________________
फक्किकारकमञ्जूषा ।
त्वयाऽपि सत्वेन कर्म्मत्वोपपत्तेः । नचैवं घटं जानाति घटमिच्छतीत्यादौ स्वविषयीभव - नानुकूलव्यापारस्य ज्ञानादिरूपस्य धात्वर्थत्वेन ज्ञानादिसमकालोत्पत्तिकस्य स्वविषयीभवनस्य ज्ञानाद्यजन्यत्वात्तदाश्रयस्य घटस्य, माणवकनिष्टस्योत्तरदेशसंयोगानुकूलव्यापाराभावस्य प्रागभावरूपस्याऽनादित्वात्प्रधानीभूतव्यापाराजन्यत्वेन माणवकस्य च कर्मत्वं न स्यादिति वाच्यम् । कर्मत्वलक्षणे प्रयोज्यत्वनिवेशेन तत्र तदुपपत्तेः । तथाहि । स्वविषयीभवनादेरप्यनुभवबलेन स्वप्रयोज्यत्वस्याङ्गीकारात् घटस्य कण्टका पसरणाद्दुःखाभाव इत्याद्यनुरोधेन प्रागभावस्य प्रयोज्यत्वाङ्गीकारेण माणवकस्य च कर्मत्वमुपपन्नमिति भावः ॥
अग्नेर्माणवकं न वारयतीत्यत्र तु न समभिव्याहारे उत्तरदेशसंयोगानुकूलव्यापारस्य गच्छन्तं माणवकं दृष्ट्वा तूष्णीं स्थितिरूपस्य माणवकव्यापारेणाऽन्यथा सिद्धयाऽग्निसंयोप्रयोजकत्वाऽभावादग्निसंयोगरूपफलस्योक्तव्यापाराऽप्रयोज्यत्वेन तदाश्रयस्य माणवकस्य कर्मत्वं न स्यादिति वाच्यम् । कारणत्वस्येव प्रयोजकत्वस्याऽप्यन्यथासिद्धेरङ्गीकारात्तदुपपत्तेः । यथा कारणमन्यथासिद्धं तथा प्रयोजकत्वमप्यन्यथासिद्धमिति भावः ।
८
ननु एतत्प्राग्वर्त्तिनः 'अधिशीङ्स्थासां कर्मेति सूत्रात्कर्मपदाऽनुवृत्या कर्मसंज्ञेत्यर्थलाभे 'कर्त्तुरीप्सिततममिति' सूत्रे कर्मपदं व्यर्थमित्याशङ्कय समाधत्ते - कर्मेत्यनुवृताविति । ( एकयोग निर्द्दिष्टानां सह वा प्रवृत्तिः सह सा निवृत्तिः ) इति परिभाषया एक योगनिर्दिष्टस्याssधारपदस्याऽप्यनुवृत्तावाधारस्यैव कर्मत्वं स्यान्नतु फलाश्रयस्येति तद्व्यावृत्त्यर्थमत्र सूत्रे कर्मग्रहणमावश्यकमिति । अयम्भावः आधारोऽधिकरणमिति सूत्रे कस्याssधारस्याधिकरणसंज्ञेत्याकांक्षायां कारकाऽधिकारात्क्रियाया एवाधारस्येति लाभे तत्रेप्सितस्वतन्त्रपदाभ्यां साक्षात्क्रियाऽधारयोः कर्तृकर्मसंज्ञाभ्यां बाधात्परम्पराऽऽधारस्य ग्रहणात्परम्परा च कर्तृकर्मद्वारैव । एवञ्च कर्त्रा स्वनिष्टव्यापारेणाप्तुमिष्यमाणस्तन्निष्ठक्रियायास्तद्वदाधारः कर्मत्वं प्रतिपद्येत, तथाच विषयतासम्बन्धेन यद्धातुफलं विषये, समवायेन कर्तर्यपि, तद्योगे कर्मत्वमित्याह-गेहं प्रविशतीति । अत्रोक्तसम्बन्धद्वयेन गेहचैत्रयोः फलं तिष्ठतीति भावः ॥
-
अनभिहिते । श्रत्र प्रकृतसूत्रस्य कर्त्तव्यत्वाकर्त्तव्यत्वयोर्विचारः प्रस्तूयते ननु स्वार्थ- द्रव्य - लिङ्ग-संख्या - कारकेति पञ्चविधप्रातिपदिकार्थ पक्षे ( अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ती ) त्यभियुक्तोक्त्या 'स्वादि' सूत्रेण कर्मादौ संख्यायाञ्चार्थं स्वादिविभक्तीनां सिद्धौ 'कर्मणि द्वितीये' त्यादेः 'येकयोद्विवचनैकवचने' इत्यादिसूत्राणां नियमार्थत्वं तत्र कर्मणि द्वितीयेत्यादेद्वयें कयोद्विवचनैकवचने' इत्यादेश्चैकवाक्यत्वे एकस्मि न्कर्मणि द्वितीयैकवचनमिति सूत्रजन्यबोधे ( सूत्रस्यार्थे ) कर्माद्यर्थस्य प्राधान्यादनभिहिते इतिसूत्रमनावश्यकम् । नच तदभावे देवदत्तेन ग्रामो गम्यते, यज्ञदत्तेन तण्डुलः पच्यते इत्यादावुक्तकर्मण्यपि द्वितीयापत्तिरिति वाच्यम् । ( उक्तार्थानामप्रयोगः ) इत्यनेनेोक्तकर्मणि तदप्राप्तेः । कर्मत्वबोधनमेव द्वितीया विधानफलं तच्च तिडैव बोध्यते चेदलं तद्विधानेनेति तदाशयः । नच कर्मणि द्वितीयेत्यादिसूत्रस्य संख्यावाक्येन द्रव्येकयोर्द्विवचनैकवचने इत्यादिना सहैकवाक्यत्वेन कर्मगतैकत्वे द्वितीयैकवचनमित्यर्थे संख्यायाः प्राधान्यादुक्तन्यायाऽप्रवृत्तावुक्तकर्मण्यपि द्वितीयाऽऽपच्या तद्वयावृत्तयेऽनभिहिताऽधिकार आवश्यक
Aho! Shrutgyanam