्तुतस्तु औपगवश्चित्रगुरित्यपि न प्रत्युदाहरणं योग्यम्, कटं भीष्ममितिपरि गणनफलमुक्त्वाऽशेषत्वान्नात्र शेषलक्षणा षष्ठी, अन्याऽनभिहितकर्मादिग्रामसत्त्वाच्च नान्या काचिद्विभक्तिरित्याशङ्क्य न केवला प्रकृतिः प्रयोक्तव्या नाऽपि केवलः प्रत्ययः, इति समाधानं कृतम् । नहि काचिदन्या विभक्तिरेतस्या अभिसम्बद्धं वक्तुमुत्सहते इति कृत्वा द्वितीयेति भाष्ये उक्तम् । तत्राऽशेषत्वाच्चात्र शेषलक्षणा षष्टीत्युक्त्यैव, औपगवादौ षष्ठीवारणात् । शेषपदेन प्रातिपदिकार्थभिन्नस्यैव ग्रहणादिहाऽतथात्वेनाऽदोषादिति तदाशयः । 'अनेकमन्यपदार्थे' इत्यन्त्र भाष्येऽपि ध्वनितमेतत् । यत्र हि चित्रगुरित्यादौ षष्ठ्यर्थस्य सम्बन्धस्य नियमेन भानात्षष्टी प्राप्नोतीत्याशङ्क्य, अनभिहितः सोऽर्थः ( चित्रागोस्वा. मित्वरूपः ) अन्तर्भूतः प्रातिपदिकार्थः सम्पन्न इति प्रथमेत्युक्तम् । अनेनाऽशेषत्वरूपः पष्ठ्यप्राप्तिहेतुरुक्तः । अन्तर्भूत इत्यनेन चित्रग्वादौ सम्बन्धस्यैव प्रवृत्तिनिमित्तत्वात्प्रातिपदिकार्थपदेन ग्रहणयोग्यत्वमुक्तमिति प्राञ्चः ॥
नागेशास्तु - शत्य इत्यत्र क्रयणादिक्रियायाः कारकान्वययोग्यतावच्छेदकसाध्यत्वेन रूपेणाऽभानान्न द्वितीयाऽतिप्रसङ्गः । उक्तरूपेण क्रियाभानाऽभावेन तत्रेतरकारकाणामध्यन्वयो न भवति, देवदत्तेन शत्योऽश्व इति प्रयोगो नेष्टः । नच शतेन क्रीत इत्यर्थे 'शताच्च उन्यतावि' त्यनेन यति निष्पन्नस्य शत्यशब्दस्य शतकरणकक्रयणकर्मबोधकत्वादुतापत्तेर्दुर्वा रैवेति वाच्यम् । प्रत्ययान्तसमुदायेनोपस्थितायास्तस्याः क्रियायाः साध्यत्वे - नाप्रतीयमानत्वात् । कारकान्वययोग्यक्रियाया धातोरेवोपस्थितिर्भवति न तु तद्धितशक्त्येति नोक्ताssपत्तिलेशोऽपीति भावः । एवं प्राप्तानन्द इत्यादौ यत्कर्मकप्राप्तिकर्त्तानन्द इति विग्रहत आनन्दकर्तृकप्राप्तिकर्मेति समासतश्च बोधः, उभयत्र बोधे विशेष्यविशेषणभावव्य
( १ ) औपगव इत्यत्र तत्सम्बन्ध्यपत्यमित्यर्थे प्रत्ययविधानात् चित्रगुरित्यत्र षष्ठ्यर्थे बहुव्रीहिविधानादिति भावः ।
( २ ) औपगवादी समुदायात्षष्ठ्यापादनं तदा सम्भवति यदा प्रातिपदिकार्थे विधीयमा नया प्रथमया बाधो न स्यादित्याशङ्कां वारयितुमाह-- घट इति ।
Aho! Shrutgyanam