________________
कर्मकारकप्रकरणम् |
वेति वाच्यम् । उक्तरीत्योक्तसूत्रजबोधे संख्यायाः प्राधान्यात्तदावश्यकत्वेऽपि एकत्ववि - शिष्टे कर्मणि द्वितीयैकवचनमित्यर्थे दर्शितदिशा तदनाश्यकत्वात् । न च ( द्विर्बद्धं सबमि ) ति न्यायेन व्यतिलुनीते इत्यत्र क्रियाविनिमय द्योतकव्यतीत्युभयोपसर्ग प्रयोगवदुककर्मण्यपि द्वितीया दुर्वारैवेति वाच्यम् । लक्ष्यानुसारादुक्तार्थानामिति न्यायानुसरण - स्यैवौचित्यादित्यलम् ।
प्रातिपदिकविषये स्वार्थ द्रव्येत्यादिपञ्चक पक्षाङ्गीकारवद्धातुविषयेऽपि पञ्चकपक्षोऽङ्गीकातथा च धातोरपि क्रियात्व-क्रिया-काल- कारक - संख्यारूपं पञ्चकमर्थः, उभयत्र पञ्चकपक्षांगीकारादेव धातुविषयेऽपि 'द्वयेकयोरित्यादेः' 'भावकर्मणोरित्यादेश्व भाष्यसम्मतं नियमत्वं संगच्छते । तत्तत्पञ्चकस्य प्रातिपदिकधातुवाच्यत्वादेव दधि-अजर्घा -अवेदित्यादौ प्रातिपदिकधातुभ्यामेव सर्वबोधः । क्रियात्वक्रियेत्यादिपञ्चकस्य धातुवाच्यत्वादेव भावकर्मणोरित्यस्य भावकर्मवाचकाद्धातोरित्यर्थः 'स्नुक्रमोरि' ति सूत्रभाष्ये उक्तः । प्रातिपदिकस्थले धातुस्थले च द्योत्यत्वादेव प्रत्ययार्थस्य विशेषणत्वमेवेति दिक् ॥
ननु 'अनभिहिते' इत्यस्य 'कर्मणि द्वितीया' इत्यतः प्रागप्यधिकारात्प्रातिपदिकार्थसूत्रेऽपि तस्याऽधिकारेणाऽनभिहिते प्रातिपदिकार्थ एव प्रथमा स्यादुक्ते तस्मिन् सा न स्यादित्याशङ्कय समाधत्ते श्रभिहिते तु प्रातिपदिकार्थमात्रे प्रथमैवेति । अनभिहिaisaकारे सत्यपि प्रातिपदिकार्थस्य प्रातिपदिकेन तिङादिना वोक्कत्वेऽपि सूत्रारम्भसायत्प्रथमैव नान्या विभक्तिः । अत एव ( अभिहिते प्रथमैवे ) ति वार्त्तिकं संगतम् । अन्यथोक्तरीत्या प्रातिपदिकार्थस्योक्तत्वेन प्रथमा प्राप्तौ स्पष्टैव वार्त्तिकाऽसंगतिरिति
भावः ।
ननु अभिहिते प्रातिपदिकार्थमात्रे प्रथमैवेत्युक्ते तत्र कियद्भिरभिधानमित्याकांक्षायामाह - श्रभिधानं तु प्रायेण तिङ्कृत्तद्धितसमा सैरिति । तिङ उदाहरणम्, देवदत्तेन हरिः सेव्यते । अत्र कर्मणि तङा कर्मणो हरेरुक्तत्वात्ततः प्रथमा । कृत उदाहरणम्, लक्ष्म्या सेवितो हरिः, अत्र कर्मणि तेन हरेः कर्मण उक्तत्वेन ततः प्रथमा । तद्धितस्योदाहरणम्, शतेन क्रीतः शत्योऽश्वः, अत्र शतशब्दात् 'शताच्च ठन्यतावित्यनेन तेन तमित्यर्थे यति तेनाऽश्वरूपकर्मण उक्तत्वात्प्रथमा । समासस्योदाहरणम्, प्राप्त आनन्दो यस प्राप्ताऽनन्द इति बोध्यम् । तिङ्कुदित्यादिपरिगणनादेव कटं भीष्मं कुर्वत्यादौ विशेष्यवाचककटपदोत्तरद्वितीयया विशेषणवाचक भीष्मपदगतकर्मत्वस्योक्तत्वेपि भीष्मपदाद्वितीया । परिगणनाऽभावे तु येन केनाऽप्यभिधाने उक्तरीत्या विशेषवाचकाद्वितीयोत्पत्तिर्न स्यात् । वस्तुतस्तु परिगणनं भगवता भाष्यकृता प्रत्याख्यातम्, तथाहि प्रक्रियादशायां कटोsपि कर्म भोष्मादयोऽपीति स्वीकारेण कटपदोत्तरद्वितया कत्वविशिष्टकटगतकर्मत्वस्योक्तत्वेऽपि भीष्मत्वविशिष्टभीष्मनिष्ठकर्मत्वबोधार्थं विशेषणवाचकादपि द्वितीयाया आवश्यकत्वात् । कटभीष्मयोः परस्परमन्वयबोधस्तु विशेप्यविशेषणभावेनैवेति बोध्यम् । ( नच सर्वाणि कारकाणि भावनायामेवाऽन्वियन्ती ) ति व्युत्पत्तिविरोध इति वाच्यम् । साक्षात्स्वाश्रयद्वारा ( परम्परया ) वाऽन्वयविषयिणी सा व्युत्पत्तिरिति स्वीकारेणादोषादिति । तिङा कृता च स्वप्रकृत्यर्थं प्रति यस्य कर्मत्वं
Aho! Shrutgyanam